Pramāṇa · Search · About · API

Elements of Hindu Iconography v3.c22.s5: वैष्णवमूर्त्यन्तराणि ।

Elements of Hindu Iconography v3.c22.s5

Language
English

Contents

वैष्णवमूर्त्यन्तराणि ।

v3.c22.s5.1

वैष्णवमूर्त्यन्तराणि ।

v3.c22.s5.2

दत्तात्रेयः ।

v3.c22.s5.3

मन्दारमूले मणिमण्डपस्थितं सुवर्णदानैकनिबद्धदीक्षम् । ध्यायेत्परीतं नवनाथसिद्धैर्द्रिदावानलकालमेघैः ॥

v3.c22.s5.4

व्याख्यामुद्रां करसरसिजे दक्षिणे संदधानो जानुन्यस्तावरकरसरोजातवामोन्नतांसः । ध्यानाधारात्सुखपरवशादधर्मामीलिताक्षो दत्तात्रेयो भसितधवलः पातु नः कृत्तिवासाः ॥ (दत्तात्रेयकल्पे ॥)

v3.c22.s5.5

वाल्मीकिरूपं सकलं दत्तात्रेयस्य कारयेत् । (विष्णुधर्मोत्तरे ॥)

v3.c22.s5.6

हरिहरपितामहः ।

v3.c22.s5.7

एकपीठसमारूढमेकदेहनिवासिनम् । षड्भुजं च चतुर्वक्त्रं सर्वलक्षणसंयुतम् ॥

v3.c22.s5.8

अक्षमालां त्रिशूलं च गदां कुर्याच्च दक्षिणे । कमण्डलुं च खट्वाङ्गं चक्रं वामभुजे तथा ॥

v3.c22.s5.9

(रूपमण्डने ॥)

v3.c22.s5.10

पुरुषः ।

v3.c22.s5.11

प्राच्यां पूरुषं प्राङ्मुखं श्वेताभं पीतवाससं श्रीमेदिनीभ्यां संयुक्तं पुरुषं पुरुषात्मकं परं पुरुषं धर्ममयमिति ।

v3.c22.s5.12

कपिलः ।

v3.c22.s5.13

आग्नेय्यां कपिलं प्राङ्मुखं श्वेताभोऽष्टहस्तो दक्षिणेक मभय- मन्यच्चक्रासिहलधरो१ वामेनैकं कव्यवलम्बितमन्यच्छङ्खपाशदण्डधरो रक्तवासास्सावित्रीयुक्तं कपिलं मुनिवरं शुद्धं वेदरूपिणमिति ।

v3.c22.s5.14

(वैखानसागमे ॥)

v3.c22.s5.15

प्रद्युम्नं विद्धि वैराग्यात्कापिलीं तनुमास्थितः२ । मध्ये तु करकः कार्यस्तस्योत्सङ्गतः परः ॥

v3.c22.s5.16

दोर्युगं चापरं तस्य शङ्खचक्रधरं भवेत् । पद्मासनोपविष्टश्च ध्यानसंमीलितेक्षणः ॥

v3.c22.s5.17

कर्तव्यः कपिलो देवो जटामण्डलमण्डितः । वायुसंरोधपीनांसः पद्माङ्कचरणद्वयः ॥

v3.c22.s5.18

१. अन्यैर्हस्तैश्चक्रासि हलधर इत्यर्थः । २. एतत्पद्यार्धात्परमर्धेनैकेन विच्छिन्नेन भवितव्यमिति संभाव्यते ।

v3.c22.s5.19

मृगाजिनधरो राजन्! इमश्रयज्ञोपवीतवान् ।
विभुर्मन्महमपद्मकालिकासंस्थितः प्रभुः ॥
वैराग्यभावेन महानुभावो ध्यानस्थितस्त्वं परमं पदं तत् ।
ध्यायंस्तथास्ते भुवनस्य गोप्ता साङ्ख्यप्रवक्ता पुरुषः पुराणः ॥

v3.c22.s5.20

(विष्णुधर्मोत्तरे ॥)

यज्ञमूर्तिः ।

v3.c22.s5.t1.1

नैरृत्यां पश्चिममुखस्तप्तचामीकराभश्चतुःशृङ्गो द्विशीर्षस्सप्तहस्त- श्शङ्खचक्राज्यदर्वीस्रुक्स्रुवजुहूपधरस्त्रिपादो रक्तवस्त्रस्सर्वाभरणभूषितो दक्षिणवामयोस्स्वाहास्वाधायुक्तो यज्ञो, यज्ञेशं सर्वदेवमयं पुण्यं सर्व- क्रतुवरमिति ।

v3.c22.s5.t1.2

(वैखानसागमे ॥)

