Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s43.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s43.1
- Language
- English
v3.c24.s43.1
अथ वक्ष्ये विशेषेण भूपानां लक्षणं परम् ।
चक्रवर्ती महाराजो नरेन्द्रः पार्थिंवस्तथा ॥ १ ॥
अथ पट्टधरश्चापि मण्डलेशस्तथैव च ।
अथैव पट्टभाक् चैव ततः प्राहारकस्तथा ॥ २ ॥
अस्त्रग्राहस्ततश्चैते नव भूपा यथाक्रमात्(मम्) ।
चतुःसागरपर्यन्तां महीं स्वीकृत्य बलवान् ॥ ३ ॥
जित्वा द्वारस्य पुरतो बन्ध(घंटा)माबध्य संस्थितः ।
न्यायान्यायविचारार्थं किञ्चिन्मन्यप्रतापवान् ॥ ४ ॥
कीर्तिमान् श्रीमतां श्रेष्ठः कृपया लोकरक्षकः ।
सर्वावनीन्द्रवन्द्योऽसौ चक्रवर्तीति कीर्तितः ॥ ५ ॥
शक्तित्रयेद्वित्तीं(त्रयेण) स्वीकृत्य सप्तराज्यस्य चेश्वरः ।
षड्गुणैः षड्बलैर्युक्तो नीतिज्ञः सूर्यवंशवान् ॥ ६ ॥
चन्द्रवंशोदितो वापि चाधिराज इति स्मृतः ।
शक्तित्रयेण त्रितयराज्यं स्वीकृत्य दुर्बलाम(न्) ॥ ७ ॥
पार्थिवौकः पट्टधरो मण्डलेशोऽपि पट्टभाक् ।
एतैर्वन्द्यापदद्वन्द्वो नीतिनेत्रः अ(आ)रिन्दमः ॥ ८ ॥
सुकृती चोत्सवस्तो नरेन्द्रः परिकीर्तितः ।
एकराज्यस्याधिपतिश्चैकदुर्गमधिष्ठितः ॥ ९ ॥
षड्बलाधिपतिर्ज्ञानी कालज्ञोऽथ प्रयोगवान् ।
एवं परेभ्यश्चाभिहितो पार्थिवैक इ(ओ)ति स्मृतः ॥ १० ॥