<!-- Pramāṇa, a library of Indian primary sources · https://indike.org/pramana/ins.science.ray-1956.c52 -->

[Pramāṇa](https://indike.org/pramana/) › [Studies](https://indike.org/pramana/ins) › [Science, technology and education](https://indike.org/pramana/ins.science) › [History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray](https://indike.org/pramana/ins.science.ray-1956) › c52

# History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c52: अथ द्वितीयोऽध्यायः ।

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c52

- **Language:** English

## Contents

- [c52.s1 महारसाः ।](https://indike.org/pramana/ins.science.ray-1956.c52.s1) — 1 part
- [c52.s2 अथ वैक्रान्तः—](https://indike.org/pramana/ins.science.ray-1956.c52.s2) — 7 parts
- [c52.s3 अथ विमलः—](https://indike.org/pramana/ins.science.ray-1956.c52.s3) — 2 parts
- [c52.s4 अथ शिलाधातुः—](https://indike.org/pramana/ins.science.ray-1956.c52.s4) — 12 parts
- [c52.s5 अथ रसकः—](https://indike.org/pramana/ins.science.ray-1956.c52.s5) — 3 parts

### अथ द्वितीयोऽध्यायः ।

### महारसाः ।

### [c52.s1.1](https://indike.org/pramana/ins.science.ray-1956.c52.s1.1)

अभ्रवैक्रान्तमाचीकविमलाद्रिजसस्यकम् ।  
चपलो रसकश्चेति ज्ञात्वाष्टौ सङ्ग्रहेद्रसान् ॥ 1.  
पिनाकं नाग मण्डूकं वज्रमित्यभ्रकं मतम् ।  
श्वेतादिवर्णभेदेन प्रत्येकं तच्चतुर्विधम् ॥ 5  
श्वेतं रक्तञ्च पीतञ्च कृष्णमेवं चतुर्विधम् ॥ 10.  
सुखनिर्मोच्यपत्रञ्च तदभ्रं शस्तमीरितम् ॥ 12.  
सचन्द्रिकञ्च किट्टाभं व्योम न ग्रासयेद्रसम् ।  
ग्रसितञ्च नियोज्योऽसौ लोहे चैव रसायने ॥ 13.  
निश्चन्द्रिकं मृतं व्योम सेव्यं सर्व्वगदेषु च ।  
सेवितं चन्द्रसंयुक्तं मेहं मन्दानलं चरेत् ॥ 14.  
प्रतप्तं सप्तवाराणि निक्षिप्तं काञ्जिकेऽभ्रकम् ।  
निर्दोषं जायते नूनं प्रक्षिप्तं वापि गोजले ।  
त्रिफलाक्वथिते चापि गवां दुग्धे विशेषतः ॥ 17-18  
चूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके ।  
निर्यातं मर्दनाद्धस्ताद्धान्याभ्रमिति कथ्यते ॥ 23.  
धान्याभ्रं कासमर्दस्य रसेन परिमर्दितम् ।  
पुटितं दशवारेण म्रियते नात्र संशयः ॥ 24.

### अथ वैक्रान्तः—

### [c52.s2.1](https://indike.org/pramana/ins.science.ray-1956.c52.s2.1)

अष्टास्रश्चाष्टफलकः षट्कोणो मसृणो गुरुः ।  
शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यते ॥  
श्वेतो रक्तश्च पीतश्च नीलः पारावतच्छविः ।  
श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि सः ॥ 55-56.  
आयुःप्रदश्च बलवर्णकरोऽतिवृष्यः  
प्रज्ञाप्रदः सकलदोषगदापहारी ।