व्यासः ।

v3.c22.s5.t2.1

कृशः कृष्णतनुर्व्यासः पिङ्गलोऽतिजटाधरः ।
सुमन्तुजैमिनिः पैलो वैशम्पायन एव च ॥
तस्य शिष्याश्च कर्तव्याश्चत्वारः पारिपार्श्वकाः ॥

धन्वन्तरिः ।

v3.c22.s5.t3.1

धन्वन्तरिस्सुकर्तव्यस्सुरूपः प्रियदर्शनः ।
करद्वयगतश्चास्य सामृतः कलशो भवेत् ॥

जलशायी ।

v3.c22.s5.t4.1

जलमध्यगतः कार्यश्शेषपन्नगतल्पगः । फणापुञ्जमहारत्नदुनिरीक्ष्यशिरोधरः ॥

v3.c22.s5.t4.2

देवदेवस्तु कर्तव्यस्तत्र सुप्तश्चतुर्भुजः । तथापरश्च कर्तव्यश्शेषभोगाङ्कसंस्थितः ॥

v3.c22.s5.t4.3

एकपादोऽस्य कर्तव्यो लक्ष्म्युत्सङ्गगतः प्रभोः । तथापरश्च कर्तव्यस्तत्र जानौ प्रसाधितः ॥

v3.c22.s5.t4.4

कर्तव्यो नाभिदेशस्थस्तथा तस्यापरः करः । तथैवान्यः करः कार्यो देवस्य तु शिरोधरः ॥

v3.c22.s5.t4.5

सन्तानमञ्जरीधारी तथैवास्यापरो भवेत् । नाभीसरसि संभूते कमले तस्य यादव ! ॥

v3.c22.s5.t4.6

सर्वपृथ्वीमयो देवः प्राग्वत्कार्यः पितामहः । नाललग्नौ च कर्तव्यौ पद्मस्य मधुकैटभौ ॥

v3.c22.s5.t4.7

नृरूपधारिणि भुजङ्गमस्य कार्याण्यथास्त्राणि तथा समीपे । एतत्तवाग्रे यदुपुङ्गवोक्तं देवस्य रूपं परमस्य तस्य ॥

v3.c22.s5.t4.8

(विष्णुधर्मोत्तरे ॥)

v3.c22.s5.t4.9

सत्पुरुपं¹ शेषतल्पे दक्षो दण्डभुजोऽस्य तु । शिरोधरोऽस्य वामस्तु सपुष्पोऽयं जलेशयः ॥

v3.c22.s5.t4.10

¹ सुप्तरूपमिति स्यात् ।

v3.c22.s5.t4.11

तन्नाभिपङ्कजे धाता श्रीभूमी च शिरोहिगे । निध्यस्त्रादिसवरूपाणि पार्श्वयोर्मधुकैटभौ ॥

v3.c22.s5.t4.12

(रूपमण्डने ॥)

लक्ष्मीनारायणौ ।

v3.c22.s5.t5.1

लक्ष्मीनारायणौ कार्यौ संयुक्तौ दिव्यरूपिणौ । दक्षिणस्था विभोमूर्तिर्लक्ष्मीमूर्तिस्तु वामतः ॥

v3.c22.s5.t5.2

दक्षिणः कण्ठलग्नोऽस्या वामे हस्तस्सरोजभृत् । विभोर्वामकरो लक्ष्म्याः कुक्षिभागस्थितस्सदा ॥

v3.c22.s5.t5.3

सर्वावयवसंपूर्णा सर्वालङ्कारभूषिता । सुष्ठुनेत्रकपलास्या रूपयौवनसंयुता ॥

v3.c22.s5.t5.4

सिद्धिः कार्या समीपस्था चामरग्राहिणी शुभा । कर्तव्यं वाहनं सव्ये देवाधोभागगं सदा ॥

v3.c22.s5.t5.5

शङ्खचक्रधरौ तस्य द्वौ कार्यौ पुरुषौ पुरः । वामनौ हारकेयूरकिरीटमणिभूषणौ ॥

v3.c22.s5.t5.6

उपासकौ समीपस्थौ प्रभोर्ब्रह्मशिवात्मकौ । रशनां योगपट्टं च शिखामञ्जलिमास्थितौ ॥

v3.c22.s5.t5.7

(विश्वकर्मशास्त्रे ॥)

v3.c22.s5.t5.8

उभौ च द्विभुजौ कुर्याल्लक्ष्मीं नारायणाश्रिताम् । देवं शस्त्रैस्स्वकीयैश्च गरुडोपरि संस्थितम् ॥

