Pramāṇa · Search · About · API

Elements of Hindu Iconography v4.c36.s3: सुखासनादिमूर्तयः ।

Elements of Hindu Iconography v4.c36.s3

Language
English

Contents

सुखासनादिमूर्तयः ।

v4.c36.s3.1

सुखासनमूर्तिः ।

v4.c36.s3.2

मेरुपर्वतपार्श्वे तु मुनीनामाश्रमे तथा । दिगम्बरं तु मां दृष्ट्वा तेषां स्त्रीणां भ्रमोऽस्ति वै ॥

v4.c36.s3.3

तं ज्ञात्वा मुनयस्सर्वे जुहुवुस्त्वभिचारिकम् । तन्मध्ये ह्युदितानीह नागं कृष्णमृगं तथा ॥

v4.c36.s3.4

अपस्मारं च परशुमुक्षं व्याघ्रं हरिं तथा । करोटिं तु महाभीममेवमाया गता मयि ॥

v4.c36.s3.5

नागं मृगं च परशुं क्रीडार्थं धारितं मया । पादाधस्तादपस्मारं करोटिं शिरसोपरि ॥

v4.c36.s3.6

सिंहव्याघ्रौ तदा हत्वा तत्त्वर्मं धारितं मया । तदुक्षं वाहनं भूत्वा मम प्रियकरं सदा ॥

v4.c36.s3.7

महोदधेर्विषं कण्ठे सोमार्ध शेखरे धृतम् । बकपुष्पं जटाभारे मया नृत्तेऽवधारितम् ॥

v4.c36.s3.8

समानमन्यत्सर्वासां प्रतिमानां विशेषतः । त्रिनेत्रं चतुर्भुजं सौम्यं बालेन्दुकृतशेखरम् ॥

v4.c36.s3.9

धुस्तूरभुजगोपेतं जटामकुटमण्डितम् । व्याघ्रचर्माम्बरं चैव हारकेयूरसंयुतम् ॥

v4.c36.s3.10

यज्ञोपवीतसंयुक्तं कुण्डलाभ्यामलङ्कृतम् । मूर्तीनां द्वादशानां तु सामान्यमिदमीरितम् ॥

v4.c36.s3.11

अतः परं विशेषस्तु क्रमशो वक्ष्यतेऽधुना । आसने तु सुखासीनं मृगीपरशुधारिणम् ॥

v4.c36.s3.12

अभयं दक्षिणे हस्ते वरदं वामहस्तके । कटकं वा सुखासीनमुमास्कन्दौ च वर्जितम् ॥

v4.c36.s3.13

एवं सुखासनं प्रोक्तमुमासहितमुच्यते ।

v4.c36.s3.14

(सुप्रभेदागमे चतुर्विंशत्तमपटले ॥)

v4.c36.s3.15

आर्जवं राजसं भावं भद्रपीठोपरिस्थितम् । वामाङ्घ्रिं शाययेत्पीठे दक्षिणाङ्घ्रिं तु लम्बयेत् ॥

v4.c36.s3.16

जागतं(?) तु सुखासीनं प्रवालसदृशप्रभम् । त्रिनेत्रं तु प्रसन्नास्यं संपन्नं राजसैर्गुणैः ॥

v4.c36.s3.17

व्याघ्राजिनवरोपेतं दुकूलवसनान्वितम् । दक्षिणे परशुं वामे कृष्णं हस्ते समुद्धृतम् ॥

v4.c36.s3.18

अभयं दक्षिणे वामे कटकं सिंहकर्णवत् । दक्षिणे मकराख्यं वा कुण्डलं सिंहमेव वा ॥

v4.c36.s3.19

पत्रकुण्डलमन्यत्र वामकर्णे विशेषतः । अथवा कर्णयुगले वृत्तकुण्डलकं न्यसेत् ॥ जटामुकुटसंयुक्तं नानाभरणभूषितम् । यज्ञोपवीतसंयुक्तं सर्पराट्कङ्कणान्वितम् ॥ एवं सुखासनं प्रोक्तं राजराष्ट्रसुखावहम् । (शिल्परत्ने द्वाविंशाध्याये ॥)

