Town Planning in Ancient India c15.13
Town Planning in Ancient India c15.13
- Language
- English
c15.13
¹ द्वीपान्तरागतवस्तुभिरभियुक्तां सव्वजनसहितम् । क्रयविक्रयकेयुक्तां रत्नधनधान्यवस्तुआढ्यम् ॥ २८ सागरवेलाभागे तदनुगतायामि पत्तनं प्रोक्तं । मयमतं दशमोऽध्यायः । क्रयविक्रयसंयुक्तमसितौरसमाश्रितं । देशान्तरगतजनैर्नानाजातिभिरन्वितम् ॥ पत्तनं तत् समाख्यातं वैश्यैरध्युषितं तु यत् । मानसारे नवमोऽध्यायः । पत्तनसंज्ञं तद्वत् पोतान्वितवारिधितटोपेतम् । १७।२ मनुष्यालयचन्द्रिका । पत्तनं शकटैर्गम्यं घाटिकैर्नाभिरैव च । नौभिरैव तु यद्गम्यं पत्तनं तत्प्रचक्षते ॥ इति रायसवीय सूत्रव्याख्याने—प २०६ कौटिल्यार्थशास्त्रे पण्डितश्यामशास्त्रिधृतवचनम् ।
Linked texts (4)
- Mānasāra — Sanskrit
- Kauṭilīya Arthaśāstra — Kauṭilya, Sanskrit
- Mayamata — Maya, Sanskrit
- Manuṣyālayacandrikā — Tirumaṅgalattu Nīlakaṇṭhan Mūssatu 1500, Sanskrit