v3.c22.s5.t5.9

दक्षिणः कण्ठलग्नोऽस्या वामो हस्तस्सरोजधृक् । विभोर्वामकरो लक्ष्म्याः कुक्षिभागस्थितस्सदा ॥ सर्वेषामेव देवानामेवं युग्मं विधीयते । तेषां शक्तिः पृथग्रूपा तदस्त्रवाहनाकृतिः ॥

v3.c22.s5.t5.10

(रूपमण्डने ॥)

v3.c22.s5.t5.11

हयग्रीवः ।

v3.c22.s5.t5.12

मूर्तिमान्पृथिवीहस्तन्यस्तपादसितच्छविः । नीलाम्बरधरः कार्यो देवो हयशिरोधरः ॥ विद्यात्संकर्षणंशेन देवो हयशिरोधरः । कर्तव्योऽष्टभुजो देवस्तत्करेष्ु चतुर्ध्वथ ॥ शङ्खं चक्रं गदां पद्मं स्वाकारं कारयेद्बुधः । चत्वारश्च कराः कार्या वेदानां देहधारिणाम् ॥ देवेन मूर्ध्नि विन्यस्तास्सर्वाभरणधारिणः ।

v3.c22.s5.t5.13

नरनारायणहरिकृष्णाः ।

v3.c22.s5.t5.14

दूर्वाश्यामो नरः कार्यो द्विभुजश्च महाबलः । नारायणश्चतुर्बाहुर्नीलोत्पलदलच्छविः ॥ तयोर्मध्ये तु बदरी कार्या फलविभूषणा । बर्यामवनौ कार्याक्षमालाधरावुभौ ॥

v3.c22.s5.t5.15

अष्टचक्रे स्थितौ याने सूतयुक्ते मनोरमे । कृष्णाजिनधरौ दान्तौ जटामण्डलधारिणौ ॥ पादेन चैकेन रथस्थितेन पादेन चैकेन च जानुगेन । कार्यौ हरिश्चात्र नरेण तुल्यः कृष्णोऽपि नारायणतुल्यमूर्तिः ॥ (विष्णुधर्मोत्तरे ॥)

वैकुण्ठः ।

v3.c22.s5.t6.1

वैकुण्ठं तु प्रवक्ष्यामि सोऽष्टबाहुर्महाबलः । ताक्ष्यासनश्चतुर्वक्त्रः कर्तव्यःशान्तिमिच्छता ॥ गदां खड्गं शरं चक्रं दक्षिणेऽस्य चतुष्टयम् । शङ्खं खेटं धनुः पद्मं वामे दद्याच्चतुष्टयम् ॥ अग्रतः पुरुषाकारं नारसिंहं च दक्षिणे । अपरं स्त्रीमुखाकारं वाराहास्यं तथोत्तरम् ॥

त्रैलोक्यमोहनः ।

v3.c22.s5.t7.1

मुखानि पूर्ववत्तस्याप्य त्रैलोक्यमोहनः । स षोडशभुजस्ताक्ष्यरूडः प्राग्वच्चतुर्भुजा (?) ॥ गदा चक्राङ्कुशौ बाणं शक्तिचक्रं वरं क्रमात् । दक्षेपु मुद्गरः पाशशार्ङ्गशङ्खाब्जकुण्डिका ॥ श्रृङ्गी वामेषु हस्तेषु योगमुद्राकरद्वयम् । नरं च नारसिंहं च सूकरं कपिलाननम् ॥

अनन्तः ।

v3.c22.s5.t8.1

अनन्तोऽनन्तरूपस्तु हस्तैर्द्वादशभिर्युतः ।
अनन्तशक्तिसंवीतो गरुडस्थश्चतुर्मुखः ॥
गदाकृपाणचक्राढ्यो वज्राङ्कुशवरान्वितः ।
शङ्खखेटं धनुः पद्मं दण्डपाशौ च वामतः ।

विश्वरूपः ।

v3.c22.s5.t9.1

विंशत्या हस्तकैर्युक्तो विश्वरूपश्चतुर्मुखः ।
पताका हलशङ्खौ च वज्राङ्कुशशरास्तथा ॥
चक्रं च बीजपूरं च वरो दक्षिणबाहुषु ।
पताका दण्डपाशौ च गदाखड्गोत्पलानि च ॥
शृङ्गी मुसलमक्षं च क्रमात्सुर्वामबाहुषु ।
हस्तद्वये योगमुद्रा चैन (?) गरुडोपरिस्थितः ॥
क्रमान्नृसिंहवराहमुखवन्मुखैः ।