v4.c36.s3.20

चतुर्भुजं त्रिनेत्रं च जटामुकुटसंयुक्तम् । अभयं दक्षिणं हस्तं वरदं वामहस्तकम् ॥ कृष्णापरशुसंयुक्तं वामदक्षिणहस्तयोः । शयनं दक्षिणं पादं वामपादं तु लम्बितम् ॥ उमासहितवत्सर्वं स्कन्दगौरीविवर्जितम् । (पूर्वकारणागमे एकादशपटले ॥)

उमासहितमूर्तिः ।

v4.c36.s3.t1.1

केवलं त्वेवमाख्यातं वामे गौरीसमायुतम् । तद्गौरीसहितं ख्यातं भिन्नपीठैकमेव वा ॥ (अंशुमद्भेदागमे त्रिषष्टिमपटले ॥)

v4.c36.s3.t1.2

केवलं त्वेवमाख्यातं वामे गौरीसमन्वितम् । भिन्नपीठे विशेषेण तद्गौरीसहितं विदुः ॥

v4.c36.s3.t1.3

आलिङ्गमूर्तिः ।

v4.c36.s3.t1.4

तदेव भङ्गसंयुक्तं देवीदेवौ परस्परम् । देवो वरदहस्तेन देवी वै...पराश्रितम् ॥ ...स्तनाभ्यन्तरे वामपार्श्वमालङ्गनं कुरु । पार्श्वसूत्रात्पुरो वामबाहुमालङ्गनं तु वा ॥ देवी दक्षिणहस्तेन शम्भोर्दक्षिणपार्श्वतः । कटिसूत्रोपरि स्पृष्ट्वा पुष्पं वामकरे धृता ॥ अथवा प्राग्वदेवेशो देव्यास्तु दक्षिणे करे । रक्तोत्पलं परिग्राह्य वामहस्तं प्रलम्बिता ॥ एवमालङ्गमूर्तिं च त्रिधामार्गेण कल्पयेत् । सर्वाभरणसंयुक्तं प्रभामण्डलमाण्डतम् ॥

v4.c36.s3.t1.5

चन्द्रशेखरमाख्यातं वृषारूढमथ शृणु । (अंशुमद्भेदागमे त्रिषष्टिमपटले ॥)

v4.c36.s3.t1.6

देवो वरदहस्तेन देवीं तत्पार्श्वमाश्रिताम् । स्तनाभ्यन्तरे वामपार्श्वमालङ्गनं कुरु ॥ पार्श्वसूत्रात्पुरो वामबाहुमालङ्गनं तु वा । देवी दक्षिणहस्तेन शम्भोर्दक्षिणपार्श्वतः ॥ कटिसूत्रोपरि तथा वामे पुष्पधृता करे । अथवा प्राग्वदेवेशो देवी रक्तोत्पलाऽन्विता ॥

v4.c36.s3.t1.7

करे तु दक्षिणे वामहस्तमात्रं प्रलम्बयेत् । एवमालिङ्गमूर्तिं तु त्रिधा मार्गेण कल्पयेत् ॥ एवं पञ्चविधं प्रोक्तं चन्द्रशेखरमूर्तिमम् ।

v4.c36.s3.t1.8

(शिल्परत्ने द्वाविंशपटले ॥)

