Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c25.97
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c25.97
- Language
- English
v3.c25.97
प्राक्संनिष्ठापमतेऽवलम्ब-
भक्तं तथा याम्यपलाङ्गुलं च ।
तयोः सदिक्त्वे युतिरन्यथा तु
भेदः प्रभा बाहुसमाद्वयः स्यात् ॥ ९ ॥
शङ्कोरर्धमिताङ्गुलस्ततु मवाच्छाद्य श्रुतिं भामुजां
नीत्वा भामुजविस्तारार्धंकवृतिं कायाप्र-
केन्द्रां लिखेत् ।
भामूलाद् वृतियाद्वैयुग्मकलिते रखे तथा
भामुजादिग्मा प्राच्यपरा तयोरथ ततो-
ऽन्याश्चेति वा दिक्स्थितिः ॥ १० ॥
प्रागग्रं सूत्रमूर्ध्वाग्रसुतरमभिकल्प्यास्य मूलाप्र-
नाभ्यां
सूत्राभ्यां मत्स्ययुग्मं यमशशिहरितोः कल्पयि-
त्वात्र सूत्रम् ।
कृत्वा दिक्षड्ढयित्वा सममिह निहितैः सूत्रकैः
कोष्ठमत्स्यान् कृत्वास्याल्लेख्य सूत्रं रच-
यतु चतुरश्रं पुरः क्षेत्रक्लृप्तौ ॥ ११ ॥
सूत्रे प्रागुदगप्रके क्षितितले कृत्वा चतुःखण्डिते
मण्ड्डे कल्पयतु द्विजादिवसति शार्त्रेऽथवा
नैऋते ।
खण्डेऽस्मिन् सति सम्भवे पुनरपि श्रुत्यंशिके
ब्रह्मसूत्राभ्याशे शुभवास्तुबोधिपदयोश्चाद्यं
पुनश्छाद्येत् ॥ १२ ॥
नन्दद्वन्द्वपुटे नवावृतितया मध्येऽस्य बाह्यान्तिमे
वीथ्यः स्युः परितः पिशाचदिविषद्धिस्ता-
त्रिभूदण्डिनाम् ।
नागाम्भोधि विनायकद्रुहिणनाम्नो चासु
निन्द्याः स्मृताः पैशाचान्यबहिर्द्विखनां
गृहविधौ वीथ्यश्चतुर्दिक्ष्वपि ॥ १३ ॥
गोवह्निप्रेतभूताम्बुनागेभधनसंज्ञिताः वीथ्यः
प्रागादिनोक्तत्वात् क्रमाद् वास्तोः प्रको-
तिताः ।
अग्निकोणादिगाः पञ्च सामान्येनाशुभाः
स्मृताः ॥ १४ ॥
मध्ये चावरसद्वये शतपदेऽष्ट्यष्टाभियुग्मैकके-
रंकाशीतिपदे पदैर्नवरसात्सन्द्रचन्द्रै-
रपि ।
क्षेत्रेऽष्टाष्टपदेने ऽश्विदलयुग्मैरर्ध चन्द्राश्विभि-
र्वास्तवङ्गह्वसुपवेणां पदविधिस्त्रेधा त्रिप-
श्चाशताम् ॥ १५ ॥
ईशानां बहिरावृतिस्थपदकेष्वोशानपर्जन्यका-
वेन्द्रान्द्रौ रविसत्यकौ भृशमहव्याशांस्तथा
पूषणम् ।
भूयो वै वितथं गृहक्षतयमा गन्धर्वभृङ्गौ मृगं
पित्राख्यान् प्रतिहारपालमपि सुग्रीवं
क्रमात् कल्पयेत् ॥ १६ ॥
भूयः पुष्पादिवन्तं वरुणमसुरशोषाख्यरोगांर-
नागान् मुख्यं भल्लाटमिन्द्वर्गळमदितिदिती
चेति बाह्यावृत्तिस्थाः ।
ईशाद्यापापवत्सार्यकसंवितृसावित्रसंज्ञा वि-
वस्वानिन्द्राख्यश्चेन्द्रजिन्मित्रकशिवशिव-
जिद्भूभृतोऽन्तर्वृत्तस्थुः ॥ १७ ॥
ब्रह्म्रामन्यपदेश्य शर्वेसहितः स्कन्दोऽर्यमा
जम्भकः प्रागादौ पिलिपिञ्छकश्च चरकी-
श्वादौ विदार्योद्वयाः ।
भूयः पूतनिकाय पापपदपूर्वा राक्षसी बाह्यत-
श्चैतेऽष्टावपदस्थिताश्च परितो देवग्रहाद्याः
क्रमात् ॥ १८ ॥
नाड्याः प्रागुद × × कादश दर्शकाशीति
कोष्ठे शिवाग्न्यप्राः पञ्च पृथङ्नवाभिगु-
णकोष्ठशास्तथा रक्तवः ।
मर्माख्यषट्सप्तागुणाब्धिगुणसंख्यानैककोष्ठस्थि-
तैः सूत्रैर्योगसमुद्भवानि तु शतं वर्ज्यानि
कुष्यादिषु ॥ १९ ॥