योगेश्वरः ।

v3.c22.s5.t10.1

पद्मासनसमासीनः किंचिन्मीलितलोचनः ।
घोणाग्रे दत्तदृष्टिश्च श्वेतपद्मोपरि स्थितः ॥
वामदक्षिणगौ हस्तावुत्तानावेकभागगौ ।
तत्करद्वयपार्श्वस्थे पङ्केरुहमहागदे ॥

v3.c22.s5.t10.2

ऊर्ध्वे करद्वये तस्य पाञ्चजन्यसुदर्शनः । योगस्वामी स विज्ञेयः पूज्यो मोक्षार्थयोगिभिः ॥

v3.c22.s5.t10.3

(सिद्धार्थसंहितायाम् ॥)

v3.c22.s5.t10.4

अथादिमूर्तिविधिं वक्ष्ये । अनन्तोत्सङ्गे समासीनं दक्षिणं प्रसार्य वामाकुञ्च्य¹ दक्षिणहस्तमनन्तोत्सङ्गे² न्यस्य वामं वामजानूर्ध्वं प्रसार्य चतुर्बाहुं शङ्खचक्रधरं फणाभिः पञ्चभिर्वा³ छन्नमौलिं प्रवालाभं सर्वाभरणभूषितं कृत्वा तद्दक्षिणे भृगुं वामे मार्कण्डेयमेकजानुकमेणासयित्वा दक्षिणे ब्रह्माणं वामे शङ्करं च कृत्वा तद्रूपं कौतुकं च कृत्वा प्रतिष्ठोत्तक्रमेण प्रतिष्ठां कारयेत् ।

v3.c22.s5.t10.5

¹ ‘दक्षिणपादमाकुञ्च्य वामं प्रसार्य’ इति पाठान्तरम् ।

v3.c22.s5.t10.6

² ‘तदनोध्वें’ इति पाठान्तरम् ।

v3.c22.s5.t10.7

³ ‘फणान् पञ्च सप्त वा’ इति पाठान्तरम् । फणाभिः पञ्चभिस्सप्तभिर्वा इति भवितव्यम् ।

v3.c22.s5.t10.8

(वैखानसागमे ॥)

धर्मः ।

v3.c22.s5.t11.1

चतुर्वक्त्रश्चतुष्पादश्चतुर्बाहुस्सिताम्बरः । सर्वाभरणवांश्छेतॊ धर्मः कार्यो विजानता ॥

v3.c22.s5.t11.2

दक्षिणे चाक्षमाला च तस्य वामे च पुस्तकम् । मूर्तिमान्व्यवसायस्तु कार्यो दक्षिणभागतः ॥

v3.c22.s5.t11.3

वामभागे ततः कार्यो वृषः परमरूपवान् । कार्यौ पद्मकरौ मूर्त्ति विन्यस्तौ तु तथा तयोः ॥ (आदित्यपुराणे ॥)

v3.c22.s5.t11.4

चतुर्विंशतिमूर्तयः ।

v3.c22.s5.t11.5

शङ्खचक्रगदापद्मी केशवाख्यो गदाधरः । नारायणः पद्मगदाचक्रशङ्खायुधैः क्रमात् ॥ माधवश्चक्रशङ्खाभ्यां पद्मेन गदया भवेत् । गदाब्जशङ्खचक्री वा गोविन्दाख्यो गदाधरः ॥ पद्मशङ्खारिगदिने विष्णुरूपाय वै नमः । सशङ्खब्जगदाचक्रमधुसूदनमूर्तये ॥ नमो गदारिशङ्खाब्जयुक्तत्रिविक्रमाय च । सारिकौमोदकीपद्मशङ्खवामनमूर्तये ॥ चक्राब्जशङ्खगदिने नमः श्रीधरमूर्तये । हृषीकेशस्सारिगदाशङ्खभिन्नमोऽस्तु ते ॥ साब्जशङ्खगदाचक्रपद्मनाभस्वमूर्तये । दामोदर ! शङ्खगदाचक्रपद्मिनमोऽस्तु ते ॥ शङ्खाब्जचक्रगदिने नमस्संकर्षणाय च । सारिशङ्खगदाब्जाय वासुदेव ! नमोऽस्तु ते ॥

v3.c22.s5.t11.6

शङ्खचक्रगदाब्जादिधृतप्रयुग्ममूर्तये । नमोऽनिरुद्धाय गदाशङ्खब्जारिविधारिणे ॥

v3.c22.s5.t11.7

साब्जशङ्खगदाचक्रपुरुषोत्तममूर्तये । नमोऽधोक्षरूपाय गदाशङ्खारिपान्भिने ॥

v3.c22.s5.t11.8

नृसिंहमूर्तये पद्मगदाशङ्खधारिणे । पद्मारिशङ्खगदिने नमोऽस्त्वच्युतमूर्तये ॥

v3.c22.s5.t11.9

गदाब्जारिसशङ्खाय नमः श्रीकृष्णमूर्तये ।

v3.c22.s5.t11.10

(पद्मपुराणे पातालखण्डे ॥)

