Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c67.s1: नित्यनाथविरचितात् रसरत्नाकरात् उद्धृताः श्लोकाः ।

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c67.s1

Language
English

नित्यनाथविरचितात् रसरत्नाकरात् उद्धृताः श्लोकाः ।

c67.s1.1

यदुक्तं शम्भुना पूर्व्वं रसखण्डे रसार्णवे ।
रसस्य वन्दनार्थं च दीपिकासमङ्गरते ॥
व्याधितानां हितार्थाय प्रोक्तं नागार्ज्जुनेन यत् ।
उक्तं चर्पटिसिद्धेन¹ खर्गवैद्यकपालिके ।
अनेकरसशास्त्रेषु संहितास्वागमेषु च ।
यदुक्तं वाभटे तन्त्रे सुश्रुते वैद्यसागरे ॥
अन्यैश्च बहुभिः सिद्धैः यदुक्तञ्च विलोक्य तत् ।
तत्र यद्यदसाध्यं स्याद्यद्यद्दुल्लभमौषधम् ॥
तत्तत् सर्व्वं परित्यज्य सारभूतं समुद्धतम् ॥
क्वचिच्छास्त्रे क्रिया नास्ति क्रमश्चापि न च क्वचित् ।

c67.s1.2

¹ धूर्जटिसिद्धेन is the reading in the Sanskrit college MS.

c67.s1.3

मात्राव्यक्तिः क्वचिन्नास्ति सम्प्रदायो न च क्वचित्।
तेन सिद्धिर्न तत्रास्ति रसे वाथ रसायने ॥
वैद्ये वादे प्रयोगे च तस्माद्यत्नो मया कृतः॥
यद्यद्गुरुमुखाज्ज्ञातं स्वानुभूतञ्च यन्मया।
तत्तल्लोकहितार्थाय प्रकटीक्रियतेऽधुना ॥

c67.s1.4

प्रथमोपदेशे।

c67.s1.5

इति श्रीपार्व्वतीनित्यनाथसिद्धविरचिते रसरत्नाकरे
रसखण्डे रसपीठिका नाम प्रथमोपदेशः।

c67.s1.6

परीक्षा मारिते सूते कर्त्तव्या च यथोदिता।
अधस्तुषाग्निना तप्तो ह्यधौग्निस्तिष्ठते यदा।
तदा भस्म विजानीयाच्चुल्लकां यामं निरीक्षयेत् ॥

c67.s1.7

तृतीयोपदेशे।

c67.s1.8

दन्ते शृङ्गेऽथवा वंशे रक्षयेत् साधितं रसम् ॥

c67.s1.9

चतुर्थोपदेशे।

c67.s1.10

अथातः शुद्धसूतस्य मूर्च्छनाविधिरुच्यते।
मेघनादावचाछिङ्गुशूरणैर्मर्द्दयेद्रसम् ॥
नष्टपिष्टन्तु तद्गोलं हिङ्गुना वेष्टयेद्बहिः।
पचेल्लवणयन्त्रस्थं दिनैकं चण्डवह्निना ॥
उर्द्धलग्नं समादाय दृढं वस्त्रेण बन्धयेत्।
ऊर्द्धाधो गन्धकं तुल्यं दत्त्वा सोमानले पचेत् ॥
जीर्णे गन्धे पुनर्द्देयं षड्भिर्व्वारैः समं समम्।
षड्गुणे गन्धके जीर्णे मूर्च्छितो रोगहा भवेत्॥

c67.s1.11

चतुर्थोपदेशे।

Linked texts (3)