Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s38.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s38.2
- Language
- English
v3.c24.s38.2
पञ्चानां प्रत्यकुर्वीत पादप्रक्षालनक्रिया[म्] ।
विधिवदाचमनं कृत्वा मण्डपान्तः प्रविश्यतु(शोत्ततः) ॥ १२ ॥
स्थण्डिले मण्डलं कृत्वा प्रस्तरे शुद्धशालिभिः ।
नवेन वारिकुम्भानि शुद्धतोयेन पूरयेत् ॥ १३ ॥
सूत्रेण नववस्त्रेण कुम्भानां(नि) परिवेष्टयेत् ।
नालिकेरफलै(लादिभि)श्च युक्तं कूर्चेञ्च पल्लवैः ॥ १४ ॥
पञ्चविंशपदं न्यस्य शुद्धतण्डुल(लेन) कारयेत् ।
कुशदर्भान्परिस्तीर्य तण्डुले चोक्तवत्क्रमात् ॥ १५ ॥
ब्रह्मादिनवकुम्भांश्(नि) च तण्डुलोपरि विन्यसेत् ।
स्वर्णेन प्रतिमां कृत्वा देवतानां विशेषतः ॥ १६ ॥
तत्तद्वस्त्रेषु संवेष्ट्य तत्तन्मन्त्रेण पूजयेत् ।
उपवासमुपक्रम्य कर्ता स्वगृहिणी(ण्या) सह ॥ १७ ॥
पीत्वा शुद्धं पयो रात्रावुपोष्य दिवसे पुनः ।
गृहिणीभर्तृहस्तो च गृहस्तम्भ(म्भं) स्वयं करे ॥ १८ ॥
रक्षाबन्धं ततः कुर्याद् वाचयेत्स्वस्तिवाचकम् ।
तत्तद्वाहनादीनां च यत्प्रधानायुतापि च ॥ १९ ॥
दिवा वा रात्रिकाले वा कुर्यात्तदधिवासनम् ।
साङ्कुराः पालिकाः सर्वाः स्थण्डिलोपरि विन्यसेत् ॥ २० ॥
ब्रह्मादिदेवतानां च(ताश्चैव) पूजयेत्स्थपतिर्बुधः ।
तत्तत्स्वनाममन्त्रेण प्रणवादिनमोऽन्तकम् ॥ २१ ॥
हृल्लेखां मध्यकुम्भे तु पूजयेद् विधिवद् बुधः ।
गन्धपुष्पैः समभ्यर्च्य धूपदीपं ददेत्(त) पुनः ॥ २२ ॥
पायसो(सौ) दनशस्यादीन् ताम्बुलादि(र्दि) निवेदयेत् ।
नृत्तगीतादिवाद्यादिजयशब्दादिमङ्गलैः ॥ २३ ॥
अग्निकार्यं ततः कुर्यात्स्थण्डिलं (ल्ल)प्राग्दिशि तथा ।
कुण्डे वा स्थण्डिले वापि समिदाज्यचरुं तिलम् ॥ २४ ॥
लाजैश्चैव पञ्चैते प्रत्येकाष्टादशाहुतीः ।
प्रणवादिसवाहान्तं स्यात् श(च्छ) क्तिबीजं समुच्चरेत् ॥ २५ ॥