Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s41: राजहर्म्यविधानम्
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s41
- Language
- English
राजहर्म्यविधानम्
v3.c24.s41.1
भूपतीनां च हर्म्याणां लक्षणं वक्ष्यतेऽधुना ।
एकाशीतिकमाधिक्यं शतदण्डं समारभेत् ॥ १ ॥
सैकद्विशतदण्डान्तं द्विद्विदण्डविवर्धनात् ।
सर्वभूपस्य हर्म्ये तु कन्यसादि त्रयं त्रयम् ॥ २ ॥
तद्विस्तारमिति प्रोक्तमायाममिति वक्ष्यते ।
विस्तारात्पादमाधिक्यमर्धाधिक्यमथापिवा ॥ ३ ॥
त्रिपादाधिक्यमेवं वा तत्समाधिक्यमेव वा ।
पञ्चाधिकचतुःषष्टिशतदण्डं समारभेत् ॥ ४ ॥
एकाशीतिशतान्तं स्याद् द्विद्विदण्डेन वर्धनात् ।
एवं तु चोत्तमान्तं स्यात्कन्यसादि त्रयं त्रयम् ॥ ५ ॥
महाराजस्य हर्म्ये तु विशालं परिकीर्तितम् ।
विस्तारादायतं (यामं) सर्वे यथा प्रागुक्तवन्नयेत् ॥ ६ ॥
त्रयाधिक्यं च पञ्चाशं(ञ्चाशत्) शतदण्डं समारभेत् ।
नन्दषष्टा (ष्ट्य) धिकं दण्डं शतदण्डावसानकम् ॥ ७ ॥
कन्यसा नवधा प्रोक्तं द्विद्विदण्डेन वर्धनात् ।
नरेन्द्रस्या(न्द्रा) लये सर्वे(र्वं) विस्तारं परिकीर्तितम् ॥ ८ ॥
नवत्रिंशाधिकं दण्डं शतदण्डं समारभेत् ।
पञ्चाशच्छतपर्यन्तं कन्यसादि त्रयं त्रयम् ॥ ६ ॥
पार्श्विणिकस्य तु हर्म्यस्य विस्तारं परिकीर्तितम् ।
पूर्ववद्धायते सर्वे(र्वं) विस्तारं वर्धयेत्क्रमात् ॥ १० ॥
त्रयोविंशच्छतमारभ्य द्विद्विदण्डेन वर्धनात् ।
नवत्रिंशच्छतान्तं स्यात्पूर्ववन्नवभेदकम् ॥ ११ ॥
v3.c24.s41.2
हर्म्यं(न्ये) पट्टधरोत्सेधे(रस्य च) विस्तारायाम(मं) पूर्ववत् ।
सप्तसप्ततदण्डादौ द्विद्विदण्डेन वर्धनात् ॥ १२ ॥
त्रयोविशच्छतान्तं स्यात्कन्यसादि त्रयं त्रयम् ।
मण्डलेशाञ्जयतारं दीर्घ(दैर्घ्यं) प्रागुक्तवन्नयेत् ॥ १३ ॥
एकाधिक्यं तु नवतिदण्डं चैव समारभेत् ।
हस्ता(सप्ता)धिकशतान्तं च विस्तारं नवधा भवेत् ॥ १४ ॥
एवं तु पट्टभाक्(ग्)हर्म्ये चायामं पूर्ववद् भवेत् ।
सत्रिनं(न)वाष्टदण्डादौ द्विद्विदण्डेन वर्धनात् ॥ १५ ॥
एकाधिकनवत्यन्त(न्तं) नवधा चोक्तमानकम् ।
प्राहारकस्य हर्म्यं तु कन्यसादि विशालकम् ॥ १६ ॥
आयामं पूर्ववत्कुर्याद्वर्धयेद् द्विगुणान्तकम् ।
नवाधिकं तु पञ्चाशद् दण्डं चैव समारभेत् ॥ १७ ॥
सप्तच्सप्ततिश्रान्तं द्विद्विदण्डेन वर्धनात् ।
एवं तु नवधा प्रोक्तं कन्यसादि त्रयं त्रयम् ॥ १८ ॥
अस्त्रग्राहस्य हर्म्यं तु चैवायामं तु पूर्ववत् ।
एकादि सप्तसालान्तं चक्रवर्तिनो हर्म्यके ॥ १६ ॥
षट्प्राकारं तु संकल्प चाधिराजस्य हर्म्यके ।
एकादिपञ्चसालान्तं नरेन्द्रस्यापि हर्म्यके ॥ २० ॥
