Pramāṇa · Search · About · API

Elements of Hindu Iconography v3.c22.s8: आदित्याः ।

Elements of Hindu Iconography v3.c22.s8

Language
English

Contents

आदित्याः ।

v3.c22.s8.1

आदित्याः ।

v3.c22.s8.2

आदित्याः ।

v3.c22.s8.3

द्विभुजाः पद्महस्ताश्च रक्तपद्मासने स्थिताः । रक्तमण्डलसंयुक्ताः करण्डमकुटान्विताः ॥

v3.c22.s8.4

रक्ताम्बरधरास्सर्वे सर्वाभरणभूषिताः । छन्नवीरसमायुक्ता भास्करा द्वादशा इमे ॥

v3.c22.s8.5

वैवस्वतो विवस्वांश्च मार्ताण्डो भास्करो रविः । लोकप्रकाशकश्चैव लोकसाक्षी त्रिविक्रमः ॥

v3.c22.s8.6

आदित्यश्च तथा सूर्यः अंशुमांश्च दिवाकरः । एते वै द्वादशादित्याश्चोत्तरादिक्रमास्थिताः ॥

v3.c22.s8.7

(अंशुमद्भेदागमे एकोनपञ्चाशपटले ॥)

v3.c22.s8.8

अर्यमा चेन्द्रवरुणौ पूषा विष्णुर्भगस्तथा । अजघन्यो जघन्यश्च मित्रो धाता इति स्मृताः ॥

v3.c22.s8.9

विवस्वांश्चैव पर्जन्यस्त्वादित्या द्वादश स्मृताः । द्विभुजाः पद्महस्ताश्च रक्तपद्मासने स्थिताः ॥

v3.c22.s8.10

रश्मिमण्डलसंयुक्तास्तुरक्ता लोकनायकाः ।

v3.c22.s8.11

(सुप्रभेदागमे अष्टचत्वारिंशत्तमपटले ॥)

v3.c22.s8.12

अदितेः पुत्रभावत्वादादित्यस्यति१ चोच्यते । ईश्वरस्यार्धभागे तु जगश्चक्षुरिति२ स्मृतः ॥

v3.c22.s8.13

१ 'स्त्विति' इति भवितव्यम् ।

v3.c22.s8.14

२ 'जगच्चक्षु' रिति स्यात् ।

v3.c22.s8.15

द्विभुजं पद्महस्तं तु रक्तवर्णं सुरूपकम् । करण्डमकुटोपेतं सर्वाभरणभूषितम् ॥

v3.c22.s8.16

मकुटाद्विगुणं तारं प्रभामण्डलमध्यमम् । उषाश्च प्रत्युषोदेवी सव्यासव्ये तु संस्थितः३ ॥

v3.c22.s8.17

३ 'संस्थिते' इति भवितव्यम् ।

v3.c22.s8.18

अरुणं चाग्रतः कृत्वा पङ्कजं४ तत्स्वरूपकम् । सप्ताश्वरथमध्यस्थं भास्करं पापनाशनम् ॥

v3.c22.s8.19

४ 'पङ्कजदि'ति भवितव्यम् ।

v3.c22.s8.20

रक्तपद्मासनस्थं हि आसनं तत्र कल्पयेत् । पूर्वोक्तविधिना सर्वमादित्यं परिकल्पयेत् ॥

v3.c22.s8.21

(सुप्रभेदागमे एकोनपञ्चाशत्तमपटले ॥)

v3.c22.s8.22

रक्तवर्णो महातेजा द्विबाहुः पद्मभृद्रविः । सप्तभिस्तुरगैर्युक्ते सर्वरज्जुसमन्विते ॥

v3.c22.s8.23

एकचक्रे रथे तिष्ठन्पादाक्रान्तसरोरुहः । माणिक्यकुण्डलोपेतः पद्मरागकिरीटकः ॥

v3.c22.s8.24

रक्ताम्बरधरो रम्यस्सुव्यक्तङ्गो मनोहरः । अनूरुसारथिः कार्यः प्रतिहारौ च पार्श्वयोः ॥

v3.c22.s8.25

मण्डलपिङ्गलनामानौ१ खड्गखेटधारिणौ ।

v3.c22.s8.26

(शिल्परत्ने पञ्चविंशाध्याये ॥)

