Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s27: नवतलविधानम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s27

Language
English

नवतलविधानम्

v3.c24.s27.1

नवभूमिविधानस्य(नं च) लक्षणं वक्ष्यतेऽधुना ।
विस्तारोत्सेधमाना(भागा)दिसर्वं प्रागुक्तवन्नयेत् ॥ १ ॥
सौरं च रौरवं चैव चण्डितं भूषणं तथा ।
विवृतं सुप्रतीकान्तं विश्वकान्तं यथाक्रमम् ॥ २ ॥
विस्तारो(रे) विंशदंशेन(षु) कूटमेकैकभागिकम् ।
मध्यशाला षडंशं स्यात्सप्तमं चान्तरालकम् ॥ ३ ॥
तन्मध्ये च वि(द्वि)भागेन क्षुद्रशालैर्विभूषितम् ।
तत्पार्श्वे द्वारसंयुक्तं द्विद्विभागेन कारयेत् ॥ ४ ॥
सौरकान्तमिति प्रोक्तं शेषं प्रागुक्तवन्नयेत् ।
महाशालैश्चतुर्भागं मध्ये भद्रं तु रौरवम् ॥ ५ ॥
तदेव भद्रशालैश्च वेदभागविशालकम् ।
द्विभागं भद्रसंयुक्तं चण्डितं परिकीर्तितम् ॥ ६ ॥
तदेव मध्यशाले तु द्वि(द्व्यं)शेन भद्रकोष्ठकम् ।
भूषणं च मेति(चेति) प्रोक्तं [तु] सर्वालङ्कारसंयुतम् ॥ ७ ॥
एतच्चतुर्विधं प्रोक्तं नवभूम्यल्पहर्म्यके ।
अथवा चाल्पहर्म्ये तु मध्यकोष्ठं गुणांशकम् ॥ ८ ॥
अथवा चतुरंशेन मध्यभद्रविशालकम् ।
अथवा पञ्चभागे स्यात्पूर्ववन्नाममी(ई)रितम् ॥ ९ ॥
चतुर्विंशति विस्तारं कूटानां पूर्ववद्भवेत् ।
महाशालानुशाला च सार्धांशकगुणांशकम् ॥ १० ॥
महाशालायते मध्ये वेदभागैर्(गेन) भद्रकम् ।
सर्वालङ्कारसंयुक्तं विवृतं चेति कथ्यते ॥ ११ ॥

v3.c24.s27.2

पञ्चविंशतिभागेन मध्यभद्रं शरांशकम् ।
तत्पार्श्वे कर्णकूटौ च नराक्षां चैकभागिकम् ॥ १२ ॥
अनुशाला त्रिभागैकं मध्यभद्रं तु संयुतम् ।
सुप्रतीकान्तनामाख्यं(म च) शेषं प्रागुक्तवन्नयेत् ॥ १३ ॥
षड्विंशतिविभागेन मध्यभं तु युगांशकम् ।
मध्यसं(म) हर्म्यके कुर्यात्सर्वालङ्कारसंयुतम् ॥ १४ ॥
श्रेष्ठं नवतलं हर्म्ये सप्तविंशतिभागिकम् ।
शालापार्श्वे द्विभागैकं हारकूटसपञ्जरम् ॥ १५ ॥
कूटशालैश्व सप्तांशं मध्यभद्रं शरांशकम् ।
भद्रकोष्ठं त्रिथं(त्रयां)शं स्याच्छेषं पूर्ववदाचरेत् ॥ १६ ॥
श्रेष्ठं नवतलं प्रोक्तं विश्वकान्तमुदीरितम् ।
तदूर्ध्वं द्वि(द्वां)शमानेन वक्त्रं चोर्ध्वं जलस्थलम् ॥ १७ ॥
जन्मादिस्तूपिपर्यन्तं गण्यमानमिहोच्यते ।
हर्म्यमष्टतले तुङ्गे साष्टभागाधिकं तथा ॥ १८ ॥
सार्धद्व्यंशमधिष्ठानं तदूर्ध्वं पादतुङ्गकम् ।
तदूर्ध्वे प्रस्तरोत्सेधं शेषमष्टतलोक्तवत् ॥ १९ ॥
एवं नवतलोत्सेधं सर्वालङ्कारसंयुतम् ।
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥ २० ॥
कर्णहर्म्यादिसंयुक्तं द्वारं तत्प्रस्तरान्वितम् ।
भद्रकूटादिशालानां (भिर्) नासिकापञ्जरान्वितम् ॥ २१ ॥
युक्त्या द्वारादि यथा सर्वे(र्वा) चानुकूलानुनासिका ।
तोरणाद्यङ्गनीडैश्च जालकादिविभूषितम् ॥ २२ ॥
शेषं तु पूर्ववत्कुर्याद्दिंक्षु देवान्न्यसेत्क्रमात् ।
तले तले विमाने तु चोक्तवत्कारयेद्बुधः ॥ २३ ॥
एवं नवतलं प्रोक्तं शेषं युक्त्या प्रयोजयेत् ॥ २४ ॥

v3.c24.s27.3

इति मानमारे वास्तुशास्त्रे नवतलविधानं नाम सप्तविंशोऽध्यायः ॥

Linked texts (1)