Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c59.s1: अथ रसशाला ।

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c59.s1

Language
English

अथ रसशाला ।

c59.s1.1

रसशालां प्रकुर्व्वीत सर्व्वबाधाविवर्जिताम् ।
सर्व्वौषधमये देशे रम्यकूपसमन्विते ॥
नानोपकरणोपेतां प्राकारेण सुशोभिताम् ॥
शालायाः पूर्व्वदिग्भागे स्थापयेद्रसभाैरवम् ।
वह्निकर्म्माणि चाग्निये याम्ये पाषाणकर्म्म च ॥
नैर्ऋत्ये शस्त्रकर्म्माणि वारुणे क्षालनादिकम् ।
शोषणं वायुकोणे च वेधकर्म्मोत्तरे तथा ॥
स्थापनं सिद्धवस्तूनां प्रकुर्य्यादीशकोणके ।
पदार्थसङ्ग्रहः कार्य्यो रससाधनहेतुकः ॥
सत्त्वपातनकोष्ठोञ्च सुराकोष्ठौं सुशोभनाम् ।
भूमिकोष्ठौञ्चलत्कोष्ठौ जलद्रोणौरनेकशः ॥
भस्त्रिकायुगलं तद्वन्नलिके वज्रलोहयोः ।
\* \* \* \* \*
करणानि विचित्राणि द्रव्याण्यपि समाहरेत् ।
कण्डनौ पेषणीं खल्लान् द्रोणौरूपांश्च वर्त्तु लान् ।
सूक्ष्मच्छिद्रसहस्त्राढ्यां द्रव्यगालनहेतवे ।
चालनीञ्च कटत्राणि \* \* \* ॥

c59.s1.2

¹ १, रसङ्ग्रहः a variant in the Poona ed., which we have adopted.

c59.s1.3

मूषामृत्तुषकार्पासवनोपलकपिष्टकम् ।
काचायोमृद्वराटानां कूपिकाचषकानि च । 1-18.
निर्लोभाः सत्यवक्तारो देवब्राह्मणपूजकाः ।
यमिनः पथ्यभोक्तारो योजनीया रसायने ॥ 30.
तत्तदौषधनामज्ञाः शुचयो वञ्चनोज्झिताः ।
नानाविषयभाषाज्ञास्ते मता भेषजाहृतौ ॥ 32.

Linked texts (1)