Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s71: नयनोन्मीलनलक्षणम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s71

Language
English

नयनोन्मीलनलक्षणम्

v3.c24.s71.1

देवानापि देवीनां भक्तानां नेत्रमोक्षणम् ।
लिङ्गानां लक्षणोद्धारं(नामुद्धारलक्षणं) बस्त्वादीनां यथाक्रमम् ॥ १ ॥
स्थपतिः प्रकृतिः प्रोक्तः स्थापको जीवमिष्यते ।
तस्मात्क्रियारम्भतः सह कुर्यात्तु संसदा ॥ २ ॥
एवं विधाय चान्येन बस्त्वादय(दीनि) कृतान्यपि ।
बस्तोर्वास्तोस्तु हानिः कर्तृनाशं भवेद् ध्रुवम् ॥ ३ ॥
किं सृजेन्नयनोन्मेषमन्धकारानुपत्तये ।
उदिते तु सहस्रांशौ यथा गच्छति समन्ततः ॥ ४ ॥
तथैवमक्ष्णानादि लोचनस्य जनस्य च ।
अन्तर्बहिश्च रागश्च अ(स्तु चा)र्थनाशं न संशयः ॥ ५ ॥
अकृत्वा नयनोन्मोक्षं चक्षु(क्षू)रोगो भवेद् ध्रुवम् ।
तस्मात्तु नयनोन्मोक्षलक्षणं वक्ष्यतेऽधुना ॥ ६ ॥
हर्म्ये वा मण्डपे वापि स्थपतिस्थापकावुभौ ।
स्थापनात्पूर्वके कुर्यादुक्तवदङ्कुरार्पणम् ॥ ७ ॥
पश्चात्तु सुमुहूर्ते च कुर्यान्नयनमोक्षणम् ।
प्रासादाभिमुखे चैव चोत्तरे वाथ दक्षिणे ॥ ८ ॥
नयनोन्मीलनं(न)यागमण्डपं कल्पयेत्सुधीः ।
नवहस्तं सप्तहस्तं पञ्चहस्तमथापि वा ॥ ६ ॥
चतुरश्रसमाकारं षोडशस्तम्भमेव च ।
द्वादशस्तम्भमेवं वा कूटं वाथ प्रपाङ्गकम् ॥ १० ॥
चतुर्दिक्षु चतुर्द्वारं चतुस्तोरणसंयुतम् ।
तन्मण्डपस्य मध्ये तु वेदिं कुर्यात्तु चोक्तवत् ॥ ११ ॥

v3.c24.s71.2

तदग्रे चाग्निकुण्डं स्याद् गोमयालेपनं भवेत् ।
विधानध्वजसंयुक्तं नानावस्त्रैश्च संयुतम् ॥ १२ ॥
पादानां समलङ्कृत्य कदली [तत्]फलैर्युतम्(तं च)।
परितश्चोर्ध्वदेशे तु रम्भामाल्यैरसङ्कृतम् ॥ १३ ॥
पुष्पमाल्यैरसङ्कृत्य रत्नैःसर्वैरसङ्कृतम् ।
पश्चात्तु शिल्पिभिः(नः) प्राज्ञाः कुर्यात्(र्युः) नयनमोक्षणम् ॥ १४ ॥
वेदिकापश्चिमे वाथ दक्षिणे वाथ नैर्ऋते ।
कल्पयेत्स्थण्डिलं वाथ दारु(नव)पीठमथापि वा ॥ १५ ॥
तदूर्ध्वे स्थापयेद् बिम्बं सकूर्चाद्यैरसङ्कृतम् ।
तत्पूर्वे शुद्धमाल्येन स्थण्डिलं मण्डलं न्यसेत् ॥ १६ ॥
तदूर्ध्वे स्थापयेद्धेमपात्रे नैशूंतल(त्यं) पूरितम् ।
क्षौमेनाच्छादनं कुर्यादन्तः कूर्चैरसङ्कृतम् ॥ १७ ॥
वेदिकोपरि शाल्येन कुर्यान्मण्डलं बुधः ।
पञ्चविंशत्पदं वाथ कल्पयेत्पीठमेव वा ॥ १८ ॥
दर्भैरास्तीर्य पश्चात्तु शुद्धतण्डुलरेखया ।
नानापुष्पैश्च लाजैश्च प्रोक्षयेच्छोभनार्थकम् ॥ १९ ॥
नवकुम्भे(म्भीर) नवैर्वापि पञ्चविंशति[भि]रेव वा ।
विधिवत्क्षालयेत्सर्वसूत्रैरावेष्टनं भवेत् ॥ २० ॥
शुद्धतोयेन संपूर्य वेदिकोपरि विन्यसेत् ।
मध्ये प्रधानकुम्भः स्यादन्ये क्रमात्समन्ततः ॥ २१ ॥
सर्ववस्त्रैश्च संवेष्ट्य सकूर्चाद्यप्रपल्लवान्(वैः) ।
सविधानफलं(लैश्च) चैव पुष्पमाल्यैरसङ्कृतम् ॥ २२ ॥
उपवेद्युपरि स्थाप्य चोक्तवच्चाष्टमङ्गलम् ।
पश्चात्तु शिल्पिभिः प्राज्ञैः पादप्रक्षालनं कुरु(क्रियेत) ॥ २३ ॥
विध्युक्ताचमनं कुर्यात्सकलीकरणं क्रमात् ।
पुण्याहं वाचयित्वा तु प्रोक्षयेत्प्रतिमादिकम् ॥ २४ ॥
ब्राह्मादीनां च देवानां तत्तत्स्वनाममन्त्रकैः ।
प्रणवादिन्मोऽन्तेन क्रमादाराधयेत्पुनः ॥ २५ ॥