v3.c22.s5.t11.11

केशवः कमलं कम्बुं धत्ते चक्रं गदामपि । नारायणः कम्बुपद्मगदाचक्रधरो भवेत् ॥

v3.c22.s5.t11.12

माधवस्तु गदां चक्रं शङ्खं वहति पङ्कजम् । गोविन्दो धरते चक्रं गदां पद्मं च कम्बुना ॥

v3.c22.s5.t11.13

विष्णुः कौमोदकीं पद्मं पाञ्चजन्यं सुदर्शनम् । मधुसूदनस्तु चक्रं शङ्खं सरसिजं गदाम् ॥

v3.c22.s5.t11.14

त्रिविक्रमोऽम्बुजगदाचक्रशङ्खान्बिभर्ति यः । वामनशङ्खभृच्चक्रगदापद्मल्सत्करः ॥

v3.c22.s5.t11.15

श्रीधरो वारिजं चक्रं गदां शङ्खं दधाति यः । हृषीकेशो गदां चक्रं पद्मं शङ्खं च धारयेत् ॥

v3.c22.s5.t11.16

पद्मनाभः पाञ्चजन्यं पद्मं चक्रं गदामपि । दामोदरोऽम्बुजं शङ्खं गदां धत्ते सुदर्शनम् ॥

v3.c22.s5.t11.17

संकर्षणो गदाकम्बुसरसीरुहचक्रभृत् । वासुदेवो गदाशङ्खचक्रपद्मधरो मतः ॥ प्रद्युम्नश्चक्रभृच्छङ्खगदाम्भोजानि पाणिभिः । अनिरुद्धो लसच्चक्रगदाशङ्खारविन्दवान् ॥ पुरुषोत्तमस्तु चक्रं पद्मशङ्खगदा दधत् । अधोक्षजस्सरसिजं गदाशङ्खसुदर्शनम् ॥ नरसिंहस्तु चक्राब्जगदाकम्बुविराजितः । अच्युतस्तु गदापद्मचक्रशङ्खैस्समन्वितः ॥ जनार्दनोऽम्बुजं चक्रं कम्बु कौमोदकीं दधत् । उपेन्द्रो वहते शङ्खं गदां चक्रं कुशेशयम् ॥ हरिर्धारयते कम्बु चक्रं तामरसं गदाम् । कृष्णः करैः पाञ्चजन्यं गदाम्बजं सुदर्शनम् ॥ एतास्तु मूर्तयो ज्ञेया दक्षिणाधःकरात्क्रमात् । वासुदेवादिर्णास्त्युषष्टषडेते तदादयः ॥

v3.c22.s5.t11.18

(रूपमण्डने ॥)

मानुषवासुदेवः ।

v3.c22.s5.t12.1

अथ मानुषं वासुदेवमाश्रये¹ विमाने मध्यमं² दशतालमितं सविंशतिशताङ्गुलं द्विभुजं चक्रशङ्खधरं दक्षिणे रुक्मिणीं देवीं तद्दक्षिणे

v3.c22.s5.t12.2

¹ ‘वासुदेवमाश्रये’दिति पाठान्तरम् ।

v3.c22.s5.t12.3

² मध्यमदशतालेति भवितव्यम् ।

v3.c22.s5.t12.4

हलमुसलधरं¹ बलभद्रं तदक्षिणे प्रद्युम्नं द्विभुजं क्षुरिकाधरदक्षिणहस्तं कव्यवलम्बितवामहस्तं तदक्षिणे विरिञ्चं चतुराननं चतुर्भुजं देवस्य वामपार्श्वेऽनिरुद्धं² द्विभुजं खड्गखेटकधरं तद्वामे साम्बं द्विभुजं दानदक्षिणकर³मन्यदण्डधरं⁴ तस्य वामे गरुडं च कारयेत् । तेषां वर्णा-म्बराभरणानि भृगूक्तविधिना कारयेत् । देवानेतान्स्थितानेव संस्थाप्य तद्रूपं⁵ कौतुकं कारयेत् । अथवा तेषां मध्ये विष्णुं चतुर्भुजमेव स्थापयेत् ।

