Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s64.1

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s64.1

Language
English

v3.c24.s64.1

देवानां वाहनं सिंहं लक्षणं वक्ष्यतेऽधुना ।
बध्योपालखपर्यन्तं तुङ्गं पञ्चशराङ्गुलम् ॥ १ ॥
उच्चोपं ह्यङ्गुलं तुङ्गं सप्ताङ्गुलं सुखायतम् ।
उत्तरोष्ठं दशाङ्गुल्यं तस्मात्पाद(दं) रसाङ्गुलम् ॥ २ ॥
उत्तरान्तात्पुच्छमूलान्तमायामं पञ्चदशाङ्गुलम् ।
पृष्ठपादं शराङ्गुल्यं दीर्घ (दैर्घ्यं) युक्त्या प्रयोजयेत् ॥ ३ ॥
मुखतारं कपोलान्तं नवमानं (नं) प्रशस्यते ।
कर्णमूलद्वयोरुक्तं मुखतारं विशालकम् ॥ ४ ॥
तत्तुल्यं व्या(भा)लविस्तारं मुखतारं शराङ्गुलम् ।
ललाटोच्चं शिवाङ्गुल्यं भ्रुवो(व ओ)ष्ठं तत्समं भवेत् ॥ ५ ॥
अञ्चितारोधमेकारां नासिकामूल(खं) शिवांशकम् ।
विस्तारं तत्समं स्यात्पुटमत्य (प्य) ष्टाङ्गुलं भवेत् ॥ ६ ॥
नेत्रसूत्रादधो ह्यत्वा ह्यङ्गुलं सप्तकीर्त्तितम् ।
कुर्या[द्वा]यामं शरांशं स्यादुत्सेधं सा (चा)र्धमात्रकम् ॥ ७ ॥
अधरोष्ठमर्धमात्रं स्यात्तदूर्ध्वं अं(चां) शमवसानकम् ।
अञ्चिसूत्रादधो(धोऽ) शरन्तमुत्तरोष्ठं प्रकल्पयेत् ॥ ८ ॥
कपोलं च द्विमात्रं स्यात्कर्णायमं शिवाङ्गुलम् ।
कर्णतारमर्धमात्रं स्यात्कर्णमूले तु तत्समम् ॥ ६ ॥
दन्तदीर्घ(दैर्घ्यं) शिवांरा सात्तदधं मूलविस्तृतम् ।
अर्धचन्द्रार्धवद् दन्तं संख्यया षट् कारयेत् ॥ १० ॥
[तथा] पुरमिति प्रोक्तमसृक् वातायनं भवेत् ।
जिह्वायामं त्रिमात्रं स्यात्तद्विशालं शिवांशकं ॥ ११ ॥