Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s24.1

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s24.1

Language
English

v3.c24.s24.1

अधुना (विधानं) पट्टलं सम्यगलक्षणं वक्ष्यतेऽधुना ।
विस्तारं च वि(स्तोत्सेधं)भागं च पूर्ववत्परिकल्पयेत् ॥ १ ॥
सप्ताधिकं तु पञ्चाशद्भागं कुर्यात्तदुच्छ्रये ।
सार्धबन्धम(न्ध्वं)धिष्ठानं सप्तांशं पाददीर्घकम् ॥ २ ॥
तदर्धं प्रस्तरोत्सेधमूर्ध्वपादं षडंशकम् ।
तदूर्ध्वं मञ्च(ञ्चं) त्रियं(त्र्यां)शं स्यादूर्ध्वपादं शरांशकम् ॥ ३ ॥
तदर्धं प्रस्तरोत्सेधं सार्धवेदांशकाङ्घ्रिकम् ।
प्रस्तरं च द्विभागं स्यात्सार्धबन्धं(न्ध्वं)शमङ्घ्रिकम् ॥ ४ ॥
प्रस्तरं सार्धभागं स्याद्वेदिका(कामे)शेन योजयेत् ।
ग्रोवतुङ्ग(ङ्गं) युगांशं स्याच्छिखरं युगांशकम् ॥ ५ ॥
शेषं तु स्तूपिकोत्तुङ्गं युक्त्या तत्रैव योजयेत् ।
एतत्तु पद्मकान्तं स्यात्सर्वालङ्कारसंयुतम् ॥ ६ ॥
तदेवाधिष्ठानमंशेन तले तले विशेषतः ।
एतत्कान्तारमित्युक्तं कर्णहर्म्यादिमण्डितम् ॥ ७ ॥
अथ वापि च दिक्कुर्यात् सुन्दरं चेति कीर्तितम् ।
अथवा चोषपीठं स्यादुपकान्तमिति स्मृतम् ॥ ८ ॥
अथवा चोर्ध्वतले सर्वे(सर्वेस्मिन्) वेदिं कुर्यात्समञ्चकम् ।
कमलाख्य(ञ्च)मिति प्रोक्तमन्तरप्रस्तरन्वितम् ॥ ९ ॥
तृतीये मञ्चसंयुक्तं रत्नकान्तमिहोच्यते ।
चतुर्थे प्रस्तरैर्युक्तं विपुलाङ्कमिति स्मृतम् ॥ १० ॥
पञ्चमं मञ्चयुक्तं स्याज्ज्योति(तिष्)कान्तमिति स्मृतम् ।
तदेव भद्रसंयुक्तमेतत्प्रोक्तं सरोरुहम् ॥ ११ ॥