Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c53.s1: अथोपरसाः साधारणरसाश्च ।

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c53.s1

Language
English

अथोपरसाः साधारणरसाश्च ।

c53.s1.1

अथ गन्धकः—

c53.s1.2

गन्धाश्मगैरिकासीसकाङ्क्षीतालशिलाञ्जनम् ।
कङ्कुष्ठञ्चेत्युपरसाश्चाष्टौ पारदकर्मणि ॥ 1.
स चापि त्रिविधो देवि शुकचञ्चुनिभो वरः ।
मध्यमः पीतवर्णः स्याच्छुक्लवर्णोऽधमः प्रिये ॥ 12
चतुर्द्धा गन्धको ज्ञेयो वर्णैः श्वेतादिभिः खलु ।
* * * * *
दुर्लभः कृष्णवर्णश्च स जरामृत्युनाशनः ॥ 13-15
गन्धको द्रावितो भृङ्गरसे क्षिप्तो विशुध्यति ॥ 23
स्थाल्यां दुग्धं विनिचिप्य मुखे वस्त्रं निरुध्य च ।
गन्धकं तत्र निचिप्य चूर्णीतं सिकताकृति ।
छादयेत्पृथुदीर्घेण खर्परेणैव गन्धकम् ॥
ज्वालयेत्खर्परस्योर्द्धं वनच्छागैस्तथोपलैः ।
दुग्धे निपतितो गन्धो गलितः परिशुध्यति ॥ 24-25.