Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s64: सिंहलक्षणम्
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s64
- Language
- English
सिंहलक्षणम्
v3.c24.s64.1
देवानां वाहनं सिंहं लक्षणं वक्ष्यतेऽधुना ।
बध्योपालखपर्यन्तं तुङ्गं पञ्चशराङ्गुलम् ॥ १ ॥
उच्चोपं ह्यङ्गुलं तुङ्गं सप्ताङ्गुलं सुखायतम् ।
उत्तरोष्ठं दशाङ्गुल्यं तस्मात्पाद(दं) रसाङ्गुलम् ॥ २ ॥
उत्तरान्तात्पुच्छमूलान्तमायामं पञ्चदशाङ्गुलम् ।
पृष्ठपादं शराङ्गुल्यं दीर्घ (दैर्घ्यं) युक्त्या प्रयोजयेत् ॥ ३ ॥
मुखतारं कपोलान्तं नवमानं (नं) प्रशस्यते ।
कर्णमूलद्वयोरुक्तं मुखतारं विशालकम् ॥ ४ ॥
तत्तुल्यं व्या(भा)लविस्तारं मुखतारं शराङ्गुलम् ।
ललाटोच्चं शिवाङ्गुल्यं भ्रुवो(व ओ)ष्ठं तत्समं भवेत् ॥ ५ ॥
अञ्चितारोधमेकारां नासिकामूल(खं) शिवांशकम् ।
विस्तारं तत्समं स्यात्पुटमत्य (प्य) ष्टाङ्गुलं भवेत् ॥ ६ ॥
नेत्रसूत्रादधो ह्यत्वा ह्यङ्गुलं सप्तकीर्त्तितम् ।
कुर्या[द्वा]यामं शरांशं स्यादुत्सेधं सा (चा)र्धमात्रकम् ॥ ७ ॥
अधरोष्ठमर्धमात्रं स्यात्तदूर्ध्वं अं(चां) शमवसानकम् ।
अञ्चिसूत्रादधो(धोऽ) शरन्तमुत्तरोष्ठं प्रकल्पयेत् ॥ ८ ॥
कपोलं च द्विमात्रं स्यात्कर्णायमं शिवाङ्गुलम् ।
कर्णतारमर्धमात्रं स्यात्कर्णमूले तु तत्समम् ॥ ६ ॥
दन्तदीर्घ(दैर्घ्यं) शिवांरा सात्तदधं मूलविस्तृतम् ।
अर्धचन्द्रार्धवद् दन्तं संख्यया षट् कारयेत् ॥ १० ॥
[तथा] पुरमिति प्रोक्तमसृक् वातायनं भवेत् ।
जिह्वायामं त्रिमात्रं स्यात्तद्विशालं शिवांशकं ॥ ११ ॥
v3.c24.s64.2
विशालार्धं घनं प्रोक्तं नासिकाघनं तत्समम् ।
नेत्रयोर्मेध्यविस्तारं शिवाङ्गुलं तत्कथ्यते ॥ १२ ॥
नासिमूले युगाग्रे च कर्णमूले कपोलके ।
पत्रवल्ल्यादिसंयुक्तं सिंहवक्त्रमिति स्मृतम् ॥ १३ ॥
वक्त्रस्य प्रदेशे तु भ्रमरं कुर्यात्सुधीर्बुधः ।
लम्बकेशावृतं चैव स्तनयोरर्धांशदेशके ॥ १४ ॥
नवाङ्गुलं तु वक्षस्य(सो) विस्तारं परिकीर्तितम् ।
त्रिमात्रं पादविस्तारं तलायामं शराङ्गुलम् ॥ १५ ॥
[तल]तारं त्रिमात्रं स्या(या)श्यायाममर्धाङ्गुलायतम् ।
व्याघ्रपादवदाकारं कुर्यात्पादचतुष्टयम् ॥ १६ ॥
पृष्ठतारं दृशांशं स्यात्पृष्ठोत्सेधं षडङ्गुलम् ।
शराङ्गुलं चोस्विस्तारं चोस्दीर्घ(दैर्घ्यं) दशाङ्गुलम् ॥ १७ ॥
पञ्चांशं कुक्षिविस्तारं तत्समं घनमेव च ।
सिंहोत्सेधसमं पुच्छं दीर्घं(दैर्घ्यं) तारं शिवाङ्गुलम् ॥ १८ ॥
मूलाग्रा(प्रम)र्धमात्रं स्यान्मूलम्रा(प्रान्त) द्वयं क्रमात् ।
पुच्छाग्रे व(बा)लसंयुक्तमुच्चा(ष्का)यामं त्रिमात्रकम् ॥ १६ ॥
मूलतारं शिवाङ्गुल्यमग्रतारं त्रिमात्रकम् ।
लिङ्गायामं त्रिमात्रं खादर्थांशं लिङ्गविस्तृतम् ॥ २० ॥
श्वेतवर्णानिभं सिंहं रक्तवर्णं च केस(श)रम् ।
अन्तस्थले तथैवास्यं कर्ण्य(र्यां)न्तं निधि(स्थित)रक्तयुक् ॥ २१ ॥
बालचन्द्रवदाकारं नख(खं) दन्ताकृति[सु]तथा ॥ २२ ॥
एवं प्रोक्तं सिंहहूपं जनानाम्
देवानां [देवीनां च] कल्पयेद् वाहनं स्यात् (च) ।
मानं सर्वं चोक्तवद् गू(ग्रा)ह्यमेवम्
शयनं वा स्थानकं चासनं वा [कल्पयेत्] ॥ २३ ॥
v3.c24.s64.3
इति मानमारे वास्तुशास्त्रे सिंहलक्षणविधानं नाम त्रिपष्टितमोऽध्यायः ॥
Linked texts (1)
- Mānasāra — Sanskrit