Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v2.c15.69
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v2.c15.69
- Language
- English
v2.c15.69
त्रिभागं कारयेत् क्षेत्रं यत्र तिष्ठन्ति देवताः ॥ २१ ॥ स्थाङ्कस्तेन मानेन बाह्यभागविनिर्गतः । नेमिपादेन विस्तीर्णो प्रासादस्य समन्ततः ॥ २२ ॥ गर्भतु द्विगुणं कुर्यात्तस्य मानं भवेदिह । स एव भित्तेरुत्सेधो द्विगुणः शिखरो मतः ॥ २३ ॥ प्राग्ग्रीवः पञ्चभागेन निष्क्राषस्तस्य चोच्यते । कारयेत् सुषिरं तद्वत्प्राकारस्य विभागतः ॥ २४ ॥ प्राग्ग्रीवं पञ्चभागेन निष्कापेण विशेषतः । कुर्याद्वा पञ्चभागेन प्राग्ग्रीवं कर्णमूलतः ॥ २५ ॥ स्थापयेत् कर्णकं तत्र गर्भान्ते द्वारमूलतः । एवं तु त्रिविधं कुर्याज्ज्येष्ठमध्यकनीयसम् ॥ २६ ॥ लिङ्गमानानुभेदेन रूपभेदेन वा पुनः । एते समासतः प्रोक्ता नामतः शृणुताधुना ॥ २७ ॥ तथा मेर्वादयः सप्त ज्येष्ठलिङ्गे शुभावहाः । श्रीवृक्षकादयश्चाष्टा मध्यमस्य प्रकीर्तिताः ॥ ५३ ॥ तथा हंसादयः पञ्च कण्यसे शुभदा मताः ॥ ५४ ॥