Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s38: गृहप्रवेशविधानम्
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s38
- Language
- English
गृहप्रवेशविधानम्
v3.c24.s38.1
अथ वक्ष्ये नराणां च गृहवेशस्य लक्षणम् ।
सर्वेषां जातिहर्म्याणां चोक्तवत् क्रियान्वितम् ॥ १ ॥
उत्तरायणमासे तु दक्षिणायन मे(ने चै)व वा ।
मिथुनं धनुः कन्यां च मीनं चैव विवर्जयेत् ॥ २ ॥
प्रशस्तपञ्चनक्षत्रे सुमुहूर्ते सुलग्नके ।
उभयोः स्थिरराशौ च शुक्लपक्षे प्रवेशयेत् ॥ ३ ॥
स्थपतिः स्थापकश्चोभौ गृहवेशं समारभेत् ।
गृहाग्रे मण्डपं कृत्वा प्रपां वा कूटमेव वा ॥ ४ ॥
पञ्चसप्तकरं तत्र गेहता समाक्रमम् ।
षोडशस्तम्भयुक्तं वा द्वादशस्तम्भमेव वा ॥ ५ ॥
विविधानां विधानानां नानावस्त्रैरलङ्कृतम् ।
गोमयालेपनं कृत्वा चोक्तवत्कृतसद्यकम् ॥ ६ ॥
गृहे वा मध्यरङ्गे [वा] पार्श्वे वा चैशकोणके ।
कुर्यादुक्तवच्छिल्पी सा(चा)ङ्गारपंणमेव वा ॥ ७ ॥
वास्तुमध्यो(ध्ये ऽ)क्तवच्छिल्पी साधारञ्चबलिं दिशेत्(क्षिपेत्) ।
आपादाष्टारखां च(पाद्यष्टामरांश्चैव) पूजयेत्स्थपतिः प्रभुः ॥ ८ ॥
आर्यादीनां चतुर्धानां(र्णां च) साम्प्रकेन बलि(द्भिः) ददेत्(दीयेत) ।
ब्रह्मादिदेवताश्चैव पूजयेद् विधिवत्(धिना) सह ॥ ६ ॥
वास्तुहोमं ततः कृत्वा तृप्त्यर्थं वास्तुदेवताः ।
शुद्धिं कृत्वा ततः पश्चात्पर्यग्निकरणं गृहम् ॥ १० ॥
जलसंप्रोक्षणं कुर्यात्पुण्याहं वाचयेत्ततः ।
पञ्चगव्येन संप्रोक्ष्य स्थपतिः स्थापकैः सह ॥ ११ ॥
v3.c24.s38.2
पञ्चानां प्रत्यकुर्वीत पादप्रक्षालनक्रिया[म्] ।
विधिवदाचमनं कृत्वा मण्डपान्तः प्रविश्यतु(शोत्ततः) ॥ १२ ॥
स्थण्डिले मण्डलं कृत्वा प्रस्तरे शुद्धशालिभिः ।
नवेन वारिकुम्भानि शुद्धतोयेन पूरयेत् ॥ १३ ॥
सूत्रेण नववस्त्रेण कुम्भानां(नि) परिवेष्टयेत् ।
नालिकेरफलै(लादिभि)श्च युक्तं कूर्चेञ्च पल्लवैः ॥ १४ ॥
पञ्चविंशपदं न्यस्य शुद्धतण्डुल(लेन) कारयेत् ।
कुशदर्भान्परिस्तीर्य तण्डुले चोक्तवत्क्रमात् ॥ १५ ॥
ब्रह्मादिनवकुम्भांश्(नि) च तण्डुलोपरि विन्यसेत् ।
स्वर्णेन प्रतिमां कृत्वा देवतानां विशेषतः ॥ १६ ॥
तत्तद्वस्त्रेषु संवेष्ट्य तत्तन्मन्त्रेण पूजयेत् ।
उपवासमुपक्रम्य कर्ता स्वगृहिणी(ण्या) सह ॥ १७ ॥
पीत्वा शुद्धं पयो रात्रावुपोष्य दिवसे पुनः ।
गृहिणीभर्तृहस्तो च गृहस्तम्भ(म्भं) स्वयं करे ॥ १८ ॥
रक्षाबन्धं ततः कुर्याद् वाचयेत्स्वस्तिवाचकम् ।
तत्तद्वाहनादीनां च यत्प्रधानायुतापि च ॥ १९ ॥
दिवा वा रात्रिकाले वा कुर्यात्तदधिवासनम् ।
साङ्कुराः पालिकाः सर्वाः स्थण्डिलोपरि विन्यसेत् ॥ २० ॥
ब्रह्मादिदेवतानां च(ताश्चैव) पूजयेत्स्थपतिर्बुधः ।
तत्तत्स्वनाममन्त्रेण प्रणवादिनमोऽन्तकम् ॥ २१ ॥
हृल्लेखां मध्यकुम्भे तु पूजयेद् विधिवद् बुधः ।
गन्धपुष्पैः समभ्यर्च्य धूपदीपं ददेत्(त) पुनः ॥ २२ ॥
पायसो(सौ) दनशस्यादीन् ताम्बुलादि(र्दि) निवेदयेत् ।