सोमास्कन्दः ।

v4.c36.s3.t2.1

वक्ष्यामि सोमोमास्कन्दसुखस्थापनं परम् । तल्लक्षणसमायुक्तं तच्चेदानीं प्रकथ्यते ॥ चतुर्भुजस्त्रिनेत्रश्च जटामकुटमण्डितः । सर्वाभरणसंयुक्तो वरदाभयहस्तकः ॥ कृष्णापरशुयुक्तोर्ध्ववामेतरकरान्वितः । असव्यसव्यकर्णस्थपत्रिकानक्रकुण्डलः ॥ सोपवीतः प्रसन्नात्मा शयितासव्यपात्तलः । सालम्बदक्षपादेन वामे गौर्या च संयुतः ॥ सर्वलक्षणसंयुक्तस्सर्वाभरणभूषितः । वामे देव्या समायुक्तस्तध्यायप्रसिद्धया ॥ ससोमस्सोम एव स्यात्सोमास्कन्दविधिर्भवेत् । देवेश्चदशभागैकभागेनाथ द्विभागतः ॥ त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः । द्विनेत्रस्द्विबाहुश्च करण्डमकुटान्वितः ॥

v4.c36.s3.t2.2

कर्णयोर्नक्रपिण्डेन सर्वाभरणभूषितः । दक्षभागकरस्थाब्जः प्रसारितकरोऽपरः ॥ द्विहस्तपङ्कजो वाथ नृत्तरूपयुतोऽथवा । देव्यूरसंस্থিতो वापि निष्पङ्कजकरोऽथवा ॥ आसीनो वा स्थितो वापि स्कन्दस्त्वेवं प्रकीर्तितः । स्कन्दमारहितस्त्वेव स्यात्तु सुखासनः ॥ सोमे च सोमास्कन्दे च सुखेशे लक्षणं मतम् ।

v4.c36.s3.t2.3

(उत्तरकामिकागमे सप्तचत्वारिंशत्तमपटले ॥)

v4.c36.s3.t2.4

सहासने हुमादेवीं सुसौम्यवदनोज्ज्वलाम् । द्विभुजां पद्महस्तां तु मकुटाभरणान्विताम् ॥ कटकाख्यधरां वामे प्रसारितमथापि वा । उमाबाहस्तनान्तं वा मानं वै षण्मुखस्य तु ॥ कण्ठे शूलसमायुक्तं छन्नवीरसमायुतम् । उमाशङ्करयोर्मध्ये स्कन्दं वै बालरूपिणम् ॥ आसनं स्थानकं वापि वरदं कटकान्वितम् । कृत्वा सुखासनं यद्वत् पूर्ववत्परमेश्वरम् ॥ देवस्य मुखमन्वीक्ष्य किञ्चिद् गौरीं तु कारयेत् ।

v4.c36.s3.t2.5

(सुप्रभेदागमे चतुर्विंशत्तमपटले ॥)

v4.c36.s3.t2.6

अथ वक्ष्ये विशेषेण सोमास्कन्देश्वरं परम् । सुखासनं यथा प्रोक्तं तथा देवो विधीयते ॥

v4.c36.s3.t2.7

देवस्य वामपार्श्वे तु पार्वती च सहासने । शाययेदक्षिणं पादं वामपादं प्रलम्बयेत् ॥

v4.c36.s3.t2.8

वरदं वामहस्ते तु दक्षिणे चोत्पलं करे । दूर्वाश्यामनिभा देवी सर्वाभरणभूषिता ॥

v4.c36.s3.t2.9

रक्ताम्बरधरा हारमकुटोज्वलन्विता । वामोरुबाह्ये पीठे तु वामहस्ततलं न्यसेत् ॥

v4.c36.s3.t2.10

प्रहृदुत्पलसंयुक्तमन्यमेवं करोतु वा । देवीदेवेशयोर्मध्ये स्थापयेत्स्कन्दमूर्तिमन् ॥

v4.c36.s3.t2.11

केशान्ते वापिकोपेतं करण्डमकुटोज्वलम् । उभयोर्हस्तयोः पुष्पं वामे वरदमेव वा ॥

v4.c36.s3.t2.12

कटकं वाथ तद्धस्ते सिंहकर्णमथापि वा । अथवा पुस्तकं दक्षहस्ते वामे उक्तवत् ॥

v4.c36.s3.t2.13

कटिसूत्रयुतं नग्नं बाहुभूषणभूषितम् । आसीनं वा स्थितं वाथ नृत्तं वा स्कन्दमाचरेत् ॥

