Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c68.s1: धातुरत्नमालायाः

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c68.s1

Language
English

धातुरत्नमालायाः

c68.s1.1

प्रारम्भः—

c68.s1.2

प्रणम्य विततां शक्तिं त्रिसृष्ट्युत्पत्तिकारिणीं ।

c68.s1.3

धातूनां रत्नमालायामभिधाय करोम्यहं ॥ 1. ब्रह्मविष्णुहराद्यान् ये मर्त्ता ध्यायन्ति नित्यशः । ज्ञानदानप्रदानाय सा मे विश्वेश्वरी मता ॥ 2.

c68.s1.4

अथ धातूनां रत्नमालां वक्ष्यामि ।

c68.s1.5

रौप्यं हेमं तथा ताम्रं नागं वंगं तथाऽयसं । खर्पराभ्रकमौक्तं च प्रवालं तालकं शिला ॥ 3. सुवर्णमाक्षिकं सूतं हीरकं च ब्रवीम्यहं । सर्व्वधातूपधातूनां लक्षणं मारणं गुणं ॥ 4.

c68.s1.6

अथ रौप्यमारणं ।

c68.s1.7

रौप्यं शुद्धं समादाय नागेन गुरु शोधयेत् ।

c68.s1.8

शुद्धे तारे पुनः पश्चात् सूक्ष्मपत्राणि कारयेत् ॥ 5. निंबचिंचिणिकाचाभिः शोधयेच्च पृथक् पृथक् । क्षालयेदुदकैः सार्द्धं तथा दुग्धेन शोधयेत् ॥ 6 गंधपारदयोरैक्यं किंचिद्वंगं च घर्षयेत् । द्राक्षाया द्रवसंयुक्तं तारपत्राणि शोधयेत् ॥ 7. चक्रयन्त्रे विनिक्षिप्य लेपयेद्वस्त्रमृत्तिकां । क्षिपेद्गजपुटे गर्त्ते ज्वालयेद्वहुछाणकान् ॥ 8.

c68.s1.9

समाप्तिः—

c68.s1.10

ग्रंथो वैद्यकनामायं रससिद्धांतसागरात् ।

c68.s1.11

धातूनां रत्नमाला च ततो वैद्यस्य हेतवे ॥ 176

c68.s1.12

मरणेभ्यो भयत्रस्ता रोगग्रस्ताश्च ये नराः ।
रत्नमाला कृता तेषां वैद्यानां च हिताय वै ॥ 177
इति श्रीवैद्यकशास्त्रे अश्विनोकुमारसंहितायां
धातुरत्नमालायां समाप्तोऽयं ग्रंथः ॥

c68.s1.13

The following is taken from Aufrecht's "Catalogus" —No. 760.

c68.s1.14

Incipit:—प्रणम्य सारदां शक्तिं सृष्टे रुत्यत्तिकारकां । धातूनां रत्नमालां च विबोधाय करोम्यहं ॥ 1 ब्रह्माविष्णुदृगन् ध्यायेद्भक्त्या ध्यायति नित्यशः । तेषां वरप्रदानाच्च सा मयैवमुटोच्यते ॥ 2 रूप्यं हेम तथा ताम्रं नागं वंगं तथायसं । खर्परं गगनं प्रोक्तं प्रवालं तालकं शिला ॥ 3 माक्षिकं गंधकं मृतं क्षोरकं च ब्रवीम्यहं । सर्वधातूपधातूना लक्षणं मारणं गणान् ॥ 4 रूप्यं शुद्धं मयानीय नागमूषा तु शोधयेत् । शुद्धे तारे पुनः पश्चात् सूक्ष्मपत्राणि कारयेत् ॥ 5 निंबुर्विचिंच्छोगोद्राक्षाभिः शोधनीयं पृथक् पृथक् । क्षालयेदुदकैः सार्द्धं तथा दुग्धेन शोधयेत् ॥ 6 गंधकं पारदं रूप्यं किंचिद्वंगं च घर्षयेत् । द्राक्षारसेन संयुक्तं तारपत्राणि लेपयेत् ॥ 7 नक्तं यन्त्रे विनिक्षिप्य लेपयेद्वस्त्रमृत्तिकां । क्षेप्यं गजपुटे गत्तं ज्वालयेच्च श्नोपलैः ॥ 8.

c68.s1.15

*In fine libelli disticha haec leguntur.*
ग्रंथो वैद्य[क] नामायं Rasasiddhántaságarát ।
धातूनां रत्नमाला च कृता वैद्यसुहेतवे ॥ 1
मरणेभ्यो भयत्रस्ता रोगग्रस्ताश्च ये नराः ।
रत्नमाला हि धातूना कृता तेषा हिताय वै ॥ 2.
Játyá Gurjarakhandas cha, Devadatto hi dharmavit ।
Harer námabhidhanasya सुतस्तस्य भिषग्वरः ॥ 3.
सन्चितारंसकर्माणि यस्य बुद्धिर्रौयसौ ।
तेन शास्त्रविधिद्धेनेन कृता रत्नस्य मल्लिका ॥ 4.
इति देवदत्तकृतवैद्यकशास्त्रे धातुरत्नमाला ॥