v3.c22.s8.27

नासालाटजङ्घोरुगण्डवक्षांसि चोन्नतानि रवेः । कुर्यादुदीच्यवेषं गूढं पादादुरो यावत् ॥

v3.c22.s8.28

बिभ्राणस्स्वकररुहे पाणिभ्यां पङ्कजे मुकुटधारी । कुण्डलभूषितवदनः प्रलम्बहारो वियद्वृतः ॥

v3.c22.s8.29

कमलोदरद्युतिमुखः कञ्चकगुप्तस्स्मितप्रसन्नमुखः । रत्नो ज्वलप्रभामण्डलश्च कर्तुश्शुभकरोऽर्कः ॥

v3.c22.s8.30

सौम्या तु हस्तमात्रा वसुदा हस्तद्वयोच्छ्रिता प्रतिमा । क्षेमसुभिक्षाय भवेत्त्रिचतुर्हस्तप्रमाणयाम् ॥

v3.c22.s8.31

(बृहत्संहितायामष्टापञ्चाशत्तमाध्याये ॥)

v3.c22.s8.32

¹ पादेऽस्मिन्नधिकाक्षरसद्भावात् मत्स्यपुराणवचने च दण्डपिङ्गलारव्य पुरुषद्वयस्य सूर्यपार्श्ववर्त्तित्वकथनादवापि 'दण्डपिङ्गलनामानौ' इति भवितव्यम् ।

v3.c22.s8.33

प्रतिभालक्षणानि ।

v3.c22.s8.34

शृणु वत्स ! प्रवक्ष्यामि सूर्यभेदांस्तु ते जय ! । यावत्प्रकाशकमूर्यो१ जायते मूर्तिर्भयथा ॥

v3.c22.s8.35

दक्षिणे पौष्करी माला करे वामे कमण्डलुः । पद्माभ्यां शोभितकरा सा धात्री प्रथमा स्मृता ॥

v3.c22.s8.36

शूलं वामकरे चाक्षा दक्षिणे सोम एव च । मैत्री नाम त्रिनयना कुशेशयविभूषिता ॥

v3.c22.s8.37

प्रथमे तु करे चक्रं तथा वामे च कौमुदी । मूर्तिरायमणी ज्ञेया सपद्मैः पाणिपल्लवैः ॥

v3.c22.s8.38

अक्षमाला करे सव्ये चक्रं वामे प्रतिष्ठितम् । सा मूर्ती रौद्री ज्ञातव्या प्रधाना पद्मभूषिता ॥

v3.c22.s8.39

चक्रं तु दक्षिणे यस्या वामे पाशस्सुशोभनः । सा वारुणी भवेन्मूर्तिः पद्मव्यग्रकरद्वया ॥

v3.c22.s8.40

कमण्डलुर्दक्षिणतो माला चाक्षमयी भवेत् । सा भवेत्सम्मता सूर्यमूर्तिः पद्मविभूषिता ॥

v3.c22.s8.41

यस्या दक्षिणतश्शूलं वामहस्ते सुदर्शनः । भगमूर्तिस्समाख्याता पद्महस्ता शुभा जय ! ॥

v3.c22.s8.42

अथ वामकरे माला त्रिशूलं दक्षिणे स्मृतम् । विवस्वन्मूर्तिरेषा स्यात्पद्मालाञ्छनलक्षिता ॥

v3.c22.s8.43

¹ ‘जगत्प्रकाशकः’ इति स्यात् ।

v3.c22.s8.44

पूषाख्यस्य भवेन्मूर्तिर्द्विभुजा पद्मलाञ्छिता । सर्वपापहरा ज्ञेया सर्वलक्षणलक्षिता ॥

v3.c22.s8.45

दक्षिणे तु गदा यस्या वामे चैव सुदर्शनः । पद्मव्यग्रा तु सावित्री मूर्तिस्सर्वार्थसाधनी ॥

v3.c22.s8.46

स्रुचं च दक्षिणे हस्ते वामे होमजकालिकाम् । मूर्तिस्त्वाष्ट्री भजेत्सा स्यात्पञ्चरुद्धकरद्वया ॥

