Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s27.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s27.1
- Language
- English
v3.c24.s27.1
नवभूमिविधानस्य(नं च) लक्षणं वक्ष्यतेऽधुना ।
विस्तारोत्सेधमाना(भागा)दिसर्वं प्रागुक्तवन्नयेत् ॥ १ ॥
सौरं च रौरवं चैव चण्डितं भूषणं तथा ।
विवृतं सुप्रतीकान्तं विश्वकान्तं यथाक्रमम् ॥ २ ॥
विस्तारो(रे) विंशदंशेन(षु) कूटमेकैकभागिकम् ।
मध्यशाला षडंशं स्यात्सप्तमं चान्तरालकम् ॥ ३ ॥
तन्मध्ये च वि(द्वि)भागेन क्षुद्रशालैर्विभूषितम् ।
तत्पार्श्वे द्वारसंयुक्तं द्विद्विभागेन कारयेत् ॥ ४ ॥
सौरकान्तमिति प्रोक्तं शेषं प्रागुक्तवन्नयेत् ।
महाशालैश्चतुर्भागं मध्ये भद्रं तु रौरवम् ॥ ५ ॥
तदेव भद्रशालैश्च वेदभागविशालकम् ।
द्विभागं भद्रसंयुक्तं चण्डितं परिकीर्तितम् ॥ ६ ॥
तदेव मध्यशाले तु द्वि(द्व्यं)शेन भद्रकोष्ठकम् ।
भूषणं च मेति(चेति) प्रोक्तं [तु] सर्वालङ्कारसंयुतम् ॥ ७ ॥
एतच्चतुर्विधं प्रोक्तं नवभूम्यल्पहर्म्यके ।
अथवा चाल्पहर्म्ये तु मध्यकोष्ठं गुणांशकम् ॥ ८ ॥
अथवा चतुरंशेन मध्यभद्रविशालकम् ।
अथवा पञ्चभागे स्यात्पूर्ववन्नाममी(ई)रितम् ॥ ९ ॥
चतुर्विंशति विस्तारं कूटानां पूर्ववद्भवेत् ।
महाशालानुशाला च सार्धांशकगुणांशकम् ॥ १० ॥
महाशालायते मध्ये वेदभागैर्(गेन) भद्रकम् ।
सर्वालङ्कारसंयुक्तं विवृतं चेति कथ्यते ॥ ११ ॥