### [c52.s2.2](https://indike.org/pramana/ins.science.ray-1956.c52.s2.2)

दोषाग्निकृत् पविममानगुणस्तुरखो'  
वैक्रान्तकः खलु वपुर्बललोहकारी ॥  
रमायनेषु सर्व्वेषु पूर्व्वगण्यः प्रतापवान् ।  
वज्रस्थाने नियोक्तव्यो वैक्रान्तः सर्व्वदोषहा ॥ 57-58.  
\* \* वैक्रान्तं वज्राकारं महारसम् ।  
बिन्ध्यस्य दक्षिणे वाऽस्ति ह्युत्तरे वाऽस्ति पर्व्वतः ।  
विक्रामयति लोहानि तेन वैक्रान्तकः स्मृतः ॥ 60-61.  
वैक्रान्तकाः स्युस्त्रिदिनं विशुद्धाः  
संस्वेदिताः क्षारपटूनि दत्त्वा ।  
अम्लेषु मूलेषु कुलत्थरम्भा-  
नीरेऽथवा कोद्रववारिपक्काः ॥  
कुलत्थक्काथसंस्विन्नो वैक्रान्तः परिशुष्यति ।  
म्रियतेऽष्टपुटैर्गन्धनिम्बुकद्रवसंयुतः ॥ 67-68.  
भस्मीभूतन्तु वैक्रान्तं वज्रस्थाने नियोजयेत् ॥  
मोक्षमोरटपालाशक्षारगोमूत्रभावितम् ।  
वज्रकन्दनि शाकल्काफलचूर्णेसमन्वितम् ।  
तत्कल्के टङ्कणं लाक्षाचूर्णं वैक्रान्तसम्भवम् ॥ 70-71.  
नवसारसमायुक्तं मेषशृङ्गोद्रवान्वितम् ।  
पिण्डितं मूकमूषस्थ' ध्मापितञ्च दृढाग्निना ॥ 72  
तत्रैव पतते सत्वं वैक्रान्तस्य न संशयः ॥ 73.

### [c52.s2.3](https://indike.org/pramana/ins.science.ray-1956.c52.s2.3)

अथ माक्षिकम्—

### [c52.s2.4](https://indike.org/pramana/ins.science.ray-1956.c52.s2.4)

सुवर्णशैलप्रभवो विष्णुना काञ्चनो रसः ।  
तापी¹किरातचीनेषु यवनेषु च निर्मितः ॥ 77.  
माक्षिकं द्विविध हेममाक्षिकन्तारमाक्षिकम् ।  
तत्राद्यं माक्षिकं कान्यकुब्जोत्थं स्वर्णसन्निभम् ॥ 80

### [c52.s2.5](https://indike.org/pramana/ins.science.ray-1956.c52.s2.5)

¹ तापी, a variant in the Poona ed, which also agrees with B and K

### [c52.s2.6](https://indike.org/pramana/ins.science.ray-1956.c52.s2.6)

पाषाणबहुलः प्रोक्तस्ताराख्योऽल्पगुणात्मकः ॥ 81.  
मातुलुङ्गाम्बुगन्धाभ्यां पिष्टं मूषोदरे स्थितम्।  
पञ्चक्रोडपुटैर्दग्धं म्रियते माक्षिकं खलु ॥ 84.  
क्षौद्रगन्धर्व्वतैलाभ्यां गोमूत्रेण घृतेन च।  
कदलीकन्दसारेण भावितं माक्षिकं मुहुः।  
मूषायां मुञ्चति ध्मातं सत्त्वं शुल्वनिभं मृदु ॥¹ 89-90.

### [c52.s2.7](https://indike.org/pramana/ins.science.ray-1956.c52.s2.7)

¹ Verses 89 90 as also 103-104 occur both in Rasárnava and Rr by Nag, ; the Poona ed. reads पतते नात्र संशयः in the place of प्रयच्छति न संशयः ।