v3.c22.s8.47

सुदर्शनकरा सव्ये पद्महस्ता तु वामतः । एषा स्याद् द्वादशी मूर्तिर्विष्णोरमिततेजसः ॥

v3.c22.s8.48

धाता मित्रोऽर्यमा रुद्रो वरुणस्सूर्य एव च । भगो विवस्वान्पूषा च सविता दशमस्मृतः ॥

v3.c22.s8.49

एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते ।

v3.c22.s8.50

(विश्वकर्मशास्त्रे ॥)

v3.c22.s8.51

रविः कार्यश्शुभ्र्मश्रुः सिन्दूरारुणसुप्रभः । आपिच्य १ वेषस्त्वाकारस्सर्वाभरणभूषितः ॥

v3.c22.s8.52

चतुर्बाहुर्महातेजाः कवचेनाभिसंवृतः । कर्तव्या रशना चास्य पानीयाङ्गेति संज्ञिताः ॥

v3.c22.s8.53

१. बृहत्संहितायां सूर्यस्य उदीच्यवेषकथनात् अत्रापि 'उदीच्यवेष' इति स्यात् ।

v3.c22.s8.54

रश्मयस्तस्य कर्तव्या वामदक्षिणहस्तयोः ।
ऊर्ध्वे स्रग्दामसंस्थाना सर्वपुष्पचिता शुभा ॥
स्वरूपरूपस्त्वकारो दण्डः कार्योऽस्य वामतः ।
दक्षिणे पिङ्गले१ भागे कर्तव्यश्चातिपिङ्गलः ॥
आपीच्यवेषौ कर्तव्यौ तावुभावपि यादव ।
तयोर्मूर्ध्नि च विन्यस्तौ करौ कार्यौ विभावसोः ॥
लेखनीपत्रके कार्ये पिङ्गलश्चातिपिङ्गलः ।
चर्मशूलधरो देवस्तथा यत्नाद्विधीयते ॥
सिंहो ध्वजश्च कर्तव्यस्तथा सूर्यस्य वामतः ।
चत्वारश्चास्य कर्तव्यास्तनयास्तस्य पार्श्वयोः ॥
रेवन्तश्च यमश्चैव मनुद्वितयमेव च ।
ग्रहराजो रविः कार्यो ग्रहैर्वा परिवारितः ॥
राज्ञी सवर्णा छाया च तथा देवी सुवर्चसा ।
चतस्रश्चास्य कर्तव्याः पत्न्यश्च परिपार्श्वयोः ॥
एकचक्रे च सप्ताश्वे षडश्रे वा रथोत्तरे ।
उपविष्टस्तु कर्तव्यो देवो ह्यरुणसारथिः ॥
(मत्स्यपुराणे ॥)

v3.c22.s8.55

¹ ‘पिङ्गलो’ इति भवितव्यम् ।

v3.c22.s8.56

² ‘उदीच्यवेषौ’ इति भवितव्यम् ।

v3.c22.s8.57

पद्मासनः पद्मकरः पद्मगर्भदलद्युतिः । सप्ताश्वरथसंस्थश्च द्विभुजश्च सदागतिः ॥

v3.c22.s8.58

(विष्णुधर्मोत्तरे ॥)

v3.c22.s8.59

एकचक्रसप्ताश्वसारथिमहारथम् । कृत्वा तु स्थापयेत्सूर्यं पुरुषाकृतिरूपिणम् ॥

v3.c22.s8.60

तदधं वामतःश्यामं नारीरूपसमन्वितम् । कृत्वा तु स्थापयेत्सम्यक्सर्वाभरणभूषितम् ॥

v3.c22.s8.61

आकुञ्चितसुकेशस्तु१ प्रभामण्डलसंयुतम् । मकुटं वा विधातव्यमन्यत्सर्वं सुमण्डलम् ॥

v3.c22.s8.62

हस्तद्वयलसत्पद्मं कञ्चुकाञ्चितविग्रहम् । एकवस्त्रं द्विदोर्दण्डं स्कन्धे सक्तकराम्बुजम् ॥

v3.c22.s8.63

रथोपेतं विना वाथ केवलं पद्मसंस्थितम् । पादौ सखेटकौ२ तस्य स्थिरं पद्मासने स्थितम् ॥

