Pramāṇa · Search · About · API

Tattvatraya p153

Tattvatraya p153

Language
Tamil

p153

आरमता(१)मीश्वरं बिना देवादानेवाराध्यतयाऽध्यवस्यतां तत्र केषांचित्तमःप्रचुराणां भगवन्निन्दां कुर्वतामाऽऽराध्यं नियन्तारं तमऽजानतां व्यग्राणां वेदवादे मनो निवेश्य परस्परन्तमेव संलपतामऽत एव भगज्ज्ञानशक्त्योरन्वयशून्यानां स्वर्गादिष्वा ऽऽरमताकर्मफलावसाने ऽधः पततां कामविषयमनस्कानां जरामरणभाजां संसारमार्गगामिनां सृष्टिरूपां मिश्रवर्गसृष्टिं च करोतीत्यर्थः, 'अण्डमण्डकारणानि च स्वयमुत्पादयति, अण्डान्तर्गतवस्तूनि चेतनान्तर्यामी सन्नुत्पादयतीति समष्टिः सर्वाप्यद्वारिका, व्यष्टिसृष्टिः सर्वा सद्वारिकेति प्राक् स्वयमुक्तत्वात्, अस्मिन्नण्डे बद्धात्मसमष्टिभूतो ब्रह्मा जायते, ततः पूर्वं स्वसंकल्पेन भगवान्स्वयमेव सृजति, अतः परं ब्रह्मणोऽन्तर्यामी सन्सृजतीति श्रीकृष्णपादोक्तेश्च व्यष्टिसृष्टिः सर्वापि सद्वारिकैवाङ्गीकार्या, अतः प्रद्युम्नकृत्यत्वेनाभिहिता शुद्धवर्गसृष्टिरद्वारिका, अनिरुद्धकृत्यत्वेनाभिहिता मिश्रसर्गसृष्टिः सद्वारिकेत्यभिधानमयुक्तम्, तस्माच्छुद्धवर्गसृष्टिर्मिश्रवर्गसृष्टिश्च सद्धारकसृष्टौ चेतनानां कर्मविशेषप्रयुक्तसङ्कल्पविशेषेण भवेत्, एतच्छुद्धवर्गसृष्टेर्मिश्रवर्गसृष्टेश्च भगवतः श्रवणानन्तरम् भगवन्देवदेवेश सर्वज्ञ परमेश्वर । किमेष भवता सृष्टो मिश्रसर्गो जगत्पते ॥ शुद्धसृष्टिं विहायैषां निर्दयं(२) पुरुषोत्तम” । इति विष्वक्सेनेन पृष्टः(३)— ‘विहाय शुद्धसर्गे च मिश्रसर्गस्य कारणम् । शृणुष्व गणनाय त्वं दयालुनिर्द्यो न च ॥ सर्वज्ञोऽहं न सन्देहस्तथापि च सृजाम्यहम् । अनाद्यविद्यासंसृष्टशेमुषीकानरानहम् ॥ तान् वीक्ष्य(४)ज्ञानसङ्गं तु निषिद्धकरणं तथा । विहिताकरणं चापि वीक्ष्यैषामपराधकान्(५) ॥ मिश्रसर्गं करोम्येवं ब्रह्मणा परमेष्ठिना । एवं सुकृतलेशेन शुद्धसर्गं करोमि च ॥ मनुप्रमुखसर्गोऽयं शुद्धसर्गो मयेरितः । शुद्धसत्त्वमयाः सर्वे मद्भक्तिनिरताः सदा ॥