Studies in Indian Art c13.s4.26
Studies in Indian Art c13.s4.26
- Language
- English
c13.s4.26
अथेश्वर जटाजूटादाविरासीद् गणो महान् ।।३६।।
त्रिआन नस्त्रिचरणस्त्रिपुच्छः सप्तहस्तवान् । स च कीर्तिमुखो नाम पिंगलो जटिलो महान् ।।३७।।
तं दृष्ट्वा च कपालाली भयात्तस्थौ मृतेव सा । पुरतः प्राह सगणस्ततः कीर्तिमुखः प्रभुम् ।।३८।।
प्रणिपत्य शिवं देवमत्यर्थं क्रोधितः प्रभो । तदोक्तः शंकरेणास भक्षयत्वं रणे हतान् ।।३९।।
क्षणं विचार्य सगणः क्वाप्यदृष्ट्वा रणं तदा । ब्रह्माणं भक्षितुं प्राप्तः शंकरेण निवारितः ।।४०।।
ततः कीर्तिमुखेनाथ स्वांगं सर्वं च भक्षितम् । भुक्षितेन चात्यन्तं निषिद्धेन च सर्वतः ।।४१।।
तत्साहसं तदा दृष्ट्वा भक्तितं कीर्तिमुखस्य च । तमुवाचेश्वरः प्रीतः प्रासादे तिष्ठ मे सदा ।।४२।।
त्वच्चित्तरहितो यश्च भविष्यति ममालये । स पतिष्यति शीघ्रं हीत्युक्तः सोऽन्तर्हितोऽभवत् ।।४३।।
(Padma Purāṇa, Uttara Khaṇḍa, ch. 11).
Cites (1)
- Padmapurāṇa — Vyāsa, Sanskrit