Pramāṇa · Search · About · API

Elements of Hindu Iconography v3.c18.7

Elements of Hindu Iconography v3.c18.7

Language
English

v3.c18.7

* एकचक्रं सप्तअश्वं ससारथिं महारथम् ।
हस्तद्वयं पद्मधरं कञ्चुकम्मर्वक्षसम् ॥
अकुञ्चितसुकेशस्तु प्रभामण्डलमाण्डतम् ।
केशवेशसमायुक्तं स्वर्णरत्नविभूषितम् ॥
निक्षुभा दक्षिणे पार्श्वे वामे राज्ञी प्रकीर्त्तिता ।
सर्वाभरणसंयुक्ता केशहारसमुज्ज्वला ॥
एवमुक्तरथस्तस्य मकरध्वज इष्यते ।
मकुटञ्चापि दातव्यमन्यत् सर्वं समण्डलम् ॥
एकवक्त्राङ्कितो दण्डस्कन्दस्तेजोकराम्बुजम् (?) ।
कृत्वा तु स्थापयेत् पूर्वं पुरुषाकृतिरूपिणौ ॥
हयारूढस्तु (न्तु ?) कुर्वीत पद्मस्थं वार्चनामकम् ।
सदीव्यमानवपुषं सर्वलोकैकदीपकम् ॥
जातिहिङ्गुल्यसंस्थाप्य (?) कारयेत् सूर्यमण्डलम् ।
चतुर्बाहुर्द्विहस्तो वा रेखामणिविभाजना ॥
द्विहस्तस्थसरोजन्म शबलाश्वरस्थितः ।
दण्डश्च पिङ्गलश्चैव द्वारपालौ च खङ्गिनौ ॥