History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c69: Rasapradipa
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c69
- Language
- English
Contents
- c69.s1 चन्द्रोदयाख्यसवर्णे- — 7 parts
- c69.s2 अथ उपायान्तरम्- — 2 parts
Rasapradipa
c69.1
रसप्रदीपादुद्धृताः श्लोकाः ।
c69.2
A—MS. from Allahabad. B—MS. from Benares.
c69.3
अथ शङ्खद्रावरसः ।
स्फटिका¹ नवसारश्च सुश्वेता² च सुवर्चिका ।
पृथक् दशपलोन्मानं गन्धकः पिचुसंमितः³ ॥
चूर्णयित्वा चिपिटाण्डे मृन्मये मृद्विलेपिते⁴ ।
तन्मुखं मुद्रयेत् सम्यक् मृद्भाण्डेनापरेण च ॥
सरन्ध्रोदरकेणैव चुल्ल्यां तिर्य्यक् च धारयेत् ।
अधः प्रज्वालयेदग्निं हठाद्यावद्रसः स्रवेत् ॥
शाणैकं सेवयेद्यत्नात् दन्तस्पर्शविवर्जितम् ।
गुल्मोदरयकृत्प्लीहग्रन्थिग्रन्थादिशूलनुत् ॥
बलपुष्टिप्रदो ह्येष भुक्तं च जारयेत् क्षणात् ।
विलोक्यतां महालोका रसमाहात्म्यमद्भुतम् ।
कपर्दकाश्च लोहानां यस्मिन् क्षिप्ता⁶ गलन्ति हि ॥
c69.4
¹ A reads स्फाटिका, B reads स्फुटिका ।
c69.5
² B reads सुखेता, which is not correct.
c69.6
³ B reads पिचुनियुत, which is not correct.
c69.7
⁴ मृत्ति[^5] लेपिते is the reading in B
c69.8
⁵ B reads यन्तु ।
c69.9
⁶ A reads क्षिप्ता ।
c69.10
फिरङ्गव्याधि :—
c69.11
गैरिकां रसकर्पूरम् उपला च पृथक् पृथक् ।
टङ्क
चन्द्रोदयाख्यसवर्णे-
c69.s1.1
काशे श्वासे फिरङ्गाख्ये रोगे च परमो हितः ।
c69.s1.2
अथ उपायान्तरम्-
c69.s1.3
सुशल्या¹ कुलकाञ्चैव² पारसीकयमानिका ।
भल्लातकफलं चापि पलमानं पृथक् पृथक् ॥
पलार्धमानः सूतः स्यात् षट्पलोऽत्र गुड़ः स्मृतः ।
एकीकृत्याखिलं कुर्य्यात् वटीः कर्षप्रमाणतः ॥
खादेदेकां वटीं प्रातर्यावदारोग्यदर्शनम् ।
गोदग्धस्यानुपानेन फिरङ्गामयनाशिनी³ ॥
निम्बुकेन⁴ विना नैव वर्जनीयमिहापरम् ॥
c69.s1.4
¹ B reads सुशङ्खा ।
c69.s1.5
² B reads कलकं चैव ।
c69.s1.6
³ B reads फिरङ्गपविनाशिनी ।
c69.s1.7
⁴ B reads निंबुकेन ।
अथ उपायान्तरम्-
c69.s2.1
चोपचीनीभवं चूर्णं शाणमानं समाक्षिकम् ॥
फिरङ्गव्याधिनाशाय भक्षयेल्लवणं त्यजेत् ॥
c69.s2.2
तं द्रोणपुष्पोपयसा प्रपिष्टं
कृत्वा विदध्यान्नवसादरं च ।
कर्षप्रमानं प्रहरत्रयं च
वह्निं मृदद्यादथ शोतलागीम् ॥ ६४ ॥
निष्कास्य कूपी सिकताख्ययंत्रा-
ढास्योत्थ कंठस्थममुं प्रगृह्यात् ।
कर्पूरनामा रसनायकोऽयं
वल्रं पुराणेण गुडेन युक्तः ॥ ६५ ॥
निर्वातभाजा सुरुजा च पथ्य-
शीलेन कुष्ठामयनाशनः स्यात् ॥
फिरङ्गक रिकेशरी सकलकुष्ठकालानलो-
ऽखिलव्रणविनाशनोद्व्रणजगत्संपूर्तिप्रदः ।
सुवर्णसमवर्णकृद्दहहुताशनेज्वस्कर
समस्तगदत्तस्करो रसपतिः स कर्पूरकः ॥ ६६ ॥
इति कर्पूररसः बौद्यसब्बंस्वात् ।
Linked texts (1)
- Rasapradīpa (Śaṅkara Bhaṭṭa) — Śaṅkara Bhaṭṭa, Sanskrit