Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c53.s9: अथ नवसारः—

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c53.s9

Language
English

अथ नवसारः—

c53.s9.1

करीरपीलुकाष्ठेषु पच्यमानेषु चोद्भवः ।
क्षारोऽसौ नवसारः स्याच्चूल्लिकालवणाभिधः ॥
इष्टिकादहने जातं पाण्डुरं लवणं लघु ।
तदुक्तं नवसाराख्यं चूलिकालवणं च तत् ।
रसेन्द्रजारणं लोहद्रावणं जठराग्निकृत् ॥
गुल्मप्लीहास्यशोषघ्नं भुक्तमांसादिजारणम् । 127-129.

c53.s9.2

अथ वराटिकाः—

c53.s9.3

पीताभा ग्रन्थिका पृष्ठे दीर्घवृत्ता वराटिका ।
रसवैद्यैर्विनिर्दिष्टा सा चराचरसंज्ञिका ॥ 130.
वराटाः काञ्जिके स्विन्ना यामाच्छुद्धिंमवाप्नुयुः ॥ 134.

c53.s9.4

अथाग्निजारः—

c53.s9.5

समुद्रे ऽग्निनक्रस्य जरायुर्बहिरुज्झितः ।
संशुष्को भानुतापेन सोऽग्निजार इति स्मृतः ॥ 135

c53.s9.6

अथ गिरिसिन्दूरम्—

c53.s9.7

महागिरिषु चाल्पायःपाषाणान्तःस्थितो रसः 137.

c53.s9.8

अथ हिङ्गुलः—

c53.s9.9

एतस्मादाहृतः सूतो जीर्णगन्धसमो गुणैः ॥ 141.
दरदः पातनायन्त्रे पातितश्च जलाश्रये ।
तत्सत्त्वं सूतसङ्काशं पातयेन्नात्र संशयः ॥ 144

c53.s9.10

अथ मृदारशृङ्गरकम्—

c53.s9.11

सदलं पीतवर्णं च भवेदगुजंरमण्डले ।
अर्बुदस्य गिरेः पार्श्वे जातं मृद्दारशृङ्गकम् ॥
सीससत्त्वं गुरु ज्ञेयमभ्रमयं पगदापहम् ।
रसबन्धनमुत्कृष्टं केशरञ्जनमुत्तमम् ॥
साधारंणरसाः सर्वे मातुलुङ्गाद्र्रकाम्बुना ।
त्रिरात्रं भाविताः शुष्का भवेयुर्दोषवर्जिताः ॥ 145-147.

c53.s9.12

अथ राजावर्त्तः—

c53.s9.13

राजावर्त्तोऽल्परक्तेारुनीलिममिश्रितप्रभः¹ । 149.
लुङ्गाम्बुगन्धकोपेतो राजावर्त्तो विचूर्णिंतः ।
पुटनात्सप्तवारेण राजावर्त्तो मृतो भवेत् ॥ 153.

c53.s9.14

¹ नीलिमामिश्रितप्रभः, another reading in the Poona ed, which agrees with B and K., but it is grammatically inaccurate.