### अथ विमलः—

### [c52.s3.1](https://indike.org/pramana/ins.science.ray-1956.c52.s3.1)

विमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्व्वकः।  
तृतीयः कांस्यविमलस्तत्तत्कान्त्या स लक्ष्यते ॥ 96.  
वर्त्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः ॥ 97.  
गन्धाश्मलकुचाद्यैश्च म्रियते दशभिः पुटैः ॥ 100  
सटङ्गलकुचद्रावैर्मेषशृङ्ग्याश्च भस्मना।  
पिष्ट्वा मूषोदरे लिप्तः संशोष्य च निरुध्य च ॥  
षट्प्रस्थकोकिलैर्ध्मातो विमलः सीससन्निभः²।  
सत्त्वं मुञ्चति तद्युक्तो रसः स्यात्म रसायनः ॥ 101-102.  
विमलं शिग्रुतोयेन काञ्चीकासीसटङ्गणैः।  
वश्यकन्दसमायुक्तं भावितं कदलीरसैः ॥  
मोचकक्षारसंयुक्तं ध्मापितं मूकभूषकम्।  
सत्त्वं चन्द्रार्कसङ्काशं प्रयच्छति न संशयः ॥ 103-104.

### [c52.s3.2](https://indike.org/pramana/ins.science.ray-1956.c52.s3.2)

² Both the B. and K. Mss read सीससन्निभः । The Poona ed gives a variant शीतसन्निभः ।

### अथ शिलाधातुः—

### [c52.s4.1](https://indike.org/pramana/ins.science.ray-1956.c52.s4.1)

शिलाधातुर्द्विधा प्रोक्तो गोमूत्राद्यो रसायनः।  
कर्पूरपूर्व्वकश्र्चान्यस्तत्राद्यो द्विविधः पुनः ॥ 109

### [c52.s4.2](https://indike.org/pramana/ins.science.ray-1956.c52.s4.2)

ग्रौपं तीव्राक्रमेश्रः पचेभ्यो द्विप्रसम्भृतम् ।  
स्वर्णरूप्यार्कगर्भस्य. शिलाधातुर्विनिःसरेत् ॥ 110-111

### [c52.s4.3](https://indike.org/pramana/ins.science.ray-1956.c52.s4.3)

अथ मण्डकम्—

### [c52.s4.4](https://indike.org/pramana/ins.science.ray-1956.c52.s4.4)

मण्डूकगण्डवच्छ्नाक्षं भागबन्धेनिनिय्यते ॥ 127.

### [c52.s4.5](https://indike.org/pramana/ins.science.ray-1956.c52.s4.5)

मण्डूरसत्वम्—

### [c52.s4.6](https://indike.org/pramana/ins.science.ray-1956.c52.s4.6)

ग्मायन्तं वमनैरक्तक्तं गन्धं  
भित्त्वापतं गदितमत्र मण्डूरसत्वम् ॥ 129  
लकुचद्रावगन्धाश्मटङ्कणेन समन्वितम् ।  
निरुध्य मूपिकामध्ये म्धियते कौक्कुटैः पुटैः ॥ 132.  
मण्डूरस्य तु चूर्णन्तु पादसौभाग्यसंयुतम् ।  
करञ्जत्तैलमध्यस्थं दिनमेकं निधापयेत् ॥  
मञ्चस्तमन्त्रमृषायां¹ धापयेत्किकिल्वषम् ।  
इन्द्रगोपकति चैव सत्वं भवति² गोभनम् ॥ 133-134.  
निम्बुद्वावाटङ्कहाभ्यां मूषामध्ये निरुध्य च ।  
ताम्ररूपं परिक्षान्तं सत्वं मुञ्चति मण्डूकम् ॥ 135.  
शुद्धं मध्वं गिरिक्रान्तं³ पूर्वभेषजसंयुतम् ।  
नानाविधानयोगेन सत्वं मुञ्चति निश्चितम् ॥ 136.

### [c52.s4.7](https://indike.org/pramana/ins.science.ray-1956.c52.s4.7)

¹ The Poona ed. reads कन्दणकल्कच्छद। We have adopted the reading of Rasárnava

### [c52.s4.8](https://indike.org/pramana/ins.science.ray-1956.c52.s4.8)

² सप्ति, another reading in the Poona ed., which also agrees with B. K. and Rasarnava.