v3.c24.s71.3

धूपदीपं ददे(द्या)त्प्राज्ञो मध्यकुम्भस्य मध्यमे ।
आराध्य गन्धपुष्पैश्च भुवनादिपतिं जपेत् ॥ २६ ॥
घृतगुल(ड)शाल्यदधि क्षीरान्नं वा निवेदयेत् ।
धूपदीपं ददे(द्या)त्ताम्बुलादि निवेदयेत् ॥ २७ ॥
दर्शयेद्धेनुमुद्रादीन् गीतादीन(दि)वृत्तघोषयैः ।
तदग्रे स्थपतिः प्राज्ञो होमं कुर्यात्ततः क्रमात् ॥ २८ ॥
समिदाज्यचरूं(रुं) लाजाप्रत्येकमष्टोत्तरशताहुतिः ।
शुद्धतोयेन सङ्ख्याया (ङ्ख्यया) पञ्चविंशतिरेव वा ॥ २६ ॥
हृल्लेखं बीजमुच्चार्य स्वाहान्तं प्रणवान्तकम् ।
बिम्बं गायत्रि(त्री)मन्त्रेण पूर्णाहुतिं च कारयेत् ॥ ३० ॥
अग्निकार्यावसाने तु विधिवद् बिम्बमाश्रयेत् ।
पुण्याहं वाचयित्वा तु ब्राह्मणैः सह घोषयैः ॥ ३१ ॥
रत्नशुद्धिं ततः कुर्याद् गन्धपुष्पैर्विचार्चयेत् ।
स्थपतिः प्रोक्षयेद् बिम्बं सर्वमङ्गलघोषयैः ॥ ३२ ॥
धूपदीपं दधे (द्या) त् पश्चाद् बिम्बं (न्वाय) गायत्रोमन्त्रतः ।
आराध्य गन्धपुष्पैश्च धेनुमुद्रां प्रदर्शयेत् ॥ ३३ ॥
नववस्त्रेण गोप्य(ङ्गं बिम्बस्य नेत्रमालिखेत् ।
सर्वान्विचित्रशाकेण (हस्तेन) स्पर्शयेत्त्वेकचित्तवत् ॥ ३४ ॥
अचिरंखां (खा) समालिख्य सव्येऽक्षि कृष्णमण्डलम् ।
ज्योतिर्मण्डलकं ध्यात्वा सौरमन्त्रं समुच्चरेत् ॥ ३५ ॥
पश्चात्तु वामनेत्रे तु शशिमन्त्रं समुच्चरेत् ।
ललाटे लोचनं ले(नमालि) ख्य अ(ख्या)ग्निबीजं समुच्चरेत् ॥ ३६ ॥
पश्चात्तु स्वर्णलिप्ये(लेपे)न पयसाज्येन लेपयेत् ।
ततः प्रच्छादनं कुर्याद् वत्सा(स्त्रा) ङ्ककनकः सह ॥ ३७ ॥
पायसं धनधान्यादिराशि दर्शयेत्पुनः ।
स्थपतिर्वस्त्रवेषाढ्यः प्राप्तपञ्चाङ्गभूषणः ॥ ३८ ॥
श्वेतानुलेपने लिप्य नववस्त्रोत्तरीयवान् ।
स्वर्णयज्ञोपवीतश्च शि(सि)तपुष्पशिवा (वः) शुचिः ॥ ३६ ॥

