Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c25.58
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c25.58
- Language
- English
v3.c25.58
शुक्लांवरधरं विष्णुं उपशान्तये
श्यामां ध्रुतिमतिं ध्यात्वा सहासोमाल्यभूषणम्
प्रसन्नवदनां पद्मपत्रामनयनत्रयाम् ।
ॐ मह्यं वागीश्वराय नमः । ॐगुरुभ्यो नमः ॥
यावत् प्रासादविस्तारं तत्तत् दण्डमिवाच्यते
कृत्वा चतुष्पदं मूलं प्रासादस्य तु विस्मृ(स्तृ)तम्
चतुरथ्रीकृते तेनामुखायामीतो ह्यतः ।
पादाधिकं यावान्यर्थं पादूर्न तु मथापि वा
द्विगुणं द्विगुणार्थे(र्धे) वा त्रिगुणं वा चतुर्गुणम् ।
मुखायामंमितिप्रोक्तं प्राकाराणां विशेषतः ।
मूलहर्म्यंसमारभ्य षडष्टादण्डमानतः
दशद्वादशदण्डैर्वा मनुदण्डावसानवम्
षोडशाष्टदशैर्वाथ महापीठं प्रयोजयेत् ।
प्राकारद्वारं सर्वेषां कल्पयेत् वृषमालयम्
वृषभस्य परभागे तु कल्पयेत् बलिपीठकम्
गोपुरस्य बहिनापि च अन्तर्या बलिपीठकम्
प्रासाददण्डमानेन एकं द्वित्रित्रिदण्डकम्
गोपुरात् बलीपीठान्तं च अन्तरं मानयेत् सुधीः
एकद्वित्रिचतुष्पञ्चहस्तं पीठविशालकम् ।
प्रासादार्थे(र्धं) त्रिभागैश्व पञ्चभागं त्रिभागिक
अथवा द्वित्रिभागं स्यात् पीठविस्तारमेव च ।
उपानादि स्थूपिपर्यन्तं चाष्टाविंशति भाजयेत्
आधारोऽश्वं गुशांशस्स्यात् पादतुंगं षडंशकम्
द्वयं(द्वां)शं प्रस्तरोचे(च्छे)दं चोर्ध्वं(र्ध्व)पादं शरांशकम्
तदूर्ध्वंद्विपादसञ्चोध्व एकांशं वेदिकोदयम्
तद्ध्वं कन्धरोच्चेवदं वेदांशं शिखरोदयम्
तदूर्ध्वं स्थूपि युष्मांशं तुंगं तु परिकल्पयेत्
एकादिपञ्चभूम्यान्तम् तारेोत्सेधास्यलक्षणम् ।
द्वित्रिहस्तं समारभ्यां द्वित्रिहस्तविवर्धनात
द्वित्रिवन्तिकराक्षान्तं षष्मासं चाल्यहर्म्यके ।
एकभूम्यस्य विस्तारं द्वितलस्य कुरुव्यते
चतुष्पञ्चकराभ्यां च द्वित्रिहस्त विवर्धनात् ।
गर्वत्रयोदशहस्तान्तं पञ्चमानं द्विभूमिके ॥
पञ्चषड्करमारभ्य द्वित्रिहस्तविवर्धनात्
तिथिषोडशहस्तान्तं पञ्चभूम्यां च विस्तरम् ।
पञ्चभूम्यां च विस्तारं हस्तमेदं भिदं परम्
अथवा हस्तमूर्ध्वे तु पादहस्तविवर्धनात्
अर्धंत्रिपादहस्तं तु मानमेयं प्रकल्पयेत्
एकादिपञ्चभूम्यान्तं माने पादादिहस्तयोः
जातिश्चन्द्रविकल्पं च मामाजं चतुर्विधम्
जाता च पूर्णहस्तं च त्रिपादच्छन्दसंयुतम्
अर्धहस्तविकल्पं च पादहस्तमपादकम्
एते चतुर्विधं प्रोक्तं हस्तेन द्वे समानकम्
धायविस्तारमेवोक्तं योजयेत् बुधं वरान्
तन्मानं योजयेत् धीमान् आयादो योजयेत् बुधः
आयादिशविधं प्रोक्तं अथवा षट्बिधरुच्यते
आयादिसुष्ठितन्मानं सर्वसंपत्समृद्धिदम्