Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s41.6
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s41.6
- Language
- English
v3.c24.s41.6
तद्देशे चोर्ध्ववेदिः स्याद्विपदार्धाङ्गु(ङ्ग)खान्वितम् ।
परितः शूलकम्पं स्याद् द्वारं तद्दक्षिणोत्तरे ॥ ६८ ॥
तत्तत्पश्चिमदेशे तु युद्धालोकनमण्डपम् ।
आरुह्यावलोकनार्थं [स्यात्] कुर्याद्युक्त्या च मण्डपम् ॥ ६६॥
वरुणे पुष्पद्न्ते वा मेषयुद्धार्थमण्डपम् ।
मृगे च भृङ्गराजे वा कुकुटायुद्धमण्डपम् ॥ ७० ॥
मण्डपाङ्गणमध्ये तु परितो मेखलैर्यु(लायु)तम् ।
एकद्वित्रिचतुष्पञ्चहस्तमूला मविस्तृतम् ॥ ७१ ॥
सार्धद्विहस्तनिम्नं स्यात्सार्धार्धपरिधान्वितम् ।
दौ(दौ)वारिकपदे चैव मयूरालयमेव च ॥ ७२ ॥
द्वारस्य दक्षिणे बाह्ये व्याघ्रकालयमेव च ।
तद्वाह्ये तत्र देवादीन्(नां) किरातालयमेव च ॥ ७३ ॥
तृतीये वितथे तस्यांशे रहस्यावासमण्डपम् ।
चतुर्थे यमदिग्भागे सन्धिविग्रहमण्डपम् ॥ ७४ ॥
षट्सप्तावरणे वापि दक्षिणे पश्चिमेऽपि च (वा) ।
उत्तरे पूर्वके वापि गजम(जा)श्वादिवाहनम्(नानि) ॥ ७५ ॥
आरुह्यालोकनार्थं च मण्डपं परिकल्पयेत् ।
ईशे वा वितथे चैव रत्नमण्डपमेव च ॥ ७६ ॥
भृशे वा सा(चा)न्तरीक्षे वा कारागृहमेव च (तथा) ।
प्राकारस्य चतुर्दिक्षु द्वारगोपुरकान्वितम् ॥ ७७ ॥
शेषं प्रागुक्तवत्कुर्यान्नृपचित्तवशात्तु यत् ।
अनुक्तं मण्डपं युक्त्या कुर्यादाषोडशान्वितम् ॥ ७८ ॥
ब्रह्मांशे ब्रह्मपीठं स्यात्कुर्यादावृतमण्डपम् ॥ ७६ ॥
हस्तेन भूतमुनिरन्ध्रेण करेण कृत्वा
विस्तारभित्ति चतुरश्रं त्रियै(धै)कवे(के)न ।
ग्रामस्य मध्यस्थश्च भूपतिमध्यहर्म्यं
नित्यं त्रिकाल (म्) इव पूजित(तं) ब्रह्मपीठम् ॥ ८० ॥