v3.c24.s71.4

स्वमूर्त्तिसव्यं वास्ये [प]व मूलकुम्भं तथोत्तरे ।
अन्य[त्तु] कुम्भानि सर्वाणि धारयेत् परिचारकैः ॥ ४० ॥
छत्रचामरसंयुक्तं सर्वमङ्गलघोषगैः ।
हर्म्यप्रदक्षिणां कुर्यात्त्वाध्यायाद्यैस्सह सह ॥ ४१ ॥
तद्विम्बं च समाश्रित्य सजलेनाभिषेचयेत् ।
अन्येन सर्वकुम्भानां जलेनोग्राह्यादि पूजयेत् ॥ ४२ ॥
एवं कुम्भान्परिषिच्य तत्तत्सूत्रं समुद्ध(त्त)रेत् ।
नानावस्त्रेषु संयुक्तं नानापुष्पैर लङ्कृतम् ॥ ४३ ॥
गन्धानुलेपना(नमा)लिप्य सर्वाभरणभूषितम् ।
धूपदीपं ददे(द्या)त् पश्चान्नृत्तगीतादिघोषयैः ॥ ४४ ॥
मूर्धादिप्राक्षपर्यन्तं मातृका[चा]चरं [च] न्यसेत् ।
पादादि मूर्ध(उर्ध्व) पर्यन्तं पर्यायादि सा(चा)चरं न्यसेत् ॥ ४५ ॥
अष्टत्रिशत्कलाः सर्वे(र्वाः) तत्तदङ्गानि विन्यसेत् ।
अङ्गपादैः करैर्वक्रं करणानि च विन्यसेत् ॥ ४६ ॥
पश्चात्तु मूलमन्त्रेण समभ्यन्तरपरायणाम्(णः) ।
आराध्य गन्धपुष्पैश्च धूपदीपं दधे(द्या)त्पुनः ॥ ४७ ॥
पश्चात्तु ताम्बुलादीनि नैवेद्यानि निवेदयेत् ।
ब्राह्मद्यै(द्या)श्चार्चतैः प्रोक्ष्य कुर्यात्तु स्वस्तिघोषयैः ॥ ४८ ॥
नृत्तगीतादिमुद्रै(द्वाभि)श्च दर्शयेच्छिल्पिवित्तमः ।
नयनोन्मीलनं प्रोक्तं पश्चाद् धामप्रवक्ष्यिम् ॥ ४९ ॥
अक्षयोद्धारमेवोक्तमुक्तवद् रेखया लिखेत् ।
प्रतिमां(मा) लोहजं(जा) प्रोक्तं(क्ता) तथा रत्नं तु विन्यसेत् ॥ ५० ॥
शिलारिङ्गं तु बिम्बानां यत्तत्कर्मावसानके ।
स्थापनात्पूर्वकं रत्नं(त्न)विन्यासं कारयेद् बुधः ॥ ५१ ॥
पीठं तस्य च मध्ये तु नवकोष्ठं प्रकल्पयेत् ।
पद्मरागं तु तन्मध्ये वज्रं चेन्द्रवद्(पदे) न्यसेत् ॥ ५२ ॥
प्रवालं चाग्निकोष्ठे तु महानीलं यमे तथा ।
वैदूर्य न्यसेन्नैर्ऋत्ये मरतकं पश्चिमे तथा ॥ ५३ ॥

v3.c24.s71.5

वायव्ये पुष्परागं च मौक्तिकं तु कुबेरके ।
इन्द्रनीलं तु ई(शे)शे तु विन्यसेद् विधिवित्तमः ॥ ५४ ॥
स्थपतिः स्थापकश्चोभौ स्थापयेद् बिम्बलिङ्गकम् ।
एवं तु रत्नविन्यासं शेषमङ्गं यथोक्तवत् ॥ ५५ ॥

v3.c24.s71.6

हृदयकमलमध्ये दीपवत्तत्परं स्यात् ।
कमलजहरिहरादिदेवतानां च सर्वम् ॥ ५६ ॥
विधिमिह सकलरूपं च चक्षुरुन्मीलनं च ।
कृतिमिति र(चा)खिलमुक्तं मानसारं पुराण्यैः ॥ ५७ ॥

v3.c24.s71.7

पितामहेन्द्रप्रमुखैः समस्तैः
देवैरिदं शास्त्रवरं पुरोदितम् ।
तस्मात्समुद्धृत्य हि मानसारम्
शास्त्रं कृतं लोकहितार्थमेतत् ॥ ५८ ॥

v3.c24.s71.8

इति मानमारे वास्तुशास्त्रे नयनोन्मीलनलक्षणविधानं नाम सप्ततितमोऽध्यायः ॥

v3.c24.s71.9

मानसारं सम्पूर्णम् ॥

Linked texts (1)