Elements of Hindu Iconography v2.c16.s2.t2.4
Elements of Hindu Iconography v2.c16.s2.t2.4
- Language
- English
v2.c16.s2.t2.4
* महादेवं प्रवक्ष्यामि यथा लेख्यस्स भित्तिषु ।
शुक्लोऽर्करश्मिसङ्काशस्तप्सवर्णनिभोऽपि वा ॥
उन्नतांसो महाबाहुः कमलायतलोचनः ।
द्वीपिचर्मपरीधानवृत्तण्धो(?) रुमण्डलः ॥
केयूरहारसंपन्नः कटिसूत्रत्रयान्वितः ।
नवेन्दुकलिता(का?)कान्तनवजूटविराजितः ॥
भ्राजितः फालनेत्रेण नागाभरणभूषितः ।
अष्टवत्सरदेशीयो नीलकण्ठो मनोहरः ॥
कुण्डली पीनगण्डस्त्यादष्टभिर्बाहुभिर्युतः ।
दशभिर्बाहुभिर्वाथ भुजैषोडशभिः क्वचित् ॥
अष्टादशभुजं वापि चतुर्बाहुरथापि वा ।
ते शस्त्राणि प्रवक्ष्यामि भुजेषु च यथाक्रमम् ॥
अक्षमालामासिं शक्तिं दण्डं शूलं च दक्षिणे ।
खट्वाङ्गं भुजं चैव कपालं खेटकं तथा ॥
परुणं (हरिणं ?) च तथा हस्ते वामभागे निवेशयेत् ।
गजासुरवधेनाढ्ये बाहुभिर्दशभिर्युतः ॥
पुरत्रयस्य दहने भुजैषोडशभिर्युतः ।
बाणं चक्रं गदां चैव दक्षिणेऽभ्यधिकं भवेत् ॥
धनुश्चैव तथा घण्टा शङ्खं वामेऽधिकं भवेत् ।
दशपूर्वा भुजाः प्रोक्ता षोडशैवं निरूपिताः ॥
स्व(?)श्च भैरवाकारे बाहवोऽष्टादश स्मृताः ।
डमरुं च तथा शङ्खमधिकं तु प्रकल्पयेत् ॥
त्रिशूलं डमरुं चैव वरदं चाक्षमालिकाम् ।
चतुर्बाहोर्महेशस्य शान्तमूर्तेस्समालिखेत् ॥