Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s43: राजलक्षणम्
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s43
- Language
- English
राजलक्षणम्
v3.c24.s43.1
अथ वक्ष्ये विशेषेण भूपानां लक्षणं परम् ।
चक्रवर्ती महाराजो नरेन्द्रः पार्थिंवस्तथा ॥ १ ॥
अथ पट्टधरश्चापि मण्डलेशस्तथैव च ।
अथैव पट्टभाक् चैव ततः प्राहारकस्तथा ॥ २ ॥
अस्त्रग्राहस्ततश्चैते नव भूपा यथाक्रमात्(मम्) ।
चतुःसागरपर्यन्तां महीं स्वीकृत्य बलवान् ॥ ३ ॥
जित्वा द्वारस्य पुरतो बन्ध(घंटा)माबध्य संस्थितः ।
न्यायान्यायविचारार्थं किञ्चिन्मन्यप्रतापवान् ॥ ४ ॥
कीर्तिमान् श्रीमतां श्रेष्ठः कृपया लोकरक्षकः ।
सर्वावनीन्द्रवन्द्योऽसौ चक्रवर्तीति कीर्तितः ॥ ५ ॥
शक्तित्रयेद्वित्तीं(त्रयेण) स्वीकृत्य सप्तराज्यस्य चेश्वरः ।
षड्गुणैः षड्बलैर्युक्तो नीतिज्ञः सूर्यवंशवान् ॥ ६ ॥
चन्द्रवंशोदितो वापि चाधिराज इति स्मृतः ।
शक्तित्रयेण त्रितयराज्यं स्वीकृत्य दुर्बलाम(न्) ॥ ७ ॥
पार्थिवौकः पट्टधरो मण्डलेशोऽपि पट्टभाक् ।
एतैर्वन्द्यापदद्वन्द्वो नीतिनेत्रः अ(आ)रिन्दमः ॥ ८ ॥
सुकृती चोत्सवस्तो नरेन्द्रः परिकीर्तितः ।
एकराज्यस्याधिपतिश्चैकदुर्गमधिष्ठितः ॥ ९ ॥
षड्बलाधिपतिर्ज्ञानी कालज्ञोऽथ प्रयोगवान् ।
एवं परेभ्यश्चाभिहितो पार्थिवैक इ(ओ)ति स्मृतः ॥ १० ॥
v3.c24.s43.2
चतुष्टयगुणाधीशश्चार्धराज्यस्य चेश्वरः ।
एकदुर्गस्याधिपतिः स्वाम्यमात्यैरपीश्वरः ॥ ११ ॥
v3.c24.s43.3
मण्डलाधिपतिः(ति)रष्टभाक्भौमेऽ(गन्यैर)पि वर्जितम्(तः) ।
एवं गुणविशिष्टोऽसौ प्रोक्तः पट्टधराख्यया ॥ १२ ॥
v3.c24.s43.4
अर्धमण्डलस्याधिपतिरेकमण्डलसंश्रितः ।
पट्टभागादिवन्द्योऽसौ मण्डलेश इति स्मृतः ॥ १३ ॥
v3.c24.s43.5
मण्डलाधिपतिः(र्वाधिपः) श्रीमानेकदुर्गमधिष्ठितः ।
सज्जनानां धनाढ्यानामधिपः पट्टभाक् स्मृतः ॥ १४ ॥
v3.c24.s43.6
ब्राह्मणक्षत्रियवैश्यशूद्रैः(ब्राह्माम्) प(चै)ककुलोद्भवः ।
एकदुर्गस्याधिपतिर्नानाजनपदाधिपः ॥ १५ ॥
v3.c24.s43.7
सज्जनाधिपतिः सर्वरत्नादिन(नि)करेश्वरः ।
एतल्लक्षणयुक्तोऽसौ राजा प्राहारकः स्मृतः ॥ १६ ॥
v3.c24.s43.8
नानाजनपदाधीशो नगरीनायकः प्रभुः ।
एकदुर्गमधिष्ठा(स्था)प्य नानाजनपदैकराट् ॥ १७ ॥
v3.c24.s43.9
आदाय दुर्बलानां तु सोऽस्त्रग्राही प्रकीर्तितः ।
चक्रवर्ती अ(चा)धिराजश्च नरेन्द्रश्चाविचारकः(कम्) ॥ १८ ॥
v3.c24.s43.10
पार्थिवैकश्च शिरखं स्यात्पट्टधृक् पट्टबन्धनम् ।
मण्डलेशस्य पट्टं स्यात्पट्टभाक् पट्टबन्धनम् ॥ १९ ॥
v3.c24.s43.11
प्राहारकश्चास्त्रग्राही चोभौ मालाधरौ स्मृतौ ।
चक्रवर्ती महाराजो नरेन्द्रश्चैव मौलिनः ॥ २० ॥
v3.c24.s43.12
सिंहासनं सनिर्यूहं कल्पवृक्षसत्तोरणम् ।
पार्थिवैकश्च पट्टधरः पट्टभाक् तृतीयस्य तु ॥ २१ ॥
v3.c24.s43.13
विना कल्पतरोः(रुं) सर्वमुक्तं सिंहासनादिकम् ।
