Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s69: मधूच्छिष्टविधानम्
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s69
- Language
- English
मधूच्छिष्टविधानम्
v3.c24.s69.1
बिम्बानां तु मधूच्छिष्टं(ष्ट)क्रियां सम्यग् वक्ष्यतेऽधुना ।
शैवं पाशुपतं चैव काला(ला)मुखं महाव्रतम् ॥ १ ॥
वामं च भैरवं चैव तन्त्रवत्(न्त्रोक्त)ज्योतिः षट्क्रमात् ।
अगस्त्यः काश्यपश्चैव भृगुर्गौतमभार्गवाः ॥ २ ॥
गालव इ(श्चे)ति ऋषयः प्रोक्ताः कर्षणाद्यर्च(दिरच)नार्थकम् ।
तत्तत्तन्त्रवशात्सर्वं कुर्यात् षट् संपदास्पदम् ॥ ३॥
तत्तत्तन्त्रविपरीतं चेद् विपत्त्यं(त्ति) नित्यमावहेत् ।
अनुक्तं तत्र तन्त्रैस्तु ग्राह्यं दोषो न विद्यते ॥ ४ ॥
विश्वकर्मा च विश्वेश(शः) विश्वसारं(रः) प्रबोधकः ।
वृतश्चैव मयश्चैव त्वष्टा चैव मनुर्नलः ॥ ५ ॥
मानविन्मानकल्पश्च मानसारो बहुश्रुतः ।
प्रष्टा च मानवोधश्च विश्वबोधो ना(न)यश्च तथा ॥ ६ ॥
आदिसारो विशालक्ष विश्वकाश्यप ए(श्चै)व च ।
वास्तुबोधो महातन्त्रो वास्तुविद्यापतिस्तथा ॥ ७ ॥
पाराशरीयकरचैव कालयूपो महाऋषिः(हर्षिश्च) ।
चैलाख्यः चित्रकः आ(श्रा)वय्यैः साधकसारसंहितः ॥ ८ ॥
भानुश्चेन्द्रश्च लोकज्ञः सौराख्यः शिल्पवित्तमः ।
तदेव(ते एव) ऋषयः प्रोक्ता द्वात्रिंशतिः संख्यया ॥ ६ ॥
तान् गोत्रवशाञ्ज्ञात्वा शिल्पि[नः] सर्वत्रयोग्यकम् ।
शुक्लपक्षेऽथवा कृष्णे सर्वमासेषु कारयेत् ॥ १० ॥
शुभयोगे सुनक्षत्रे सुमुहूर्ते सुलग्नके ।
मन्त्रवत्कारयेद् गर्भं(र्भं) स्थपतिस्थापकावुभौ ॥ ११ ॥
v3.c24.s69.2
मधूच्छिष्टं योजयेच्छिल्पी शास्त्र(खतः) कारयेत्क्रमात् ।
v3.c24.s69.3
यथारूपं तथा ध्यात्वा स्वपत्याज्ञैश्च (जया) वर्धकी(किः) ॥ १२ ॥
v3.c24.s69.4
यन्मधूच्छिष्टबिम्बस्य पञ्चवर्णैरलङ्कृतम् ।
v3.c24.s69.5
चित्रिका(क) बेरमेवोक्तं चलं चाप्यचलं तथा ॥ १३ ॥
v3.c24.s69.6
तस्मात्सर्वप्रयत्नेन तत्रदोषो न विद्यते ।
v3.c24.s69.7
अक्षैः स्फटिकसंयुक्तं लूतभाजनमेव च ॥ १४ ॥
v3.c24.s69.8
हस्तेन सर्वबिम्बानां ताम्रपत्रेण योजयेत् ।
v3.c24.s69.9
अथवा पञ्चकानां तु पञ्चमूलेन विन्यसेत् ॥ १५ ॥
v3.c24.s69.10
नखास्(ख)सर्वेषु पादौ च संयुक्तं तु मृगे(ताम्रे)ण च ।
v3.c24.s69.11
अथवा शिखराल्यं स्याद् भूषणं च विशेषतः ॥ १६ ॥
v3.c24.s69.12
स्फटिकैः रत्नसंयुक्तं जीनपात्रेण विन्यसेत् ।
v3.c24.s69.13
श्रमू(ग्राम) कटुप्रसर्वैर्पा युक्त्या वर्णं समाश्रितम् ॥ १७ ॥
v3.c24.s69.14
दारुकीलैश्च बिम्बानां यत्फ(द् ब)लार्थं तु योजयेत् ।
v3.c24.s69.15
आद्रवद्रव्य[संयुक्तं त]स्माद् दोषमेवं न विद्यते ॥ १८ ॥
v3.c24.s69.16
सर्वालङ्कारसंयुक्तं बेरं ग्रामप्रदक्षिणम् ।
v3.c24.s69.17
यजमानादि संवेक्ष्य सेव्यं तत्राचनं भवेत् ॥ १६ ॥
v3.c24.s69.18
तस्माद् देवतार्थं संप्राह्य चान्यग्रामे विलासयेत् ।
v3.c24.s69.19
पश्चात्तु शिल्पिशालाशु(लां) च बेरसेवं प्रशस्त(विश्य)ते ॥ २० ॥
v3.c24.s69.20
मानोन्मानप्रमाणेन शोभयेच्छिल्पि(ल्प)वित्तमः ।
v3.c24.s69.21
द्वित्र्यङ्गुला(लम)धिकं वाप
v3.c24.s69.22
ग्रामं प्रदक्षिणं कुर्यात्सर्वमङ्गलघोषशैः ।
शिल्पिशालां प्रविश्य(शान्ति) कारयेदुक्तवत्क्रमात् ॥ २५॥
तस्योपाङ्गविहीनं चेत्पुनः सन्तानकं भवेत् ।
शिरा वा मध्यकाये(यं) वा हीनं चेद् विसृजेत्पुनः ॥ २६ ॥
कर्तुंशिल्य्यचलं चित्तं कारयेत्पूर्ववद् भवेत् ।
चलं चित्तं न कुर्याच्चेत्स्थाननाशं धनक्षयम् ॥ २७॥
अनेकजन्मकृतं पुण्यं क्षिप्रमेवं विनश्यति ।
तस्मात्सर्वप्रयत्नेन पुत्रश्(पूतं) च कारयेत्सुधीः ॥ २८ ॥
v3.c24.s69.23
इति मानमारे वास्तुशास्त्रे मधूच्छिष्टविधानं नाम अष्टषष्टितमोऽध्यायः ॥