नृत्तगीतादिवाद्यादिजयशब्दादिमङ्गलैः ॥ २३ ॥
अग्निकार्यं ततः कुर्यात्स्थण्डिलं (ल्ल)प्राग्दिशि तथा ।
कुण्डे वा स्थण्डिले वापि समिदाज्यचरुं तिलम् ॥ २४ ॥
लाजैश्चैव पञ्चैते प्रत्येकाष्टादशाहुतीः ।
प्रणवादिसवाहान्तं स्यात् श(च्छ) क्तिबीजं समुच्चरेत् ॥ २५ ॥
v3.c24.s38.3
शक्तिगायत्रिमन्त्रेण पूर्णाहुतिं समाचरेत् ।
अधिवासितकुम्भस्थजलेनैवाभिषेचयेत् ॥ २६ ॥
वेश्मद्वारन्तदी(रान्तादि)वेश्मकं गृहं प्रति गृहं प्रति ।
वाहनादीनि संप्रोक्ष्य स्थपतिस्थापकावुभौ ॥ २७ ॥
सर्वमङ्गलघोषैश्च स्वस्तिवाचनपूर्वकम् ।
पश्चाद् गृहमङ्गलं कुर्यान्नानावस्त्रैश्च शोभितम् ॥ २८ ॥
वितानध्वजसंयुक्तं पुष्पमाल्यैरलङ्कृतम् ।
स्थपतिर्वरवेषाढ्यः प्राप्तपञ्चाङ्गभूषणः ॥ २९ ॥
श्वेतानुलेपनं व्याप्य(प्यं) स्वर्णयज्ञोपवीतवान् ।
नवशुक्लांशुकोपेताः श्वेतांशूत्तरीयकवान् ॥ ३० ॥
पादप्रक्षालनं कुर्यात्सकजीकरणं कृतम् ।
धूपदीपं ददेत्(त) पश्चाद् गन्धपुष्पाक्षतैः सह ॥ ३१ ॥
ब्राह्मणैश्च यथाशक्ति वाचयेत्स्वस्तिवाचनम् ।
यजमानस्य प्रोत्या च अ(त्यैस्तु चा)न्यैरनुचरैः सह ॥ ३२ ॥
गृहप्रदक्षिणं कुर्याज्जयशब्दादिमङ्गलैः ।
गृहद्वारस्य पुरतः स्थित्वायान्तं च वाचरेत् ॥ ३३ ॥
लक्ष्मीशं ततो नमस्कृत्य याचयेद्वि(दि)ष्टमानकम् ।
v3.c24.s38.4
मन्त्रम्
v3.c24.s38.5
हे लक्ष्मि गृहकर्तारं पुत्रपौत्रधनादिभिः ॥ ३४ ॥
संपूर्णं कुरु चायुष्यं प्रार्थयामि नमोस्तुते ।
एतन्मन्त्रं समुच्चार्य स्थपतिस्थापकावुभौ ॥ ३५ ॥
यजमानाय पश्चात्तु दद्यान्नैवेद्यशेषकम् ।
स्थपतिः(स्तये) स्थापकानां च(केभ्यो) विप्राणां च(प्रेभ्यश्च) विशेषतः ॥ ३६ ॥
दद्याद् दक्षिणा(णां) ताम्बुलं तत्र सद्यप्रवेशने ।
तेभ्यः सह स्वपत्न्या चान्नक्षीरोदकादिभिः ॥ ३७ ॥
नानाभूषणैर्दिव्यैः गन्धमाल्याम्बरादिभिः ।
द्विजानां वेदघोषैश्च गीतनृत्तादिवाद्यकैः ॥ ३८ ॥
v3.c24.s38.6
छत्रचामरसंपूर्णाकलशैर्देशिच्यादिभिः ।
आरुह्य हयदिव्यादीन् यजमानस्य बन्धुभिः ॥ ३६ ॥
अन्यैरनुचरैः सार्धं कुर्याद् ग्रामप्रदक्षिणम् ।
ततः प्रवेशयेत्सर्वं सर्वमङ्गलघोषकैः ॥ ४० ॥ 80
पश्चाद् बन्धुजनैः सार्धं कुर्याद् ब्राह्मणभोजनम् ।
एवं गृहं तु संवेश्य पश्चात्तु स्थापकादिभिः (भ्यः) ॥ ४१ ॥
वस्त्रभूषरणवाहादीन्दद्यात्कर्ता स्वहस्ततः ।
स्थपतिः स्थापकान्यै ( तैरै) त्य युष्मभ्यः (त्वमेवं) प्राप्तवान् गृहम् ॥ ४२ ॥ 84
इत्युक्त्वा यजमानाय पश्चात्त्वं च विसर्जयेत् ।
आरुह्य भद्गवाहं शुभमथ तच्छिल्पिसङ्घान् ग(ङ्गवेर्गं) जाद्यैः ॥ ४३ ॥
अश्रैरुष्ट्रा (ष्ट्र) दिनानापरिकरसंयुक्तं दु(तैर्दु)न्दुभिभेद्नादैः ।
कर्ता नानान्नृसेनारवम (थैर) पि विविधैश्चामरैः पु(प)त्रसङ्घैः ॥ ४४ ॥ 88
यावद् गच्छन्ति(ति) तावत्स्वपुरिपरिसरं स ज(न) येदि(दि)ष्टकार्यैः ॥ ४५ ॥
v3.c24.s38.7
इति मानमारे वास्तुशास्त्रे गृहप्रवेशविधानं नाम सप्तत्रिंशोऽध्यायः ॥
Linked texts (1)
- Mānasāra — Sanskrit