Tattvatraya p131
Tattvatraya p131
- Language
- Tamil
p131
शरीरभूततया पृथक्स्थित्याद्यनर्हं विशेषणयुक्तं चिदचिद्रूपविशेषणमुच्यते । अथ वा, विशिष्टविशेषणमित्यस्य शरीरभूतं सत् सर्वदा विशेषणत्वेन सङ्गतं विशेषणमित्यर्थः । तदापि पृथक्स्थित्याद्यर्हेभ्यो दण्डकुण्डलादिभ्यो व्यावृत्तिः सिध्यति विशेषणेन सद्धारक इति । एवमपृथक्सिद्धविशेषणेन हेतुना द्वारसहितोऽस्य परिणामोऽस्तीत्यर्थः । अनेनापृथक् (१) सिद्धचिदचिद्रूपविशेषणद्वाराऽस्य परिणामोऽस्तीत्युक्तम् । नन्वेवं स्वरूपस्य विकाराभावे स्वशरीरभूतविशेषणद्वारा सर्वस्य कार्यजातस्या(२)यमुपादानं कथं भवतीत्यत आह-कस्यचित्कीटस्येत्यादि । अल्पशक्तिकस्य कीटस्य स्वरूपविकाराभावेऽपि स्वशरीरभूतविशेषणमुखेन तन्तुजालरूपकार्यं प्रति स्वयमुपादानत्वरूपः स्वभावः, “परास्य शक्तिर्विविधैव श्रूयते” इत्यधीयमानसर्वशक्ते(३)र्नोपपद्यत इति न युक्तम् । “यथोर्णनाभिः सृजते गृह्णते च,” “ऊर्णनाभिर्यथा सृष्ट्वा स्वयं तद्ग्रसते पुनः । तथा सृष्ट्वेदमखिलं स्वयं तद्ग्रसते हरिः”॥ इत्यादि । “कार्येऽनन्ते स्वतनुमुखतस्त्वामुपादानमाहुः सा ते शक्तिः सुकरमितरच्चेति वेलां विलङ्घ्य । इच्छा यावद्विहरति सदा रङ्गराजानपेक्षा सैवेशाना ह्यतिशयकरी सोर्णनाभौ विभाव्या” ॥ इति भट्टार्या आहुः । एवं निमित्तोपादानकारणत्वे उक्त्वा सहकारिकारणत्वस्यानभिधानं सर्वज्ञत्वादिशुणयोगस्य प्रागभिहितत्वात् निमित्तोपादानयोरैक्याभिधानाच्च स्वत एव सिध्यतीत्यभिप्रायेण । अत एव वेदान्तसूत्रेष्वस्य विशिष्टानभिधानम् । एवमीश्वर एव त्रिविधकारणमिति साधितवान् अथ “अजामेकाम्, गौरनाद्यन्तवती, त्रिगुणन्तज्जगद्योनिरनादिप्रभवाप्ययम्, अजो ह्येकः, ज्ञाज्ञौ द्वावजावीशानीशौ, अजो नित्यः शाश्वतोऽयं पुराण” इत्यादिश्रुतिस्मृत्यादिषूक्तप्रकारेण नित्ययोश्चिद्चितोरीश्वरेण क्रियमाणा सृष्टिः कीदृशीत्याकाङ्क्षायामाह-