चतुःशा(सा)लावसानान्तं पार्थिवस्य तु हर्म्यके ।
एकादिकं त्रिसालान्तं पट्टधरादिभिखिभिः (दित्रयाणाम्) ॥ २१ ॥
प्राहारकास्त्रग्राहाभ्यां(द्वयोः) कुड्यमेकं द्वयान्तकम् ।
अधः(न्तः)साप्तं तथैकांशं द्वितीयं च त्रयांशकम् ॥ २२ ॥
तृतीयं सप्तभागं स्यात्सैकांशं त्व(तु)रीयकम् ।
पञ्चमं चैकविंशांशमेकत्रिंशांशं षष्ठकम् ॥ २३ ॥
सप्तमं च त्रयाधिक्यं चत्वारिंशाशमेव वा ।
कुर्यादेवं तु विस्तारे तत्तदायामं पूर्ववत् ॥ २४ ॥
पूर्वोक्तदण्डमाने चैवान्तःसाले प्रकल्पयेत् ।
तस्मात्तु चोक्तवद् बुद्ध्या सप्तसालावसानकम् ॥ २५ ॥
v3.c24.s41.3
तन्माने तु साज्ञानां विनाभित्ति(त्तिं) सभित्तिकम् ।
अन्तर्भित्तिस्तु चैवं स्याद्वहिर्भित्तिस्तु सर्वदा ॥ २६ ॥
कुर्यात्पश्चात्तु भित्तिश्वेत्(त्ति च) मानं वक्ष्ये यथाक्रमम् ।
उक्तप्रमााणबाह्ये तु कुड्यं कुर्यात्समन्ततः ॥ २७ ॥
एकदण्डं समारभ्य सा(चा)र्धदण्डेन वर्धनात् ।
एकसालादि सप्तन्तं चतुर्दण्डावसानकम् ॥ २८ ॥
भित्तिविस्तारमित्युक्तं केचिद्धस्तविवर्धनात् ।
सार्धद्विदण्डपर्यन्तं सप्तमान्तं विशालकम् ॥ २६ ॥
विस्तारं तु(रस्य) समुत्सेधं तत्पादाधिकमेव वा ।
अर्धाधिकमथोत्सेधं पादेनाद्विगुणं तु वा ॥ ३० ॥
विस्तारं(र)द्विगुणं वापि बाह्ये वप्रं तथोन्नतम् ।
मूलतारे तु सप्तसप्तांशीकैक[वि]हीनकम् ॥ ३१ ॥
भित्तिगृहस्य विशालं स्यान्मूलाग्रान्तं चयं(य)क्रमात् ।
प्राकारशीर्षसर्वं [च] हस्तेनदन्तर्रोन्नतम(नान्तरान्ततः) ॥ ३२ ॥
वृत्तं वा चतुरश्रं वा वक्राकारं तथैव च ।
षण्मात्रं चाष्टमात्रं च द्वादशाङ्गुलमेव च ॥ ३३ ॥
कुर्यादन्तान्तरं शेषं शेषं युक्त्या प्रयोजयेत् ।
शिलाचे(ले)ष्टकयोर्वापि [च] मृण्मयैर्भित्तिकल्पनम् ॥ ३४ ॥
एकं वोदकभित्तिं वा कुड्यान्तं मण्डपाकारकम् ।
एवं कल्पं तु कामार्थमनुचरादिवासकम् ॥ ३५ ॥
एवं (योग्यं) तु गृहमाने स्याद् विस्ता चाथ वक्ष्यते ।
सालानाम्पि सर्वेषां परमशायि(यि)कपदं न्यसेत् ॥ ३६ ॥
मध्ये ब्रह्मपदं त्यक्ता परितस्तु नृपादिभिः (दीनाम्) ।
कुर्यात्सर्वत्र सर्वेषामभीष्टादिजनालयम् ॥ ३७ ॥
इन्द्रे च वारुणे वापि सार्वभौमस्य हर्म्यकम् ।
अथवाऽर्यपदे चैव चतुर्दिक्षु विदिक्ष्वपि ॥ ३८ ॥
यमे विवस्वते(ति) चापि चाधिराजस्य हर्म्यकम् ।
भूधरे च कुबेरे च नरेन्द्रस्यालयं भवेत् ॥ ३६ ॥
v3.c24.s41.4
इन्द्रे इ(चे)न्द्रजयस्यांशे पार्थिवस्य गृहं भवेत् ।
अथवा पुष्पदन्तस्य पदे वासं प्रकल्पयेत् ॥ ४० ॥
रुद्रे रुद्रजये वापि चासुरस्य पदेऽथवा ।
पट्टधृग्नालयं कुर्याच्छोषकस्य पदेऽपि वा ॥ ४१ ॥
