Pramāṇa · Search · About · API

Elements of Hindu Iconography v3.c18.9

Elements of Hindu Iconography v3.c18.9

Language
English

v3.c18.9

∗ एकचक्रं सप्तअश्वं ससारथिं महारथम् । हस्तद्वयं पद्मधरं कञ्चुकम्मर्वक्षसम् ॥ अकुञ्चितसुकेशस्तु प्रभामण्डलमाण्डतम् । केशवेशसमायुक्तं स्वर्णरत्नविभूषितम् ॥ निक्षुभा दक्षिणे पार्श्वे वामे राज्ञी प्रकीर्त्तिता । सर्वाभरणसंयुक्ता केशहारसमुज्ज्वला ॥ एवमुक्तरथस्तस्य मकरध्वज इष्यते । मकुटञ्चापि दातव्यमन्यत् सर्वं समण्डलम् ॥ एकवक्त्राङ्कितो दण्डस्कन्दस्तेजोकराम्बुजम् (?) । कृत्वा तु स्थापयेत् पूर्वं पुरुषाकृतिरूपिणौ ॥ हयारूढस्तु (न्तु ?) कुर्वीत पद्मस्थं वार्चनामकम् । सदीव्यमानवपुषं सर्वलोकैकदीपकम् ॥ जातिहिङ्गुल्यसंस्थाप्य (?) कारयेत् सूर्यमण्डलम् । चतुर्बाहुर्द्विहस्तो वा रेखामणिविभाजना ॥ द्विहस्तस्थसरोजन्म शबलाश्वरस्थितः । दण्डश्च पिङ्गलश्चैव द्वारपालौ च खङ्गिनौ ॥