Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c25.8
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c25.8
- Language
- English
v3.c25.8
त्रिपट्टमर्धभागेन प्रसु(त्यु)क्षमेकभागय
अर्धांशंवाजनोत्सेधस्कंध्वकांतमुदाहृतं
उपानोच्छं द्विभागेन कंपमेकेन कारयेत्
षडांशकमलोच्छं तु व्योमांशं गलमानकं
शिवांक्षं पद्मत्तुंगं तु भूतांशं तु गलोदयं
पद्ममर्धोशमित्युक्तं कंपमेकेन कारयेत्
कंठतुंग युमांशं तु योमांशं वेत्रमानतुगंकं
तत्सममंबुजोत्सेधं पट्टिकोच्छ्रं गुणांशकं
पद्ममंशेन कर्त्तव्यं कंपमेकेन कारयेत्
अष्टाविंशतिभागेन सुंदरंधुजमीरितं
तदधटं वृत्तरूपं स्यात्तुरगासनमेवहि
धरातलोच्छसप्तांशे द्विभागं विप्रमानकं
शुणांशं गलमाने तु पट्टांशं पट्टिकोक्तयं
भद्रबंधमितिप्रोक्तं सप्तविंशतिभागय
उपानोच्छं द्विभागेन जगत्युच्छं रसांशकं
पङ्कं कुमुदोच्चं तु कंपमंशेन कारयेत्
कंठतुंगयुगांशीकं पद्ममंशेन कारयेत्
पद्ममर्धे (यैं)न कर्त्तव्यं कपोतोच्छं द्वितीयकं
कंपमंशेन कर्त्तव्यं त्रिपट्टमेकभागय
प्रतिहं तृतियंशेन अर्धांशं वाजनोदयं
सप्तविंशतिभागेन कुंभबंध प्रकीर्तितं
द्वियांशं पादुकोत्सेधमधात्वांशं विप्रमानकं
कंठमेकेन कर्त्तव्यं ऊर्ध्वपद्म शिवांक्षकं
गुणांशकं घटमाने तु पद्ममानं शिवांक्षकं
कंपमेकेन कर्त्तव्यं गुणांशं गलमानकं
कंपमेकेन कर्त्तव्यं पद्मं तत्सममुच्यते
कपोतष्टं गुणांशं स्याद्वानिर्मकेरुभागय
पंचविंशतिभागेन कर्तव्यं यध्वजं प्रशस्यते
ततो वा वृत्तभागं स्याच्चक्रवंधीमति स्मृतं
अंशावार्ध त्रिपादं वा शोमा बाला समन्वितं
न्यूने वा वधिकं वा पियोत्तु न दोषक्तं
पादबंधमधिष्टानं दिग्विदिकूषु प्रकल्पयेत्
कल्पयेदष्टरात्रौ तु प्रतिबंघममूरकं
अन्योन्यासंकरें चेत्तु कर्ता मरणमाप्नुयात्
तस्मात् सर्वप्रयत्नेन संकरें न समाचरेत्
पंचप्रकार बाह्ये तु संकरें न च दोषभाक्
वृत्तकुंभसमायुक्तं प्रतिवेधममूरकं
वज्रगर्भं कुमुदोपेतं विप्रवैद्यमिति स्मृतं
वर्गेन संकरें कुर्यादशुभं विपरीतकं
तदा कोष्टादिमानं तु संकरें शुभदं भवेत्
जगतेति प्रमाणं यत् कुंभं निजं प्रकल्पयेत्
चतुरभागीकभागं वा अर्धं वा कंपनिब्रकं
उत्सेधसमनोत्रं वा द्विगुणं वाजनिम्बकं
तन्त्रिपादसमावार्ध महावाजननोव्रकं
अधिष्ठानक्रमे प्रोक्तं शृणु नालस्य लक्षणं
एकहस्तं समारभ्य त्र्यंयंगुलविवर्धनात्
सप्तमानावसानं यत् तद्वाह्यो तु निर्गमं
तदायामं त्रिधा कृत्वा व्योमांशं मूलविस्तरम्
तच्चतुर्थाशहीनं यत् अग्रतारं प्रकल्पयेत्
अग्रतारसमं बाथ त्रिपादं चाथ चोदयं
मूलातारोदयं मूलं सिंहवक्त्रेण घट्टितं
विस्तारस्य त्रिभागीकं मध्ये नोलं प्रकल्पयेत्
अत्र वर्धै समायुक्तं ………………श्ववकरमाइंडशं
पन्नपुष्पसमायुक्तं सर्वालंकारसंयुक्तं
भित्तिप्तारत्रिभागैकमथवाऽष्टांगुलाधिकं
संकल्य्य विधियुक्तेन स्थापयेत्कोष्ठमध्यमे
नाललक्षणमेवोक्तं स्तंभायाने विवि शृणु
प्रासादस्यांशमानेन स्तंभमानं प्रकल्पयेत्
कोष्टमाने चतुविशदेकांशं पादविस्तृतं
त्रिचतुष्पंचमात्रं वा भित्तिपादस्य विस्तृतं
चतुरंगुलमारेभ्यांगुलांगुलवर्धनात्
न ………… पादांगुलभवात् कलाभूम्यावसानकं
भित्तिमानस्य विस्तारं क्रमेण परिकल्पयेत्
तदष्टांशीनमन्र्रे तु युगाश्रं ब्राह्मकांतकं
अष्टाश्रं विष्णुकान्तं स्यात् पडाश्रं स्कांदकांतिकं
आमूलताग्रपर्यंतं मानाश्रं भानुकांतकं
अध्रादिमूलपर्यंतमिन्द्रकांतमिति स्मृतं
सर्वांगवृत्तरूपं यत् इंद्रकांतमुदीरितं