गृहक्षते च सवित्रे सावित्रस्य पदेऽपि वा ।
मण्डलेशस्य हर्म्यं स्यात्पट्टभाक्(जश्)चालयं तु वा ॥ ४२ ॥
आपवत् सा(अपवत्सस्या)पवत्स(त्स्य)स्य शृगे वा मुख्यकेऽपि वा ।
प्राहारकस्यामात्यस्यालयं परिकल्पयेत् ॥ ४३ ॥
सर्वेषामपि भूपानां स्वनियर्ति(स्थानीयादि)चतुष्टये ।
गृहमेवं तु शा(सा)लायां चोक्तमेवं पुरातनैः ॥ ४४ ॥
सर्वेषां मूलहर्म्याणां पूर्वद्वारं प्रकल्पयेत् ।
तत्तन्मूलस्य हर्म्यस्य दक्षिणे चोत्तरेऽपि वा ॥ ४५ ॥
नैर्ऋत्ये वायवे चापि तत्तन्महिषि(षी)कागृहम् ।
मूलहर्म्यस्य याम्ये तु सा(चा)भिषेकादिमण्डपम् ॥ ४६ ॥
सुग्रीवे पुष्पदन्ते वा चायुधस्यालयं भवेत् ।
असुरे शोषके वापि वस्तुनिचेपमण्डपम् ॥ ४७ ॥
वरुणे नैऋते वापि मुहूर्त्तस्नपनालयम् ।
सोमे च मुख्यके वापि रत्नहेमादिकालयम् ॥ ४८ ॥
गन्धर्वे भृङ्गराजे वा भूषाणालयमेव च ।
दक्षिणे नैऋते वापि भोजनार्थं तु मण्डपम् ॥ ४९ ॥
तथेशानपदे वापि पचनालयमेव च ।
अनिन्ने चाग्निके वापि पुष्करिण्या(शोष) च कल्पयेत् ॥ ५० ॥
महिष्यावाससौम्ये कञ्चुकीरा(किनश्)शा(चा)लयं भवेत् ।
वायव्येन धनाङ्गांशे पुष्पमण्डपं योजयेत् ॥ ५१ ॥
अदिते(तौ) चोदिते वापि मज्ज(ज्न)नालयमेव च ।
तत्तद्वाह्यप्रदेशे तु कायशुद्ध्यर्थमण्डपम् ॥ ५२ ॥
वायव्ये नैर्ऋते वापि सूतिकामण्डपं भवेत् ।
पूषे(ष्यि) वा वितथे चैव दासदास्यालयं भवेत् ॥ ५३ ॥
v3.c24.s41.5
गृहक्षतपदे चैव शयनालयमेव च ।
मुख्ये वा भ्र(णैवा)थ भल्लाटे विलासिनीनां चालयम् ॥ ५४ ॥
दौवारिकपदे चैव राजकन्यक(र्थिका)राज्ञयम् ।
द्वारस्य वामपार्श्वे तु गजाश्वादिकालयम् ॥ ५५ ॥
द्वारस्य दक्षिणे पार्श्वे रक्षकावासमेव च ।
सत्यके चान्तरिक्षे च चौर(रि)कालयमेव च ॥ ५६ ॥
भृशे यानालयं कुर्याल्लब्धं प्रागुक्तवद् भवेत् ।
अन्तःसालमिरत प्रोक्तं बाह्यशा(सा)लमिहोच्यते ॥ ५७ ॥
वरुणे युवराजस्य चालयं तत्प्रकल्पयेत् ।
तत्पूर्वे चोत्तरे वापि तस्यैवानुचरालयम् ॥ ५८ ॥
याम्ये च सोमदिग्(शि) वापि वायव्ये वाथ नैर्ऋते ।
आस्थानमण्डपं कुर्यात्पुष्करिण्यां(ण्याश्)च वायवे ॥ ५९ ॥
नागस्य वामके याम्ये कुर्यादारामदेशकम् ।
पुष्पोद्यानं ततः कुर्यान्मुख्य(ख्ये) भल्लाटकेऽपि च ॥ ६० ॥
नृत्तागारं ततः कुर्यान्नानानृत्ताङ्गनानि च ।
आत्मार्थं यजमानार्थं देवताहर्म्यमीशके ॥ ६१ ॥
द्वितीये हर्म्ये(र्म्यं)याम्ये तु पुरोहितालयमेव च ।
रोगे वा मुख्यकं वापि स्वामिखारा(ध्यायका)लयमेव च ॥ ६२ ॥
द्वितीयः(य)सालवाह्ये तु द्वारं तस्य तु दक्षिणे ।
महाशस्त्राक्षयं कुर्याद् भैरवं तु बहिर्वहिः ॥ ६३ ॥
ईशे तु धेनुशालाश्च द्वारं कुर्यान्महेन्द्रके ।