दैविकवासुदेवः ।

v3.c22.s5.t13.1

दैविकवासुदेवं सिंहासने समासीनं चतुर्भुजं शङ्खचक्रधरं श्रीभूम्या⁶ सहितं तथा देवस्य दक्षिणवामयोः पूर्वोक्तान्देवान्बलभद्रस्य दक्षिणे⁷ देवीं रेवतीं प्रद्युम्नस्य दक्षिणे⁸ रोहिणीमनिरुद्धस्योषां⁹ साम्बस्येन्दुकरीं च¹⁰ सहैव ¹¹ स्थापयेत् । एतेषां कौतुकबिम्बं पूर्ववत् ।

v3.c22.s5.t13.2

(वैखानसागमे ।)

v3.c22.s5.t13.3

१. ‘हलधारायुत’मिति पाठान्तरम् । २. ‘नीलमधं’ मिति पाठान्तरम् । ३. ‘दक्षिणे दारुक’मिति पाठान्तरम् । ४. एतदादर्शान्तरे न । ५. ‘तद्रूर्व’मिति पाठान्तरम् । ६. ‘श्रीभूमिभ्या’ मिति भवितव्यम् । ७. एतदादर्शान्तरे न । ८. एतदन्यतरादर्श न ९. ‘अनिरुद्धस्य रामा’मिति पाठान्तरम् । १०. साम्बस्ये-षा न्दुकरीं चे’ति पाठान्तरम् । ११. ‘सभवा’ इति पाठान्तरम् ।

v3.c22.s5.t13.4

दक्षिणे तु करे चक्रमधस्तात्पद्ममेव च ।
वामे शङ्खं गदाधस्ताद्वासुदेवस्य लक्षणम् ॥
श्रीपुष्टी चापि कर्तव्ये पद्मवीणाकरान्विते ।
ऊरुमात्रोच्छ्रितायामे मालाविद्याधरौ तथा ॥
प्रभामण्डलसंस्थौ तौ प्रभा हस्त्यादिभूषणौ¹ ।
पद्माभं पादपीठं तु प्रतिमास्वेवमाचरेत् ॥

v3.c22.s5.t13.5

¹ ‘हस्त्यादिभूषणा’ इति स्यात् ।

v3.c22.s5.t13.6

(अग्निपु० १०४ अ० ॥)

v3.c22.s5.t13.7

एकवक्त्रश्चतुर्बाहुस्तौम्यरूपसुदर्शनः ।
पीताम्बरश्च मेघाभस्सर्वाभरणभूषितः ॥
कण्ठेन शुभदेशेन कम्बुतुल्येन राजता ।
वराभरणयुक्तेन कुण्डलोत्तरभूषणा ॥
अङ्गदी बद्धकेयूरी वनमालाविभूषणः ।
उरसा कौस्तुभं बिभ्रत्किरीटं शिरसा तथा ॥
शिरःपद्मस्तथैवास्य कर्तव्यश्चारुकर्णिकः ।
पुष्टिश्लिष्टायतभुजस्तनुस्ताम्रनखाङ्गुलीः ॥
मध्येन त्रिवलीभङ्गशोभितेन सुचारुणा ।
स्त्रीरूपधारिणी क्षोणी कार्या तत्पादमध्यगा ॥

v3.c22.s5.t13.8

तत्करस्थाङ्घ्रियुगलो देवः कार्यो जनार्दनः । तालान्तरपदन्यासः किञ्चिन्निष्क्रान्तदक्षिणः ॥

v3.c22.s5.t13.9

अनुद्ध्या (?) मही कार्या देवदर्शिताविस्मिता । देवश्च कटिवासेन कार्यो जान्वलम्बिनः ॥

v3.c22.s5.t13.10

वनमाला च कर्तव्या देवजान्वलम्बिनी । यज्ञोपवीतं कर्तव्यं नाभिदेशमुपागतम् ॥

v3.c22.s5.t13.11

उत्फुल्लकवलं पाणौ कुर्याद्देवस्य दक्षिणे । वामपाणिगतं शङ्खं शङ्खाकारं तु कारयेत् ॥

v3.c22.s5.t13.12

दक्षिणे तु गदा देवी तनुमध्या सुलोचना । ह्रीरूपधारिणी मुग्धा सर्वाभरणभूषिता ॥

v3.c22.s5.t13.13

पश्यन्ती देवदेवेशं कार्या चामरधारिणी । कुर्यात्तन्मूर्ध्नि विन्यस्तं देवहस्तं तु दक्षिणम् ॥

v3.c22.s5.t13.14

वामभागगतश्चक्रः कार्यो लम्बोदरस्तथा । सर्वाभरणसंयुक्तो वृत्तविष्फारितेक्षणः ॥

v3.c22.s5.t13.15

कर्तव्यश्चामरकरो देववीक्षणतत्परः । कुर्याद्देवकरं वामं विन्यस्तं तस्य मूर्धनि ॥

v3.c22.s5.t13.16

(विष्णुधर्मोत्तरे ॥)

