<!-- Pramāṇa, a library of Indian primary sources · https://indike.org/pramana/ins.science.tripathi-2021.c5.s19.33 -->

[Pramāṇa](https://indike.org/pramana/) › [Studies](https://indike.org/pramana/ins) › [Science, technology and education](https://indike.org/pramana/ins.science) › [Vada in Theory and Practice: Studies in Debates, Dialogues and Discussions in Indian Intellectual Discourses](https://indike.org/pramana/ins.science.tripathi-2021) › c5.s19.33

# Vada in Theory and Practice: Studies in Debates, Dialogues and Discussions in Indian Intellectual Discourses c5.s19.33

Vāda in Theory and Practice: Studies in Debates, Dialogues and Discussions in Indian Intellectual Discourses c5.s19.33

- **Language:** English

### [c5.s19.33](https://indike.org/pramana/ins.science.tripathi-2021.c5.s19.33)

²⁷ राजा कविः कविसमाजं विदधीत। राजनि कवौ सर्वो लोकः कविः स्यात्। स काव्यपरीक्षायै सभां कारयेत्। सा षोडशभिः स्तम्भैश्चतुर्भिर्द्वारैरष्टभिर्मत्तवारणीभिरुपेता स्यात् तदनुलग्नं राज्ञः केलिगृहम् मध्येसभां चतुःस्तम्भान्तरा हस्तमात्रोत्सेधा समणिभूमिकामेदिका। तस्यां राजासनम्। तस्य चोत्तरतः संस्कृताः कवयो निवशेरन्। बहुभाषाकवित्वे यो यत्राधिकं प्रवीणः स तेन व्यपदिश्यते। यस्त्वनेकत्र प्रवीणः, स सङ्क्रम्य तत्र तत्रोपविशेत्। ततः परं वेदविद्याविदः प्रामाणिकाः पौराणिकाः स्मार्ता भिषजो मौहूर्तिका अन्येऽपि तथाविधाः। पूर्वेण प्राकृताः कवयः। ततः परं नटनर्तकगायनवादकवाग्जीवनकुशीलवतालपचरा अन्येऽपि तथाविधाः। पश्चिमेनापभ्रंशिनः कवयः, ततः परं चित्रलेप्यकृतो माणिक्यबन्धका वैकटिकाः स्वर्णकारवर्धकिलौहकारा अन्येऽपि तथाविधाः। दक्षिणतो भूतभाषाकवयः, ततः परं भुजङ्गगणिकाः प्लवकशौभिकजम्भकमल्लाः शस्त्रोपजीविनो अन्येऽपि तथाविधाः। तत्र यथासुखमासीनः काव्यगोष्ठीं प्रवर्तयेत् भावयेत् परीक्षेत च। वासुदेवसातवाहनशूद्रक-साहसाङ्कादीन् सकलान् सभापतीन् दानमानाभ्यामनुकुर्यात् । तुष्टपुष्टाश्चास्य सभ्या भवेयुः स्थाने पारितोषिकं लभेरन् । लोकोत्तरस्य काव्यस्य च यथार्हा पूजा कवेर्वा। अन्तरान्तरा च काव्यगोष्ठीं शास्त्रवादाननुजानीयात्। मध्वपि नानवदंशं स्वदते। काव्यशास्त्रविरतौ विज्ञानिष्वभिरमेत। देशान्तरागतानां च विदुषामन्यद्वारा सङ्गं कारयेदौचित्याद्यवस्थितिपूर्जा च। वृत्तिकामांश्चोपजपेत् सङ्गृह्लीयाच्च। पुरुषरत्नानामेक एव ह्यासावुपकारो यद्राजोपजीविनां संस्कारः। महानगरेषु काव्यशास्त्रपरीक्षार्थं ब्रह्मसभाः कारयेत्। तत्र परीक्षोत्तीर्णानां ब्रह्मरथयानं पट्ट-बन्धाश्च। श्रूयते चोज्जयिन्यां काव्यकारपरीक्षा — इह कालिदासमेण्ठावत्रमरूपसूरभारवयः। हरिश्चन्द्रचन्द्रगुप्तौ परीक्षिताविह विशालायाम् ।। श्रूयते च पाटलिपुत्रे शास्त्रकारपरीक्षा — अत्रोपवर्षविहपाणिनिपिङ्गलाविह व्याडिः।

- [Previous: c5.s19.32](https://indike.org/pramana/ins.science.tripathi-2021.c5.s19.32)
- [Next: c5.s19.34](https://indike.org/pramana/ins.science.tripathi-2021.c5.s19.34)
- [Up: c5.s19](https://indike.org/pramana/ins.science.tripathi-2021.c5.s19)

## Cites (1)

- [Kāvyamīmāṃsā](https://indike.org/pramana/in.art.alamkara.kavisiksa.kavyamimamsa) — Rājaśekhara, Sanskrit

---
Source: [https://indike.org/pramana/ins.science.tripathi-2021.c5.s19.33](https://indike.org/pramana/ins.science.tripathi-2021.c5.s19.33) · Pramāṇa