v3.c22.s8.64

जातिहिङ्कुल्यवर्णस्था (?) संस्थाप्या३ सूर्यमण्डलम् । वैकर्तनो विवस्वांश्च मार्ताण्डो भास्करो रविः ॥

v3.c22.s8.65

लोकप्रकाशकश्चैव लोकसाक्षी त्रिविक्रमः । आदित्यश्च तथा सूर्यः अंशुमांश्च दिवाकरः ॥

v3.c22.s8.66

१. ‘सुकेशं त्वि’ ति भवितव्यम् । २. ‘सकटका’ विति भवितव्यम् ।
३. ‘संस्थाप्य’ मिति भवितव्यम् ।

v3.c22.s8.67

एते वै द्वादशादित्या एवमाकृतिरुच्यते । द्विभुजाश्च द्विनेत्राश्च पद्मस्थाः पद्महस्तकाः ॥

v3.c22.s8.68

रक्ताम्बरसुवर्णाश्च प्रभामण्डलमण्डिताः । उपवीतसमायुक्तास्सर्वाभरणभूषिताः ॥

v3.c22.s8.69

आदित्याकृतिरेवं तु चन्द्राकृतिरथोच्यते । (पूर्वकारणागमे त्रयोदशपटले ॥)

v3.c22.s8.70

सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् । द्विभुजं चैकवक्त्रं च श्वेतपङ्कजधृक्करम्॥

v3.c22.s8.71

वर्तुलं तेजसो बिम्बं, मध्यस्थं रक्तवाससम् । आदित्यस्य त्विदं रूपं कुर्यात्पापप्रणाशनम् ॥ (रूपमण्डने ॥)

v3.c22.s8.72

ससप्ताश्वे सैकचक्रे रथे सूर्यो द्विपद्मभृक् । मषीभाजनलेखन्यौ बिभ्रत्कुण्डी१ तु दक्षिणे ॥

v3.c22.s8.73

वामे तु पिङ्गलो द्वारि दण्डभृत्स र्वेगणः । वालव्यजनधारिण्यौ पार्श्वे राज्ञी च निष्प्रभा२ ॥

v3.c22.s8.74

अथवाश्वसमारूढः कार्य एकस्तु भास्करः । . . . . .

v3.c22.s8.75

वरुणसूर्यनामा च सहस्रांशुस्तथा परः ॥

v3.c22.s8.76

१. मत्स्यपुराणवचनानुसारेण ‘दण्ड’ इति वा रूपमण्डनानुरोधेन ‘दण्डी’ ति वा भवितव्यम् । २. ‘निष्प्रभे’ति स्यात् ।

v3.c22.s8.77

धाता तपनसंज्ञश्च सविताथ गभस्तिमान् । रविश्चेवाथ पर्जन्यस्त्वष्टा मित्रोऽथ विष्णुकः ॥

v3.c22.s8.78

मेषादिराशिसंस्थाश्च मार्गादिकार्तिकान्तगाः । कृष्णो रक्तो मनाग्रक्तः पीतः पाण्डुरकस्सितः ॥

v3.c22.s8.79

कपिलः पीतवर्णश्च शुकाभो धवलस्तथा । धूम्रो नीलः क्रमाद्वर्णाः शक्तयः केसराग्रगाः ॥

v3.c22.s8.80

इडा सुषुम्ना विश्वाचिर्विन्दुसंज्ञा प्रमर्दिनी । प्रहर्षणी महाकाली कपिला च प्रबोधनी ॥

v3.c22.s8.81

नीलाम्बरा घनान्ता च अमृताख्या च शक्तयः ।

v3.c22.s8.82

(अग्निपु० ५१ अ० ॥)

