Tattvatraya p151
Tattvatraya p151
- Language
- Tamil
p151
"मनूनां सर्गमकरोन्मुखबाहूरुपादतः । चतुर्णां ब्राह्मणादीनां सर्गद्वारं जगत्पतिः ॥ द्विजयुग्मं क्षत्रयुग्मं वैश्ययुग्मं तथैव च । मिथुनं च चतुर्थस्य एतन्मनुचतुष्टयम् ॥ मनुभ्यो मानवशतं स्त्रीपुंमिथुनतो भवेत् । एकैकं वर्णभेदेन तेभ्यो मानवमानवाः ॥ सहस्रा सम्बभूवुश्च स्त्रीपुंमिथुनतस्तथा । मनुष्याश्च ततस्तेभ्यो बभूवुर्वीतमत्सराः ॥ एते हि शुद्धसत्त्वस्था देहान्तं नान्ययाजिनः(१) । निराशाः कर्मकरणान्मामेव प्राप्नुवन्ति ते ॥ त्रय्यन्तेषु च निष्णाता द्वादशार्द्धात्मचिन्तकाः । व्यूहानुवृत्तिं सततं कुर्वते ते जगत्पतेः ॥ तृतीयेन जगद्धात्रा निर्मिता मनसा स्वयम् । गुणप्रधानयोगे च निष्ठिताः पुरुषर्षभाः ॥ इत्येष शुद्धवर्गीयं गणेश तव कीर्तितः ।