### [c52.s4.9](https://indike.org/pramana/ins.science.ray-1956.c52.s4.9)

³ The Poona ed. reads गिरिकान्तु।

### [c52.s4.10](https://indike.org/pramana/ins.science.ray-1956.c52.s4.10)

अथ चपलः—

### [c52.s4.11](https://indike.org/pramana/ins.science.ray-1956.c52.s4.11)

गौरः श्वेतोऽरुणः कृष्णश्चपलगु चतुर्विधः ।  
हेमामर्थ्यैश्च तागमो विशेषाद्रसबंधनः ॥ 143.

### [c52.s4.12](https://indike.org/pramana/ins.science.ray-1956.c52.s4.12)

शेषौ तु मध्यौ लाक्षावच्छीघ्रद्रावौ तु निष्फलौ ।  
वङ्गवद्दववे वह्नौ चपलस्तेन कीर्त्तितः ॥¹ 144.  
चपलः स्फटिकच्छायः षडस्रः² स्निग्धको गुरुः ॥ 146

### अथ रसकः—

### [c52.s5.1](https://indike.org/pramana/ins.science.ray-1956.c52.s5.1)

रसको द्विविधः प्रोक्तो दुर्दुरः कारवेल्लुकः ।  
सदलो दुर्दुरः प्रोक्तो निर्दलः कारवेल्लुकः ॥ 149.  
खर्परः परिसन्तप्तः सप्तवारं निमज्जितः ।  
बीजपूररसस्यान्तर्निर्मलत्वं समश्नुते ॥  
नृमूत्रे वाऽश्वमूत्रे वा तक्र वा काञ्जिकेऽथवा ।  
प्रताम्य मज्जितं सम्यक् खर्परं परिशुष्यति ॥ 154-155  
हरिद्रात्रिफलारालसिन्धुधूमैः सटङ्कणैः ।  
सारुष्करैश्च पाठाद्यैः साम्लैः सम्मर्च खर्परम् ॥  
लिप्तं वृन्ताकमूषायां शोषयित्वा निरुध्य च ।  
मूषां मूषोपरि³ न्यस्य खर्परं प्रधमेत्ततः ॥  
खर्परे प्रहते ज्वाला भवेन्नीला सिता यदि ।  
तदा सन्दंशतो मूषां धृत्वा कृत्वा त्वधोमुखम् ।  
शनैरास्फालयेद्भूमो यथा नालं न भज्यते ॥  
वङ्गाभं पतितं सत्त्वं समादाय नियोजयेत् ॥ 157-161  
लाक्षागुडामुरीपथ्याहरिद्रामर्जटङ्कणैः ।  
सम्यक् सञ्चूर्ण्य तत्पक्वं गोदुग्धेन घृतेन च ।  
वृन्ताकमूषिकामध्ये निरुध्य गुटिकाकृति ।  
ध्मात्वा ध्मात्वा समाकृष्य ढालय

### [c52.s5.2](https://indike.org/pramana/ins.science.ray-1956.c52.s5.2)

यद्वा जलयुतां स्थालीं निखनेत्कोष्टिकोदरे ।  
सच्छिद्रं तन्मुखे मल्ल ं तन्मुखेऽधोमुखं¹ क्षिपेत् ।  
मूषोपरि शिखित्रांश्च प्रक्षिप्य प्रधमेदृढम् ।  
पतितं स्थालिकानीरे सत्त्वमादाय योजयेत् ॥ 165-166.  
तत्सत्त्वं तालकोपेतं प्रक्षिप्य खलु खर्परे ।  
मर्दयेल्लोहदण्डेन भस्मीभवति निश्चितम् ॥ 167-168.

### [c52.s5.3](https://indike.org/pramana/ins.science.ray-1956.c52.s5.3)

¹ तन्मुखेऽधोमुखं, a variant in the Poona ed, which we have adopted

## Linked texts (2)

- [Rasaratnasamuccaya](https://indike.org/pramana/in.med.rasa.rasaratnasamuccaya) — Vāgbhaṭa (alchemist), Sanskrit
- [Rasārṇava](https://indike.org/pramana/in.med.rasa.siddha.rasarnava) — Sanskrit

---
Source: [https://indike.org/pramana/ins.science.ray-1956.c52](https://indike.org/pramana/ins.science.ray-1956.c52) · Pramāṇa
