Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s69.1

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s69.1

Language
English

v3.c24.s69.1

बिम्बानां तु मधूच्छिष्टं(ष्ट)क्रियां सम्यग् वक्ष्यतेऽधुना ।
शैवं पाशुपतं चैव काला(ला)मुखं महाव्रतम् ॥ १ ॥
वामं च भैरवं चैव तन्त्रवत्(न्त्रोक्त)ज्योतिः षट्क्रमात् ।
अगस्त्यः काश्यपश्चैव भृगुर्गौतमभार्गवाः ॥ २ ॥
गालव इ(श्चे)ति ऋषयः प्रोक्ताः कर्षणाद्यर्च(दिरच)नार्थकम् ।
तत्तत्तन्त्रवशात्सर्वं कुर्यात् षट् संपदास्पदम् ॥ ३॥
तत्तत्तन्त्रविपरीतं चेद् विपत्त्यं(त्ति) नित्यमावहेत् ।
अनुक्तं तत्र तन्त्रैस्तु ग्राह्यं दोषो न विद्यते ॥ ४ ॥
विश्वकर्मा च विश्वेश(शः) विश्वसारं(रः) प्रबोधकः ।
वृतश्चैव मयश्चैव त्वष्टा चैव मनुर्नलः ॥ ५ ॥
मानविन्मानकल्पश्च मानसारो बहुश्रुतः ।
प्रष्टा च मानवोधश्च विश्वबोधो ना(न)यश्च तथा ॥ ६ ॥
आदिसारो विशालक्ष विश्वकाश्यप ए(श्चै)व च ।
वास्तुबोधो महातन्त्रो वास्तुविद्यापतिस्तथा ॥ ७ ॥
पाराशरीयकरचैव कालयूपो महाऋषिः(हर्षिश्च) ।
चैलाख्यः चित्रकः आ(श्रा)वय्यैः साधकसारसंहितः ॥ ८ ॥
भानुश्चेन्द्रश्च लोकज्ञः सौराख्यः शिल्पवित्तमः ।
तदेव(ते एव) ऋषयः प्रोक्ता द्वात्रिंशतिः संख्यया ॥ ६ ॥
तान् गोत्रवशाञ्ज्ञात्वा शिल्पि[नः] सर्वत्रयोग्यकम् ।
शुक्लपक्षेऽथवा कृष्णे सर्वमासेषु कारयेत् ॥ १० ॥
शुभयोगे सुनक्षत्रे सुमुहूर्ते सुलग्नके ।
मन्त्रवत्कारयेद् गर्भं(र्भं) स्थपतिस्थापकावुभौ ॥ ११ ॥