Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c25.42

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c25.42

Language
English

v3.c25.42

तदर्थं च मानञ्च द्विभागं चरणोदयम्
तदर्थं प्रस्तरोत्सेधं तत् समं गलमुच्यते
गुणांशं शिखरोत्सेधं शिखामानं शिवांणकम्
चतुर्भूमिस्समाख्यातं पञ्चभूमिमथोच्यते ।
शिखान्तं तूत्तरादिश्च त्रयोविंशतिभागया
द्विभागं प्रस्तरोत्सेधं सार्धद्वयांध्रि तुंगकम् ।
तदर्थं मञ्चमानं तु त्रिभागं चरणोदयम् ।
तस्यार्थे(र्धं) प्रस्तरोत्सेधं चरणस्योर्थे(र्धे) पक्षकं
तदर्थं(र्धं) मञ्चमानं तु पादतुंग द्विभाजि(जि)ते
प्रस्तरोदञ्चं(चं) शिवांशेन कन्धरोञ्चं शिवांशकम्
सार्थद्वयंशं शिरस्तुंगं शेषमेकं शिखोदयम् ।
पञ्चभूमिस्समाख्यातं रसभूमिमथोच्यते
हस्तभादिशुमाख्यातं भाय्यादिशुभसंख्यया
एकादिपञ्चभूम्यान्तं वक्ष्ये संशिल्पशास्त्रतः
त्रिचतुर्हस्तमारभ्य नवपङ्कति विस्मृतम्
सप्तादशकराजैवं द्वितलादि विमानकम्
तारे सप्तदशोत्सेधं अन्यर्थे तु त्रिपादकम्
द्विगुणं तु तदुत्सेधं शान्तिकमे पौवृकमानथा
घयदं चाद्भुतं चैव चतुर्थोदयमीरितम्
चतुरं वृत्तमायामं द्व(द्वय) श्रवृत्तं षडश्रकम्
अष्टाश्रममाकृतिरथोष्टां शिखरेवत तथैव च ।
समन्त्रिपादमर्धं वा मुखमण्डपमिष्यते
समन्तमण्डपं यस्या शान्तगलकम संवेशकम्
एकहस्तद्विहस्त प्रासादांशांशमेव वा
अन्तलय्य विस्तारं द्विदण्डम् तस्यवेशनम्
युग्मस्तंभसमायुक्तं युक्तया सर्वांगशोभितम्
सावकाशान्तरालं चेतद्वित्रिहस्तारं तु वा
पार्श्वे सोपानसंयुक्तं हस्त हस्त विभूषितम्
धर्मे कुष्ठ्यार्थिकं तत् समं पापाद्रूनवाभि········