आदित्यपरिवाराः ।

v3.c22.s8.t1.1

श्वेतस्सोमः कुजो रक्तो बुधः पीतो गुरुस्तथा । शुक्रश्चेतश्शनिः कृष्णो राहूर्धूम्रास्तु केतवः ॥

v3.c22.s8.t1.2

पद्महस्तो भवेत्सोमः कुजे दण्डः कमण्डलुः । योगासनो बुधो देवो गुरौ चाक्षमण्डलू ॥

v3.c22.s8.t1.3

अक्षः कमण्डलुश्शुके शनौ दण्डकमण्डलू । अर्धकायास्थितो राहुः केतुः करपुटाकृतिः ॥

v3.c22.s8.t1.4

सप्ताश्वरथ आदित्यश्चन्द्रो दशहयस्थितः । मङ्गलो मेषमारूढो बुधस्सप्सानस्थितः ॥

v3.c22.s8.t1.5

हंसारूढं गुरुं विद्याद्वेकारूढं च भार्गवम् । शनिं महिषमारूढं राहुं कुण्डस्य मध्यगम् ॥ सर्पपुच्छाकृतिं केतुं शिनं दंष्ट्रकरालितम् । ग्रहाः किरीटिनः कार्या रत्नकुण्डलशोभिताः ॥ सूर्यस्यायतने स्थाप्या वह्निकोणादितः क्रमात् । कुजो जीवस्तमशुक्रः केतवो ज्ञशनिशशी ॥

v3.c22.s8.t1.6

(रूपमण्डने ॥)

v3.c22.s8.t1.7

तेजश्चण्डो महावक्रो द्विभुजः पद्मखड्गभृत् । कुण्डिकाजप्यमालीन्दुः कुजश्शक्त्यक्षमालिकः ॥ बुधश्चापाक्षपाणिस्स्याज्जीवः कुण्ड्यक्षमालिकः । शुक्रः कुण्ड्यक्षमाली स्याल्लिङ्गीणीसूत्रवाञ्छनिः ॥ अर्धचन्द्रधरो राहुः केतुः खड्गी च दीपभृत् ।

v3.c22.s8.t1.8

(अग्निपु० ५१ अ० ॥)

v3.c22.s8.t1.9

सोमः ।

v3.c22.s8.t1.10

सोमस्सिंहासनासीनः कुन्दशङ्खसमद्युतिः । प्रभामण्डलसंयुक्तो द्विभुजसौम्यवक्त्रकः ॥ आसीनो वा स्थितो वापि कुमुदोज्वलकं करः । हेमयज्ञोपवीताङ्गस्सर्वाभरणभूषितः ॥

v3.c22.s8.t1.11

शुक्लवस्त्रधरश्शान्तस्सर्वपुष्पैरलङ्कृतः । सोम एवं समाख्यातः क्षेत्रपालस्तथोच्यते ॥

v3.c22.s8.t1.12

(अंशुमद्भेदागमे एकोनपञ्चाशपटले ॥)

v3.c22.s8.t1.13

चन्द्रश्चित्रे विधातव्यश्वेताम्बरसमावृतः । दशश्वेताश्वसंयुक्तमारूढं स्यन्दनं शुभम् ॥

v3.c22.s8.t1.14

द्विभुजं दक्षिणे पाणौ गदां बिभ्रत्पृथूदरीम् । वामस्तु वरदो हस्तश्शशाङ्कस्य निरुच्यते ॥

v3.c22.s8.t1.15

(शिल्परत्ने पञ्चविंशाध्याये ॥)

v3.c22.s8.t1.16

चन्द्रश्वेतवपुः कार्यश्वेताम्बरधरः प्रभुः । चतुर्बाहुर्महातेजास्सर्वाभरणभूषितः ॥

v3.c22.s8.t1.17

कुमुदौ च सितौ कार्यौ तस्य देवस्य हस्तयोः । कान्तिमूर्तिमती कार्या तस्य पार्श्वे तु दक्षिणे ॥

v3.c22.s8.t1.18

वामे शोभा तथा कार्या रूपेणाप्रतिमा भुवि । चिह्नं तथास्य सिंहाङ्कं वामपार्श्वेऽर्कवद्भवेत् ॥

v3.c22.s8.t1.19

दशाश्वे च रथे कार्यो द्विचक्र्रे वरसारथौ ।

v3.c22.s8.t1.20

(मत्स्यपुराणे ॥)

