Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s71.1

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s71.1

Language
English

v3.c24.s71.1

देवानापि देवीनां भक्तानां नेत्रमोक्षणम् ।
लिङ्गानां लक्षणोद्धारं(नामुद्धारलक्षणं) बस्त्वादीनां यथाक्रमम् ॥ १ ॥
स्थपतिः प्रकृतिः प्रोक्तः स्थापको जीवमिष्यते ।
तस्मात्क्रियारम्भतः सह कुर्यात्तु संसदा ॥ २ ॥
एवं विधाय चान्येन बस्त्वादय(दीनि) कृतान्यपि ।
बस्तोर्वास्तोस्तु हानिः कर्तृनाशं भवेद् ध्रुवम् ॥ ३ ॥
किं सृजेन्नयनोन्मेषमन्धकारानुपत्तये ।
उदिते तु सहस्रांशौ यथा गच्छति समन्ततः ॥ ४ ॥
तथैवमक्ष्णानादि लोचनस्य जनस्य च ।
अन्तर्बहिश्च रागश्च अ(स्तु चा)र्थनाशं न संशयः ॥ ५ ॥
अकृत्वा नयनोन्मोक्षं चक्षु(क्षू)रोगो भवेद् ध्रुवम् ।
तस्मात्तु नयनोन्मोक्षलक्षणं वक्ष्यतेऽधुना ॥ ६ ॥
हर्म्ये वा मण्डपे वापि स्थपतिस्थापकावुभौ ।
स्थापनात्पूर्वके कुर्यादुक्तवदङ्कुरार्पणम् ॥ ७ ॥
पश्चात्तु सुमुहूर्ते च कुर्यान्नयनमोक्षणम् ।
प्रासादाभिमुखे चैव चोत्तरे वाथ दक्षिणे ॥ ८ ॥
नयनोन्मीलनं(न)यागमण्डपं कल्पयेत्सुधीः ।
नवहस्तं सप्तहस्तं पञ्चहस्तमथापि वा ॥ ६ ॥
चतुरश्रसमाकारं षोडशस्तम्भमेव च ।
द्वादशस्तम्भमेवं वा कूटं वाथ प्रपाङ्गकम् ॥ १० ॥
चतुर्दिक्षु चतुर्द्वारं चतुस्तोरणसंयुतम् ।
तन्मण्डपस्य मध्ये तु वेदिं कुर्यात्तु चोक्तवत् ॥ ११ ॥