Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s24: पट्टलविधानम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s24

Language
English

पट्टलविधानम्

v3.c24.s24.1

अधुना (विधानं) पट्टलं सम्यगलक्षणं वक्ष्यतेऽधुना ।
विस्तारं च वि(स्तोत्सेधं)भागं च पूर्ववत्परिकल्पयेत् ॥ १ ॥
सप्ताधिकं तु पञ्चाशद्भागं कुर्यात्तदुच्छ्रये ।
सार्धबन्धम(न्ध्वं)धिष्ठानं सप्तांशं पाददीर्घकम् ॥ २ ॥
तदर्धं प्रस्तरोत्सेधमूर्ध्वपादं षडंशकम् ।
तदूर्ध्वं मञ्च(ञ्चं) त्रियं(त्र्यां)शं स्यादूर्ध्वपादं शरांशकम् ॥ ३ ॥
तदर्धं प्रस्तरोत्सेधं सार्धवेदांशकाङ्घ्रिकम् ।
प्रस्तरं च द्विभागं स्यात्सार्धबन्धं(न्ध्वं)शमङ्घ्रिकम् ॥ ४ ॥
प्रस्तरं सार्धभागं स्याद्वेदिका(कामे)शेन योजयेत् ।
ग्रोवतुङ्ग(ङ्गं) युगांशं स्याच्छिखरं युगांशकम् ॥ ५ ॥
शेषं तु स्तूपिकोत्तुङ्गं युक्त्या तत्रैव योजयेत् ।
एतत्तु पद्मकान्तं स्यात्सर्वालङ्कारसंयुतम् ॥ ६ ॥
तदेवाधिष्ठानमंशेन तले तले विशेषतः ।
एतत्कान्तारमित्युक्तं कर्णहर्म्यादिमण्डितम् ॥ ७ ॥
अथ वापि च दिक्कुर्यात् सुन्दरं चेति कीर्तितम् ।
अथवा चोषपीठं स्यादुपकान्तमिति स्मृतम् ॥ ८ ॥
अथवा चोर्ध्वतले सर्वे(सर्वेस्मिन्) वेदिं कुर्यात्समञ्चकम् ।
कमलाख्य(ञ्च)मिति प्रोक्तमन्तरप्रस्तरन्वितम् ॥ ९ ॥
तृतीये मञ्चसंयुक्तं रत्नकान्तमिहोच्यते ।
चतुर्थे प्रस्तरैर्युक्तं विपुलाङ्कमिति स्मृतम् ॥ १० ॥
पञ्चमं मञ्चयुक्तं स्याज्ज्योति(तिष्)कान्तमिति स्मृतम् ।
तदेव भद्रसंयुक्तमेतत्प्रोक्तं सरोरुहम् ॥ ११ ॥

v3.c24.s24.2

तद्‌ग्रोवादि शिखान्तं च विपुलाकृतिकं भवेत् ।
तदेव शिखरो(रं व) स्वश्रं स्वस्तिकान्तमिति स्मृतम् ॥ १२ ॥
तदेव चतुरश्रं स्यान्नन्द्यावर्त्तमिहोच्यते ।
तदेव गल(लं) वस्वश्रमिच्छुकान्तमिति स्मृतम् ॥ १३ ॥
एवं त्रयोदशं नाम्ना प्रोक्तं षट्‌तलहर्म्यके ।
त्रिचतुष्पञ्चषट्सप्त(प्तं) मध्यकोष्ठं विशालकम् ॥ १४ ॥
एकद्वित्रिचतुष्पञ्चभागं हारं सपञ्जरम् ।
एकं वाथ द्विभागं वा कर्णकूटविशालकम् ॥ १५ ॥
तले तले कर्णकूटं कोष्ठहारादिभूषितम् ।
एकद्वित्रिविभागं च हारमध्ये तु भद्रकम् ॥ १६ ॥
एकद्वित्रिचतुष्पञ्च(ञ्चं) कोष्ठमध्ये तु भद्रकम् ।
कर्णकूटविशाले तु त्रिभागैकं मध्यभद्रकम् ॥ १७ ॥
भद्रशाला महानासी चार्धशालाद्यलङ्कृतम् ।
आदिभूमिकियायुक्त्या(क्त्या) चोर्ध्वाध्र्ध्वतला(लानि) न्यसेत् ॥ १८ ॥
वि(द्वि)तलात्षट्तलान्तं स्यादेवं युक्त्या समलङ्कृतम् ।
नानाधिष्ठानसंयुक्तं नानापादैरलंङ्कृतम् ॥ १९ ॥
नानापञ्जरशालानां(भिः) नासिकापञ्जरान्वितम् ।
प्रस्तरादिकपोतान्तं क्षुद्रनास्या विभूषितम् ॥ २० ॥
शिखरे च मध्यनास्यैः क्षुद्रकपोतनासिकाः ।
वि(सर्व)शनासिकायुक्तं सर्व्वा‌लङ्कारसंयुक्तम् ॥ २१ ॥
ग्रीवे च क्षुद्रपादानां युक्त्या च समलङ्कृतम् ।
कर्णहर्म्यादिसंयुक्तं यत्तलोपरिदेशके ॥ २२ ॥
एकभाग(गं) द्विभागं वा मूलव्याप्तालिन्दकम् ।
ऊर्ध्वाध्व्र्ध्वतलानां तु चैकभागेन(ना)लिन्दकम् ॥ २३ ॥
एतत्षट्‌तलं प्रोक्तं शेषं युक्त्या (कुर्यात्) च पूर्ववत् ।
पूर्वोक्तसकलानामपि देवानां तत्राखिलसाधकोत्कृष्टेषु ॥ २४ ॥
ब्रह्मा(ह्मा)विष्णुशिवा(व)नारदैः सह सङ्कुलैः कुरुते शिल्पिवित्तमः ॥ २५ ॥
इति मानमारे वास्तुशास्त्रे षट्‌तलविधानं नाम चतुर्विंशोऽध्यायः ॥

Linked texts (1)