v3.c22.s8.t1.21

श्वेतश्वेताम्बरधरश्वेताश्वश्वेतभूषणः । गदापाणिर्द्विबाहुश्च कर्तव्यो वरदश्शशी ॥

v3.c22.s8.t1.22

चित्रसिंहासनासीनः कुन्दस्फटिकसन्निभः । प्रभामण्डलसंयुक्तो द्विबाहुश्च द्विनेत्रकः ॥ आसीनो वा स्थितो वापि कुमुदप्रज्वलत्करः । तस्य दक्षिणभागे तु रोहिणी द्विभुजान्विता ॥ सस्याङ्कुरनिभाङ्गा स्याद्‌आजीवसमलोचना । चन्द्राकृतिस्समाख्याता स्कन्दस्याकृतिरुच्यते ॥

v3.c22.s8.t1.23

(पूर्वकारणागमे त्रयोदशपटले ॥)

v3.c22.s8.t1.24

भौमः ।

v3.c22.s8.t1.25

धरापुत्रस्य वक्ष्यामि लक्षणं चित्रकर्मणि । चतुर्भुजो मेषगमश्चाङ्गारकसमुद्युतिः ॥ दक्षिणं तद्वरं हस्तं वरदं परिकल्पयेत् । ऊर्ध्वं शक्तिसमायुक्तं वामौ शुकगदाधरौ ॥

v3.c22.s8.t1.26

(शिल्परत्ने पञ्चविंशाध्याये ॥)

v3.c22.s8.t1.27

भौमोऽग्नितुल्यः कर्तव्यस्त्वष्टाश्वे काञ्चने रथे ।

v3.c22.s8.t1.28

(मत्स्यपुराणे ॥)

v3.c22.s8.t1.29

रक्तमाल्याम्बरधरशक्तिशूलगदाधरः । चतुर्भुजो मेषगमो वरदस्याङ्गारकसुतः ॥

v3.c22.s8.t1.30

बुधः ।

v3.c22.s8.t1.31

सिंहारूढं संप्रवक्ष्ये कर्णिकारसमप्रभम् । पीतमाल्याम्बरधरं स्वर्णभूषाविभूषितम् ॥ वरदं खड्गसंयुक्तं खेटकेन समन्वितम् । गदया च समायुक्तं बिभ्राणं दोश्चतुष्टयम् ॥ एवं लिखेच्चन्द्रसूनुं बुधं ग्रहपतिं शुभम् । (शिल्परत्ने पञ्चविंशाध्याये ॥)

v3.c22.s8.t1.32

विष्णुतुत्यो बुधः कार्यो भौमतुल्ये तथा रथे । (विष्णुधर्मोत्तरे ॥)

v3.c22.s8.t1.33

देवगुरुशुक्रौ ।

v3.c22.s8.t1.34

ततो देवगुरुर्ल्येयशुक्रश्च भृगुनन्दनः । चतुर्भिर्बाहुभिर्युक्तश्चित्रकर्मविशारदैः ॥ वरदौ साक्षसूत्रौ च कमण्डलुधरौ तथा । दण्डनौ च तथा बाहौ बिभ्राणौ [परि*]कल्पयेत् ॥ (शिल्परत्ने पञ्चविंशाध्याये ॥)

v3.c22.s8.t1.35

तप्तजाम्बूनदाकारो द्विभुजश्च बृहस्पतिः । पुस्तकं चाक्षमालां च करयोस्तस्य कारयेत् ॥ सर्वाभरणयुक्तश्च तथा पीताम्बरो गुरुः । अष्टाश्वे काञ्चने दिव्ये रथे दृष्टिमोनरमे ॥

v3.c22.s8.t1.36

शुक्रश्वेतवपुः कार्यश्वेताम्बरधरस्तथा । द्वौ करौ कथितौ तस्य निधिपुस्तकसंयुतौ ॥ दशाश्वे वा रथे कार्यो राजते भृगुनन्दनः । (विष्णुधर्मोत्तरे ॥)

v3.c22.s8.t1.37

शनैश्वरः ।

v3.c22.s8.t1.38

शनैश्वरः कृष्णवर्णो द्विभुजस्सितवाससा । करण्डमकुटोपेतस्सर्वाभरणभूषणः ॥ दण्डं दक्षिणहस्ते तु वरदं वाममुच्यते । स्थानकं पद्मपीठे तु शुक्लवस्त्रधरश्शुचिः ॥ ईषत्पङ्गुरिव स्थाने ईषद्ध्वस्तनुस्मृतः । (अंशुमद्भेदागमे एकोनपञ्चाशपटले ॥)