v3.c22.s5.t13.17

वासुदेवस्तत्कर्षणः प्रद्युम्नश्चानिरुद्धकः । श्वेत रक्तपीतकृष्णाः क्रमात्कृतयुगादिषु ॥

v3.c22.s5.t13.18

पूज्या द्विजातिभिर्धैषां छत्रामं कुर्कुटाण्डवत् । ऋपुषाभं च बालेन्दूपमं कुर्याच्चिरं१ क्रमात् ॥ (रूपमण्डने ॥)

v3.c22.s5.t13.19

संकर्षणः ।

v3.c22.s5.t13.20

वासुदेवस्वरूपेण कार्यस्संकर्षणः प्रभुः । स तु शुक्लवपुः कार्यो नीलवासा यदूतत्तम ! ॥ गदास्थाने च मुसलं चक्रस्थाने च लाङ्गलम् । कर्तव्यौ तनुमध्यौ तु नृरूपौ रूपसंयुतौ ॥

v3.c22.s5.t13.21

प्रद्युम्नः ।

v3.c22.s5.t13.22

वासुदेवस्वरूपेण प्रद्युम्नश्च तथा भवेत् । स तु दूर्वाङ्कुरश्यामसितवासा विधीयते ॥ चक्रस्थाने भवेच्चापो गदास्थाने तथा शरः । तथाविधौ तौ कर्तव्यौ यथा मुसललाङ्गलौ ॥ चापबाणधरः कार्यः प्रद्युम्नश्च सुदर्शनः । राजन्निन्द्रमणिश्यामश्वेतवासा मदोत्कटः ॥

v3.c22.s5.t13.23

अनिरुद्धः ।

v3.c22.s5.t13.24

एतदेव तथा रूपमनिरुद्धस्य कारयेत् । पद्मपत्राभवपुषो रक्ताम्बरधरस्य तु ॥

v3.c22.s5.t13.25

चक्रस्थाने भवेच्चर्म गदास्थानेऽसिरेवच । चर्म स्याच्चक्ररूपेण प्रांशुः खड्गो विधीयते ॥ चक्रादीनां स्वरूपाणि किंचित्पूर्वं सुदर्शयेत् । रम्याण्यायुधरूपाणि चक्रादीन्येव यादव ! ॥ वामपार्श्वगताः कार्या देवानां प्रवरा ध्वजाः । सुपताकायुता राजन् ! यष्टिस्थास्ते यथेरितम् ॥

v3.c22.s5.t13.26

अनिरुद्धसाम्बौ ।

v3.c22.s5.t13.27

कर्तव्यश्चानिरुद्धोऽपि खड्गचर्मधरः प्रभुः । साम्बः कार्यो गदाहस्तसुरूपश्च विशेषतः ॥ साम्बानिरुद्धौ कर्तव्यौ पद्माभौ रक्तवाससौ ।

v3.c22.s5.t13.28

(विष्णुधर्मोत्तरे ॥)

v3.c22.s5.t13.29

साम्बप्रद्युम्नौ ।

v3.c22.s5.t13.30

साम्बश्च गदाहस्तः प्रद्युम्नश्चापभृत्सुरूपश्च । अनयोस्त्रियौ च कार्ये खेटकनिस्त्रिंशधारिण्यौ ॥

v3.c22.s5.t13.31

(बृहत्संहितायामष्टापञ्चाशत्तमाध्याये ॥)

v3.c22.s5.t13.32

विष्णुः ।

v3.c22.s5.t13.33

विष्णुः किरीटमुकुटकटिसूत्रविभूषितः । पीताम्बरधरस्सौम्यश्चतुर्भुजसमन्वितः ॥

v3.c22.s5.t13.34

अभयं दक्षिणं हस्तं कटकं वामहस्तकम् ।
परहस्ते तु वामे तु शङ्खं चक्रं च दक्षिणे ॥

पद्मपीठोपरिष्ठात्तु सस्यश्यामनिभाकृतिः ।
आसीनो वा स्थितो वापि सव्येऽसन्ये श्रियान्वितः ॥

संयुक्तः केवलो वापि कर्त्तव्यं विष्णुमूर्त्तिनम् ।

(अंशुमद्भेदागमे एकोनपञ्चाशत्पटले ॥)

v3.c22.s5.t13.35

शङ्खचक्रधरं देवं पीताम्बरधरं हरिम् ।
श्रीभूमिसहितं देवं सर्वालङ्कारसंयुतम् ॥

स्थितं वाथ समासीनं शयितं वापि कारयेत् ।

(सुप्रभेदागमे चतुर्विंशत्तमपटले ॥)

v3.c22.s5.t13.36

कार्योऽष्टभुजो भगवांश्चतुर्भुजो द्विभुज एव वा विष्णुः ।
श्रीवत्साङ्कितवक्षाः कौस्तुभमणिभूषितोरस्कः ॥