प्राहारकस्य नृपतेः सिंहासनमिति स्मृतम् ॥ २२ ॥
v3.c24.s43.14
अस्त्रग्राहस्य भूपस्य केवलं चासनं भवेत् ।
चक्रवर्त्यादि(देर्)निर्बाधं भूपालाद्यो(दे)र्विशेषतः ॥ २३ ॥
v3.c24.s43.15
चामरे धवलच्छत्रं बहुमालाधर(रा) स्मृतम् ।
आसनानां तु सर्वेषां षट्पादं परिकीर्तितम् ॥ २४ ॥ 48
v3.c24.s43.16
चक्रवर्ती विशेषेण नवमालाधरः सुखी ।
चामरैकं विनाच्छत्रं चतुष्पादसमन्वितम् ॥ २५ ॥
v3.c24.s43.17
क्षुद्रस्य परिपालेभ्यो मध्यश्रेष्ठस्य योग्यकम् ।
बहुमाला च संप्रोक्तमन्यैः क्षुद्रैस्तु वर्धिते(वक्ष्यते) ॥ २६ ॥ 52
v3.c24.s43.18
पृक्ता(श्या) सज्जननिर्गूहं (द्दो) मुक्ता च (क्तया) स्रग्विभूषणम् ।
क्षुद्र(मध्य)श्रेष्ठस्य नृपतेश्वोभे जनपदे स्मृतौ (ते) ॥ २७ ॥
v3.c24.s43.19
अन्येभ्यो(भ्यः) क्षुद्रराजेभ्यस्त्वेकजानपदं परम् ।
एते तु क्षुद्रभूपा लो(ला) भूपालानां तु सेवकाः ॥ २८ ॥ 56
v3.c24.s43.20
चक्रवर्त्याख्यराजोऽसौ दुर्जनानां तु नाशकः ।
कृपालुः कृपया लोकं संरक्षति मुहुर्मुहुः ॥ २६ ॥
v3.c24.s43.21
अद्य [च] दशकैकांशं करं स्वीकृत्य तिष्ठति ।
महाराजः षडंशे तु करं चैकं परिग्रहे (गृह्णीया) त् ॥ ३० ॥ 60
v3.c24.s43.22
दुर्जनानां जनं ज्ञात्वा दिशि धर्मस्य पालकाः(कः) ।
नरेन्द्रस्य (श्च) तु पञ्चांशं करं स्वीकृत्य राज्यति ॥ ३१ ॥
v3.c24.s43.23
अर्थिभ्योऽतिदरिद्रेभ्यो दाता धनवतां गृह्णीयात् ।
अथ पार्ष्णिकारख्यनृपतिः करमद्य(पादं) प्रतिगृह्णी (ही) यात् ॥ ३२ ॥ 64
v3.c24.s43.24
पट्टधरस्य समये चोक्तवत् त्रिः(त्यंशं) प्रतिगृह्णी(हीया)त् ।
ददाति विदुषां भूयः अ (श्चा) न्येभ्यः किञ्चिदेव हि ॥ ३३ ॥
v3.c24.s43.25
पट्टभाक् राज्यं(ज्यस्य) तत्सर्वं करं स्वीकृत्य तिष्ठति ।
देवेभ्यो ब्राह्मणेभ्योऽपि नित्य (त्यं) मान्यं करोत्यसौ ॥ ३४ ॥ 68
v3.c24.s43.26
प्र(प्रा) हारकस्य(श्च) देशस्य करं स्वीकृत्य तिष्ठति ।
नीतिशास्त्रोक्तबन्त्यायमन्यायं करोत्यपि ॥ ३५ ॥
v3.c24.s43.27
धर्मज्ञश्चोपकारज्ञो वामभिः (रभिग्न) कर्मभिः दृढः ।
अस्त्रग्राहः स्वराज्यस्य न्यायाञ्चग्राह (द्गृह्णाति) तत्करम् ॥ ३६ ॥ 72
v3.c24.s43.28
यथापराधदण्डं च हिंसां नाभिकरोति च ।
तापसान् ब्राह्मखान्देवान् सदा पूजां करोत्यपि ॥ ३७ ॥
v3.c24.s43.29
एवं क्षुद्राश्च भूपालाः स्वे स्वे जनपदे करान् ।
स्वीकृत्य चक्रवर्त्यादिराजानां च करोत्यपि ॥ ३८ ॥
v3.c24.s43.30
इत्युक्तन्यायमार्गस्य भागं कुर्वन्ति ते नृपाः ।
अचत्रियास्तु ते सर्वे प्रोक्तं(क्ता) विद्वाम(द्भिः) पुरातनैः ॥ ३९ ॥
v3.c24.s43.31
इतिविरचितमेवं भूपतीनां चरित्रम्
श्रुतिसकलपुराणैः सर्वशान्त्राय(खैर्) मानम् ।
परिपत(ठ)ति यदे(य ए)तल्लक्षणं चार्थयुक्तम्
स तु निखिलविबुधेभ्यो वन्द्यपादारविन्दः ॥ ४० ॥
v3.c24.s43.32
इति मानमारे वास्तुशास्त्रे राजलक्षणविधानं नाम द्विचत्वारिंशोऽध्यायः ॥