पार्श्वके मेषशालाश्च सत्यके वानरालयम् ॥ ६४ ॥
सोमादीशानपर्यन्तं वाजिशाला प्रकल्पयेत् ।
याम्यादिपावकान्तं स्याद् गजशालां प्रकल्पयेत् ॥ ६५ ॥
तस्मात्तु नैऋत्यान्तं कुतृ(क्कु)कुटालयमेव च ।
वायुकोणादिमुख्यान्तं मृगाणां(ग)हरिणा[नामा]लयम् ॥ ६६ ॥
सुग्रीवे पुष्पदन्ते च कल्पयेन्मातृ(तृपवित्ति)मण्डपम् ।
उत्तरे वाह्यके वापि चोत्तरे वायवे तथा ॥ ६७ ॥
v3.c24.s41.6
तद्देशे चोर्ध्ववेदिः स्याद्विपदार्धाङ्गु(ङ्ग)खान्वितम् ।
परितः शूलकम्पं स्याद् द्वारं तद्दक्षिणोत्तरे ॥ ६८ ॥
तत्तत्पश्चिमदेशे तु युद्धालोकनमण्डपम् ।
आरुह्यावलोकनार्थं [स्यात्] कुर्याद्युक्त्या च मण्डपम् ॥ ६६॥
वरुणे पुष्पद्न्ते वा मेषयुद्धार्थमण्डपम् ।
मृगे च भृङ्गराजे वा कुकुटायुद्धमण्डपम् ॥ ७० ॥
मण्डपाङ्गणमध्ये तु परितो मेखलैर्यु(लायु)तम् ।
एकद्वित्रिचतुष्पञ्चहस्तमूला मविस्तृतम् ॥ ७१ ॥
सार्धद्विहस्तनिम्नं स्यात्सार्धार्धपरिधान्वितम् ।
दौ(दौ)वारिकपदे चैव मयूरालयमेव च ॥ ७२ ॥
द्वारस्य दक्षिणे बाह्ये व्याघ्रकालयमेव च ।
तद्वाह्ये तत्र देवादीन्(नां) किरातालयमेव च ॥ ७३ ॥
तृतीये वितथे तस्यांशे रहस्यावासमण्डपम् ।
चतुर्थे यमदिग्भागे सन्धिविग्रहमण्डपम् ॥ ७४ ॥
षट्सप्तावरणे वापि दक्षिणे पश्चिमेऽपि च (वा) ।
उत्तरे पूर्वके वापि गजम(जा)श्वादिवाहनम्(नानि) ॥ ७५ ॥
आरुह्यालोकनार्थं च मण्डपं परिकल्पयेत् ।
ईशे वा वितथे चैव रत्नमण्डपमेव च ॥ ७६ ॥
भृशे वा सा(चा)न्तरीक्षे वा कारागृहमेव च (तथा) ।
प्राकारस्य चतुर्दिक्षु द्वारगोपुरकान्वितम् ॥ ७७ ॥
शेषं प्रागुक्तवत्कुर्यान्नृपचित्तवशात्तु यत् ।
अनुक्तं मण्डपं युक्त्या कुर्यादाषोडशान्वितम् ॥ ७८ ॥
ब्रह्मांशे ब्रह्मपीठं स्यात्कुर्यादावृतमण्डपम् ॥ ७६ ॥
हस्तेन भूतमुनिरन्ध्रेण करेण कृत्वा
विस्तारभित्ति चतुरश्रं त्रियै(धै)कवे(के)न ।
ग्रामस्य मध्यस्थश्च भूपतिमध्यहर्म्यं
नित्यं त्रिकाल (म्) इव पूजित(तं) ब्रह्मपीठम् ॥ ८० ॥
v3.c24.s41.7
इति मानमारे वास्तुशास्त्रे राजहर्म्यविधानं नाम चत्वारिंशोऽध्यायः ॥
Linked texts (11)
- Jātaka — Pāli
- Mānasāra — Sanskrit
- Kauṭilīya Arthaśāstra — Kauṭilya, Sanskrit
- Aṣṭādhyāyī — Pāṇini, Sanskrit
- Mānava Dharmaśāstra — Manu & Bhṛgu, Sanskrit
- Epigraphia Indica
- Mahābhārata — Vyāsa, Sanskrit
- Ṛgvedasaṃhitā — Sanskrit
- Corpus Inscriptionum Indicarum
- Śatapathabrāhmaṇa — Yājñavalkya & Śāṇḍilya (Vedic teacher), Sanskrit
- Nasik cave inscription (No. 16, N. 5) (ed. Hultzsch 1906) — Prakrit