अतसीकुसुमश्यामः पीताम्बरनिवसनः प्रसन्नमुखः ।
कुण्डलकिरीटधारी पीनगलोरस्थलांसभुजः ॥

खड्गदाशरपाणिर्दक्षिणतश्शान्तिदश्चतुर्धकरः ।
वामकरेषु च कार्मुकखेटकचक्राणि शङ्खश्च ॥

अथ च चतुर्भुजमिच्छति शान्तिद एको गदाधरश्चान्यः ।
दक्षिणपार्श्वे ह्येवं वामे शङ्खश्च चक्रं च ॥

v3.c22.s5.t13.37

द्विभुजस्य तु शान्तिकरो दक्षिणहस्तोऽपरश्च शङ्खधरः । एवं विष्णोः प्रतिमा कर्तव्या भूतिमिच्छद्भिः ॥

v3.c22.s5.t13.38

(बृहत्संहितायामष्टापञ्चाशत्तमाध्याये ॥)

v3.c22.s5.t13.39

देवदेवं यथा विष्णुं कारयेद्रुद्रस्थितम् । कौस्तुभोद्भासितोरस्कं सर्वाभरणधारिणम् ॥

v3.c22.s5.t13.40

सजलाम्बुदसच्छायं पीतदिव्याम्बरं तथा । मुखानि चास्य चत्वारि बाहवो द्विगुणास्तथा ॥

v3.c22.s5.t13.41

सौम्येन्दुवदनं पूर्वं नारसिंहं तु दक्षिणम् । कपिलं पश्चिमं वक्त्रं तथा वाराहमुत्तरम् ॥

v3.c22.s5.t13.42

तस्य दक्षिणहस्तेषु बाणारिमुसलाभयम् । चर्म सीरवराविन्दुर्वामे च वनमालिनः ॥

v3.c22.s5.t13.43

कार्याणि विष्णोर्धमेज्ञ ! वामहस्तेष्वनुक्रमात् ।

v3.c22.s5.t13.44

लोकपालविष्णुः ।

v3.c22.s5.t13.45

एकवक्त्रो द्विबाहुश्च गदाधरप्रभुः ।

v3.c22.s5.t13.46

विष्ण्वायतनम् ।

v3.c22.s5.t13.47

दक्षिणे पुण्डरीकाक्षं पूर्वे नारायणं न्यसेत् । गोविन्दः पश्चिमे स्थाप्य उत्तरे मधुसूदनः ॥

v3.c22.s5.t13.48

१. वाचस्पत्ये विष्णुलक्षणप्रदर्शनावसरे ‘अरि चक्रं इन्दुशस्त्र’ इति विवरणं कृतम् ।

v3.c22.s5.t13.49

ईशाने स्थापयेद्विष्णुमाग्नेय्यां तु जनार्दनम् । नैर्ऋत्ये पद्मनाभं च वायव्ये माधवं तथा ॥

v3.c22.s5.t13.50

केशवो मध्यतस्थाप्यो वासुदेवोऽथवा बुधैः । संकर्षणो वा प्रद्युम्नोऽनिरुद्धो वा यथाविधि ॥

v3.c22.s5.t13.51

दशावतारसंयुक्तस्थाप्यो जलशयोऽथवा । अग्रतस्तूकरस्थाप्यस्सर्वदेवमयशुभः ॥

v3.c22.s5.t13.52

विष्णोः प्रतीहाराः ।

v3.c22.s5.t13.53

प्रतीहारास्ततो वक्ष्ये दिशां चतसृणां क्रमात् । वामनाकाररूपास्ते कर्तव्यास्सर्वतश्शुभाः ॥

v3.c22.s5.t13.54

तर्जनीं शङ्खचक्रे च चण्डो दण्डं दधत्क्रमात् । वामे स्थाप्यः प्रचण्डोऽस्त्रापसव्ये दक्षिणे शुभः ॥

v3.c22.s5.t13.55

पद्मं खङ्गं खेटकं च करैर्बिभ्रद्दान जयः । विलोमे पद्मगदयोर्विजयस्तौ क्रमा न्यसेत् ॥

v3.c22.s5.t13.56

तर्जनी बाणचापं च गदां धाता तु सृष्टः (?) । गदापसव्ये तैरत्रैर्विधाता वामदक्षयोः ॥

v3.c22.s5.t13.57

तर्जनी कमलं शङ्खं गदां भद्रः क्रमाद्धत् । शस्त्रापसव्ययोगेन सुभद्रस्तौ क्रमा न्यसेत् ॥

Linked texts (9)