v3.c22.s8.t1.39

कृष्णवासास्तथा कृष्णश्शनिः कार्योऽसिताननः । दण्डाक्षमालासंयुक्तः करद्वितयभूषणः ॥ कार्ष्ण्यासे रथे कार्यस्तथैवाष्टतुरंगमे । (विष्णुधर्मोत्तरे ॥)

v3.c22.s8.t1.40

राहुः ।

v3.c22.s8.t1.41

सिंहासनगतं राहुं करालवदनं लिखेत् । वरदं खड्गसंयुक्तं खेटशूलधरं क्रमात् ॥ (शिल्परत्ने पञ्चविंशाध्याये ॥)

v3.c22.s8.t1.42

रौप्ये रथे तथाष्टाश्वे राहुः कार्यो विचक्षणैः । कम्बलं पुस्तकं कार्यं भुजेनैकेन संयुतम् ॥ करमेकं तु कुर्याच्च शस्यशून्यं१ तु दक्षिणम् । (विष्णुधर्मोत्तरे ॥)

v3.c22.s8.t1.43

केतवः ।

v3.c22.s8.t1.44

धूम्रा द्विबाहवस्सर्वे वरदाश्च गदाधराः । गृध्रपृष्ठसमारूढा लेखनीयास्तु केतवः ॥ गृध्राः किरीटिनः कार्या नवतालप्रमाणकाः । रक्तकुण्डलकेयूरहाराभरणभूषिताः ॥ (शिल्परत्ने पञ्चविंशाध्याये ॥)

v3.c22.s8.t1.45

भौमवच्च तथा रूपं केतोः कार्यं विजानता । केवलं चास्य कर्तव्या दश राजंस्तुरङ्गमाः ॥ (विश्वकर्मशास्त्रे ॥)

v3.c22.s8.t1.46

आदित्यप्रतीहाराः ।

v3.c22.s8.t1.47

तर्जन्यंशुताम्रचूडदण्डैर्दण्डी तु वामतः । तर्जनीशक्तिकिरणदण्डैस्स्यात्पिङ्गलः परः ॥ द्वे तर्जन्यौ वज्रदण्डावानन्दो वामगो दधत् । तर्जनीदण्डापसव्ये विचित्रो दक्षिणे स्थितः ॥

v3.c22.s8.t1.48

१. ‘शस्त्रशून्य’ मिति स्यात् ।

v3.c22.s8.t1.49

द्वे तर्जन्यौ पद्मदण्डौ चित्रो धत्ते स वामतः । तर्जनीदण्डापसव्ये विचित्रो दक्षिणे स्थितः ॥ तर्जन्यौ किरणं दण्डं किरणाक्षस्तु धारयेत् । तर्जनीदण्डापसव्ये प्रतीहारस्सुलोचनः ॥ चतुर्द्वारिषु संस्थाप्या दिशास्वेते प्रदक्षिणम् । (रूपमण्डने ॥)

v3.c22.s8.t1.50

भूयस्त्व प्रवक्ष्यामि दण्डनायकपिङ्गलौ । राज्ञस्तौपादयश्चान्ये दिग्देवा दिण्डिना सह ॥ मया सह समागम्य पुरा देवैर्विचारितम् । एष कारुणिकस्सूर्यो युध्यते दानवैस्सह ॥ ते तु लब्धवर भूत्वा अमात्याया ह्यभीक्ष्णशः । आदित्यं मन्यमानास्ते तपन्तं हन्तुमुद्यताः ॥ तस्मात्तेषां विघातार्थं प्रवराश्च भवामहे । अस्माभिः प्रतिरुद्धास्ते न द्रक्ष्यन्ति दिवाकरम् ॥ संमत्यैवं ततस्कन्दो वामपार्श्वे रखेस्थितः । दण्डनायकसंज्ञस्तु सर्वलोकस्य स प्रभुः ॥ उक्तश्च स तदार्केण त्वं प्रजादण्डनायकः । दण्डनीतिकरो यस्मात्तस्मात्त्वं दण्डनायकः ॥ लिखते यः प्रजानां च सुकृतं यच्च दुष्कृतम् । अग्निर्दक्षिणपार्श्वे तु पिङ्गलत्वात्स पिङ्गलः ॥

