Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s48.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s48.1
- Language
- English
v3.c24.s48.1
देवानां च नृपाणां च स्नानकासनयोग्यकम् ।
मुक्ता(क्त)प्रपाङ्गमाने च लक्षणं वच्यतेऽधुना ॥ १ ॥
यद्युक्तमन्यरङ्गे तु चतुस्त्रिंशद्विभाजिते ।
एकैकं भागहीनं स्यात्प्रपाविस्तारमिष्यते ॥ २ ॥
तच्चतुर्भागिकैकेन तन्मसूरकतुङ्गकम् ।
तद्द्वयं पादतुङ्गं स्यात्तदधं प्रस्तरोदयम् ॥ ३ ॥
अथवाष्टांशकं तुङ्गे विभजेत्तद्विशेषतः ।
अर्धा(ध्य) धींशेन वेदिः स्यात्पञ्चांशं चाङ्घ्रितुङ्गकम् ॥ ४ ॥
प्रपा(प्रस्तर) तुङ्गं शिवांशं (धं) स्यादथवा षड्विभाजिते ।
एकांशं वेदिकोत्तुङ्गं चतुर्भागा(गम)ङ्घितुङ्गकम् ॥ ५ ॥
एकांशं मञ्चतुङ्गं स्यात्सर्वालङ्कारसंयुतम् ।
एकत्रिभक्तिकं वापि चतुरङ्घ्रिसंयुतम् ॥ ६ ॥
सर्वेषां पादविस्तारं त्रिचतुष्पञ्चाङ्गुलं भवेत् ।
धान्य(दारु)स्तम्भमिति प्रोक्तं शिलास्तम्भं विशेषतः ॥ ७ ॥
षट्सप्ताष्टाङ्गुलं वापि शिलास्तम्भं (म्भ) विशालकम् ।
वृत्तं वा चतुरश्रं वा अ(चा)ष्टाश्रं षोडशाश्रकम् ॥ ८ ॥
पादतुङ्गेऽष्टभागे तु त्रयांशेनोर्ध्वमलङ्कृतम् ।
बोधिकं मुष्टिबन्धं च फलका ना(वा)टिका घटम् ॥ ९ ॥
सर्वालङ्कारसंयुक्तं मूले पद्मासमन्वितम् ।
चतुर्दिक्षु चतुर्भद्रं केचिद् भद्रं तु कारयेत् ॥ १० ॥