Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s23.2

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s23.2

Language
English

v3.c24.s23.2

मध्ये पञ्चचतुस्सद्द्वितलं पञ्चतलं भवेत् ।
मूर्तिकान्तमिति प्रोक्तं पूर्ववत्परिकल्पयेत् ॥ १२ ॥
तदेव हर्म्ये विदिक्स्वेच(क्ष्वेव च) वृत्तन्मौलालयं भवेत् ।
गृहकान्तमिति प्रोक्तं पूर्ववत्परिकल्पयेत् ॥ १३ ॥
तद्बहिः परितो देशे कुर्यात्षोडशालयम् ।
गृहकान्तादिहर्म्येषु चतुर्दिक्षु समालयम् ॥ १४ ॥
पञ्चविशत्युपपीठं प्रोक्तं यमकान्तमेव प्रकथ्यते ।
तदेवं परितो बाह्ये चतुर्विंशतिरालयम् ॥ १५ ॥
गृहकान्तादिहर्म्येषु चतुर्दिक्षु समालयम् ।
महाकान्तमिति प्रोक्तमेतत्पञ्चतलं भवेत् ॥ १६ ॥
गृहकान्तादिहर्म्येषु चतुर्दिक्षु समालयम् ।
कुर्यात्सकल्याथमेतदिदं पञ्चतलान्वितम् ॥ १७ ॥
प्रासादार्धं समं वापि त्रिपादं वा समं तु वा ।
अन्तरालं विशालं स्यादथवा हस्तमानतः ॥ १८ ॥
त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् ।
नवपङ्क्तिकरान्त(न्तं) स्यादन्तरालविशालकम् ॥ १६ ॥
अन्तराले युक्ता मण्डपाकार(रं) विन्यसेत् ।
अथवा त्रिकूटयुक्तं वा मूलस्य मुखपार्श्वयोः ॥ २० ॥
यज्ञकान्तमिति प्रोक्तमेकानेकतलान्वितम् ।
पञ्चषट्सप्तैकभूमि(भिः) स्याद्द्वितलं त्रितलं तु वा ॥ २१ ॥
पञ्चमद्बामि(इ)ति प्रोक्तं सर्वालङ्कारसंयुतम् ।
एतदष्टविधं प्रोक्तं शेषं प्रागुक्तवन्नयेत् ॥ २२ ॥
शिखरादि यथाकारं चैकाकारं तु योजयेत् ।
सर्वेषां देवतानां च हर्म्यमेवं प्रकल्पयेत् ॥ २३ ॥
एतत्सर्वं हर्म्यकं दिक्षु कूटम्
शालानासिकापञ्जराढ्यम् ।
नानारङ्गान्वितालिन्दयुक्तम्
पूर्वोक्तानां युक्तितः कारयेत्तत् ॥ २४ ॥