v3.c22.s8.t1.51

अश्विनौ वापि सूर्यस्य पार्श्वयोरुभयोस्थितौ । अश्वरूपात्समुत्पन्नौ तेन तावश्विनौ सुरौ ॥ द्वारपालौ स्मृतौ तस्य राज्ञः श्रेष्ठौ१ महाबलौ । कार्तिकेयस्मृतो राज्ञः श्रेष्ठश्चापि२ हरस्मृतः ॥ राजृदीप्तौ स्मृतो धातुर्नकारस्तस्य प्रत्ययः । सुरसेनापतित्वेन स यस्माद्दीव्यते सदा ॥ तस्मात्स कार्तिकेयस्तु नाम्ना राज्ञ इति स्मृतः । सुगतौ च स्मृतो धातुर्यस्य स प्रत्ययस्मृतः ॥ गच्छतीति रह३स्तस्मात्पर्यायात्स्त्रोष उच्यते । प्रथमं यद्भवेद्वारं धर्मार्थाभ्यां समाश्रितम् ॥ तत्रैतौ संस्थतौ देवौ लोकपूज्यौ द्विजोत्तमाः ! । द्वितीयायां तु कक्ष्यायामप्रधृष्टौ व्यवस्थितौ ॥ पक्षिप्रेताधिपौ नाम्ना स्मृतौ कल्मापक्षिणौ । वर्णस्य शबलत्वाच्च यमः कल्माष उच्यते ॥ पक्षावस्येति यः पक्षी गरुडः परिकीर्तितः । स्थितो दक्षिणतस्तस्य दण्डहस्तसमन्वितः ॥

v3.c22.s8.t1.52

१. उपरितननिर्वचनानुसारेण ‘राज्ञक्षौषा’विति भवितव्यम् । २. ‘क्षौष- क्षापी’ति भवितव्यम् । ३. ‘हरस्मृत’ इति पूर्ववचनानुसारेण ‘हर’ इति भवितव्यम् ।

v3.c22.s8.t1.53

उत्तरेण स्थितोऽर्कस्य कुबेश्र्व विनायकः । कुबेरो धनदो ज्ञेयो हस्तिरूपो विनायकः ॥

v3.c22.s8.t1.54

कुत्सया कुप्यता शतं कुशरीरमजायत । कुबेरः कुशरीरत्वात् नाम्ना धनदस्मृतः ॥

v3.c22.s8.t1.55

नायकस्सर्वसत्त्वानां तेन नायक उच्यते । विविधं नयते यस्मात्सु तस्माद्विनायकः ॥

v3.c22.s8.t1.56

रेवतश्र्व दिण्डिश्र्व तौ रवेः पूर्वतस्थितौ । ततो दिण्डिस्मृतो रुद्रो रेवतस्तनयो रवेः ॥

v3.c22.s8.t1.57

प्लुतं गच्छत्यसौ यस्मात्सर्वलोकनमस्कृतः । रेवप्लवगतौ धातूरेवतस्तेन स स्मृतः ॥

v3.c22.s8.t1.58

डिङ्गतावस्य वै धातोर्र्दिण्डशब्दो निपात्यते । डयतेऽसौ सदा दिण्डी तेन दिण्डी प्रकीर्तितः ॥

v3.c22.s8.t1.59

इत्येते प्रवराः प्रोक्ता धात्वर्था नैगमेश्शुभैः । एषां संक्षेपतो भूयस्सङ्ख्यां वो निगदामि वै ॥

v3.c22.s8.t1.60

अश्विनौ तौ ततो ज्ञेयौ दण्डनायकपिङ्गलौ । तौ सूर्यद्वारपौ ज्ञेयौ राज्ञस्तौ ततस्मृतौ ॥

v3.c22.s8.t1.61

रेवतश्र्व दिण्डिश्र्व इत्येते प्रवरा मया । अष्टादश समाख्यातास्सङ्क्षेपात्सङ्ख्यया मया ॥

v3.c22.s8.t1.62

(भविष्यपुराणे ब्रा० प० १२४ अ० ॥)

Linked texts (9)