Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s23: पञ्चतलविधानम्
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s23
- Language
- English
पञ्चतलविधानम्
v3.c24.s23.1
पञ्चभूमिविधानस्य(नं च) लक्षणं वक्ष्यतेऽधुना ।
क्षुद्र(द्रं) मध्यं च मुख्यं च विशालं भागमुक्तत्रयम् ॥ १ ॥
प्रागुक्तवत्प्रगृह्यं(ह्य) तु कुर्यात्पञ्चतलं बुधः ।
चतुर्विंशांशकं तुङ्गे साल(चाध्य)र्धांशमसुरके(कम्) ॥ २ ॥
बन्धां(न्ध्यं)शं पादतुङ्गं स्यादत्य(ध्य)र्धं प्रस्तरोदयम् ।
सपादाद्वि(द्द्व्यं)शकं पादं मञ्चोर्ध्वं शशिवांशकम् ॥ ३ ॥
तदूर्ध्वेऽङ्घ्रि द्विभागं स्यात्तत्प्ररोचं शिवांशकम् ।
सत्रिपादांशकं पादं प्रस्तरोचं शिवांशकम् ॥ ४ ॥
तदर्धं वेदिकोत्तुङ्गं चन्द्रांशं च गलोदयम् ।
मस्तकं चा(ह्या)र्धभागं स्याच्छेषं तु तच्छिरो(खो)दयम् ॥ ५ ॥
कर्णहर्म्यादिसंयुक्तं सर्वालङ्कारसंयुतम् ।
ऐरावतमिति प्रोक्तं गन्ध(न्त)स्कन्धोचसंवृतम्(तं च) ॥ ६ ॥
तदेव विस्मृतार्धेन चतुर्दिक्षु समन्वितम् ।
निर्गमं तु यथायुक्तं चतुर्विंत्तु(दिक्तृ)तलं भवेत् ॥ ७ ॥
एतत्तु भूतकान्तं स्यात्पञ्चभौमविदो विदुः ।
विशालेन त्रिपादेन पूर्ववद्भद्रसंयुक्तम् ॥ ८ ॥
चतुर्दिक्षु तलं कुर्यात्कर्णहर्म्यादिमण्डितम् ।
विश्वकान्तमिति प्रोक्तमेवं पञ्चतलं विदुः ॥ ६ ॥
अथवा विस्तृतं तुल्यं चतुर्दिक्त्वालंयं स्मृतम् ।
तस्मात्त्रिभूलहर्म्यान्तं तद्द्द्दयोर्मूलदेशके ॥ १० ॥
अन्तरालं प्रकुर्वीत पार्श्वे सोपानसंयुतम् ।
सर्वं प्रदक्षिणं कुर्याद्युक्त्या द्वारं प्रकल्पयेत् ॥ ११ ॥
v3.c24.s23.2
मध्ये पञ्चचतुस्सद्द्वितलं पञ्चतलं भवेत् ।
मूर्तिकान्तमिति प्रोक्तं पूर्ववत्परिकल्पयेत् ॥ १२ ॥
तदेव हर्म्ये विदिक्स्वेच(क्ष्वेव च) वृत्तन्मौलालयं भवेत् ।
गृहकान्तमिति प्रोक्तं पूर्ववत्परिकल्पयेत् ॥ १३ ॥
तद्बहिः परितो देशे कुर्यात्षोडशालयम् ।
गृहकान्तादिहर्म्येषु चतुर्दिक्षु समालयम् ॥ १४ ॥
पञ्चविशत्युपपीठं प्रोक्तं यमकान्तमेव प्रकथ्यते ।
तदेवं परितो बाह्ये चतुर्विंशतिरालयम् ॥ १५ ॥
गृहकान्तादिहर्म्येषु चतुर्दिक्षु समालयम् ।
महाकान्तमिति प्रोक्तमेतत्पञ्चतलं भवेत् ॥ १६ ॥
गृहकान्तादिहर्म्येषु चतुर्दिक्षु समालयम् ।
कुर्यात्सकल्याथमेतदिदं पञ्चतलान्वितम् ॥ १७ ॥
प्रासादार्धं समं वापि त्रिपादं वा समं तु वा ।
अन्तरालं विशालं स्यादथवा हस्तमानतः ॥ १८ ॥
त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् ।
नवपङ्क्तिकरान्त(न्तं) स्यादन्तरालविशालकम् ॥ १६ ॥
अन्तराले युक्ता मण्डपाकार(रं) विन्यसेत् ।
अथवा त्रिकूटयुक्तं वा मूलस्य मुखपार्श्वयोः ॥ २० ॥
यज्ञकान्तमिति प्रोक्तमेकानेकतलान्वितम् ।
पञ्चषट्सप्तैकभूमि(भिः) स्याद्द्वितलं त्रितलं तु वा ॥ २१ ॥
पञ्चमद्बामि(इ)ति प्रोक्तं सर्वालङ्कारसंयुतम् ।
एतदष्टविधं प्रोक्तं शेषं प्रागुक्तवन्नयेत् ॥ २२ ॥
शिखरादि यथाकारं चैकाकारं तु योजयेत् ।
सर्वेषां देवतानां च हर्म्यमेवं प्रकल्पयेत् ॥ २३ ॥
एतत्सर्वं हर्म्यकं दिक्षु कूटम्
शालानासिकापञ्जराढ्यम् ।
नानारङ्गान्वितालिन्दयुक्तम्
पूर्वोक्तानां युक्तितः कारयेत्तत् ॥ २४ ॥
v3.c24.s23.3
इति मानमारे वास्तुशास्त्रे पञ्चतलविधानं नाम त्रयोविंशोऽध्यायः ॥
Linked texts (1)
- Mānasāra — Sanskrit