Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s57.1

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s57.1

Language
English

v3.c24.s57.1

बौद्धस्य लक्षणं वक्ष्ये सम्यक् च विधिनाधुना ।
ज(जि)नदेवा(नम)स्थिरं युक्तं बौद्धस्य च विशेषतः ॥ १ ॥
स्थानकं चासनं वापि सिंहासनादिसंयुतम् ।
अश्वत्थवृक्षसंयुक्तं कल्पवृक्षं तथा न्यसेत् ॥ २ ॥
शुद्धश्वेतवर्णं स्याद् विशालाननसंयुतम् ।
लम्बकर्णा(र्णमा)यताक्षं स्यात्तुङ्गो(घो)णं सिताननम् ॥ ३ ॥
दीर्घबाहु विशाला(लं) च वक्षःस्थलं च सुन्दरम् ।
मांसलाङ्गं सुसंपूर्ण लम्बोदरपूर्णकन ॥ ४ ॥
समपादस्थानकं कुर्याल्लम्बहस्तं सुखासनम् ।
द्विभुजं च द्विनेत्रं च चोष्णीषोज्वलमौलिकम् ॥ ५ ॥
एवं तु स्थानकं कुर्यादासनादि यथाक्रमम् ।
पीताम्बरधरं कुर्यात्स्थानके चासनेऽपि च ॥ ६ ॥
पीतं वामभुजोर्ध्वं तु चार्थकं तु सदना(साधना) ।
स्थावरं जङ्गमं वापि दारु शैलं च लोहजम् ॥ ७ ॥
चित्रं वा चार्धचित्रं च चित्राभासमथापि वा ।
पट्टे वा भित्तिके वापि कुर्यान्मृत्तिकारार्करा[भ्याम्] ॥ ८ ॥
उत्तमं(म)दशतालेन कारयेत्त्वङ्गमानकम् ।
शेषं प्रागुक्तवत्कुर्यात्तत्तदागमवद् बुधः ॥ ६ ॥