History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c66: Extracts from RASANAKSHATRAMALIKA.
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c66
- Language
- English
Extracts from RASANAKSHATRAMALIKA.
c66.1
मथनसिंहविरचितायाः रसनक्षत्रमालिकायाः उद्धताः श्लोकाः ।
c66.2
चतुश्चतुःशंखकपर्द्दिकानां
सतक्रजम्बीरविमर्द्दितानाम् ।
अफिनमाक्षीकविषह्वयानां
पलं पलं दन्तिफलान्वितानाम् ॥ 25
c66.3
मृतभस्मगन्धसूता दितयं वङ्गस्य शुद्धतीक्ष्णस्य ।
दग्धा मृगस्य शृङ्गं त्रिगुणं दत्त्वा रसार्द्धविषम् ॥ 123.
चित्रकशीतशिवाह्नषदशमूलटिवनटविल्वगिरैः ।
कलहत्तारविद्धतकैः प्रत्येकं भावनत्रितयम् ॥ 124
दत्त्वा सुसिद्धमात्रो मारिचधूपेन धूपितः सम्यक् ।
स्वच्छन्दभैरवाख्यो रसः समस्तामयध्वंसी ॥ 125.
त्रिकटुकारसेन युक्तो विशेषतः सन्निपातहरः ।
ग्रहणिगदामयशूलव्रणविद्रधिवातगुल्मजयी ॥ 126.
इति स्वच्छन्दभैरवो रसः ॥[^asterisk]
c66.4
[^asterisk]: * The स्वच्छन्दभैरव रस mentioned in the रसनक्षत्रमालिका is quite distinct from that, which is stated in the रसेन्द्रचिन्तामणि । Neither has it any analogy with what is described in the रसरत्नसमुच्चय ।
c66.5
इयं मालविभूपालभिषजा भिषजां मता ।
कृता मथनसिंहेन रसनक्षत्रमालिका ॥ 142.
c66.6
इति रसनक्षत्रमालिका समाप्ता ॥ स्वस्ति
संवत् १५५७ आश्विन कृष्णा ५ सोमे ।
Linked texts (2)
- Rasaratnasamuccaya — Vāgbhaṭa (alchemist), Sanskrit
- Rasendracintāmaṇi — Ḍhuṇḍhukanātha, Sanskrit