Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c61.s1: अथ यन्त्राणि ।

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c61.s1

Language
English

अथ यन्त्राणि ।

c61.s1.1

अथ यन्त्राणि वच्यन्ते रसतान्त्राण्यशेषतः ।
समालोक्य समासेन सोमदेवेन साम्प्रतम् ॥ 1

c61.s1.2

अथ दोलायन्त्रम्—

c61.s1.3

द्रवद्रव्येण भाण्डस्य पूरितार्द्धोदरस्य च ।
मुखमुभयतो द्वारद्वयं कृत्वा प्रयत्नतः ॥ 3.
तयोस्तु निक्षिपेद्दण्डं तन्मध्ये रसपोटलीम् ।
बद्धा तु स्वेदयेदेतद्दॊलायन्त्रमिति स्मृतम् ॥ 4.

c61.s1.4

अथ स्वेदनीयन्त्रम्—

c61.s1.5

साम्बुस्थालीमुखाबद्धे वस्त्रे पाक्यं निवेशयेत् ।
पिधाय पच्यते यत्र स्वेदनीयन्त्रमुच्यते ॥ 5.

c61.s1.6

अथ पातनायन्त्रम्—

c61.s1.7

अष्टाङ्गु लपरिणाहमष्टाङ्गु लमुच्छ्रितम् ।
चतुरङ्गुलकीत्सेधं तोयाधारं गलादधः ॥

c61.s1.8

अधोभाण्डे मुखं तस्य भाण्डस्योपरिवर्त्तिनः
षोडशाङ्गु लविस्तीर्णपृष्ठस्यास्ये प्रवेशयेत् ॥
पार्श्वयोर्महिषीक्षीरचूर्णमण्डफाणितैः ।
लिप्तवा विशोषयेत् सन्धिं जलाधारे जलं क्षिपेत् ।
चुल्लयामारोपयेदेतत् पातनावन्त्रमीरितम् ॥ 6-8.

Linked texts (1)