v4.c36.s3.t2.14

नृत्तं चेत् फलवद्वामहस्तमन्यत्र सूचिकम् । अथवा वामहस्तं तु फलं त्यक्त्वा प्रसारयेत् ॥

v4.c36.s3.t2.15

वक्ष्यमाणविधानेन स्कन्दवृत्तं समाचरेत् ।

v4.c36.s3.t2.16

चतुर्भुजं त्रिनेत्रं च जटामुकुटसंयुतम् । सर्वाभरणसंयुक्तं वरदाभयहस्तकम् ॥

v4.c36.s3.t2.17

कृष्णापरशुसंयुक्तं दक्षिणे वामकेऽपि च । पत्रं तु वामकर्णे तु दक्षिणे कुण्डलं भवेत् ॥

v4.c36.s3.t2.18

उपवीतधरं चैव शयनं वामपादकम् । लम्बितं दक्षिणं पादं वामे गौरीसमायुतम् ॥

v4.c36.s3.t2.19

तयोर्मध्ये स्थितस्कन्दस्सर्वलक्षणसंयुतः । ब्रह्मविष्णू द्विपार्श्वाभ्यां देवीभ्यां युक्तभोगदम् ॥

v4.c36.s3.t2.20

देवस्य बाहुसीमान्तं देव्यास्तवायाममुच्यते । द्विबाहुका द्विनेत्री च करण्डमकुटान्विता ।

v4.c36.s3.t2.21

सर्वाभरणसंयुक्ता दुकूलवसनान्विता । शयनं दक्षिणं पादं वामपादं तु लम्बितम् ॥

v4.c36.s3.t2.22

कटकं दक्षिणं हस्तं वरदं वामहस्तकम् । बेरायामं तु विभजेदष्टधा चैव भागिकम् ॥

v4.c36.s3.t2.23

द्विभागं वा गुहायामं बाहु(ल?)रूपेण कल्पयेत् । द्विभुजश्च द्विनेत्रश्च सर्वाभरणभूषितः ॥

v4.c36.s3.t2.24

कटकं दक्षिणे हस्ते वामहस्तं प्रलम्बितम् । आसीनो वा स्थितो वापि कारयेत्तु गुहं ततः ॥

v4.c36.s3.t2.25

पद्मपीठोर्ध्वके वापि केवलं पीठोपरि । भवानीसहितं ह्येवं वृषवाहनमुच्यते ॥ (पूर्वकारणागमे एकादशपटले ॥)

v4.c36.s3.t2.26

उमामहेश्वरौ ।

v4.c36.s3.t2.27

युग्मं स्त्रीपुरुषं कार्यमुमेशौ दिव्यरूपिणौ । अष्टवक्त्रं तु देवेशं जटाचन्द्रार्धभूषितम् ॥ द्विपाणिं द्विभुजां देवीं सुमध्यiं सुपयोधराम् । वामपाणिं तु देवस्य देव्यास्कन्धे नियोजयेत् ॥ दक्षिणं तु करं शम्भोरुत्पलेन विभूषितम् । देव्यास्तु दक्षिणं पाणिं स्कन्धे देवस्य कल्पयेत् ॥ वामपाणौ तथा देव्या दर्पणं दापयेच्छुभम् । (विष्णुधर्मोत्तरे ॥)

v4.c36.s3.t2.28

उमामहेश्वरं वक्ष्ये उमया सह शङ्करम् । मातुलिङ्गं त्रिशूलं च धत्ते दक्षिणे करे ॥ आलिङ्गन्वामहस्तेन नागेन्द्रं द्वितीये करे । हरस्कन्धे उमाहस्तो दर्पणं द्वितीये करे ॥ अधस्ताद्वृषभं कुर्यात्कुमारं च गणेश्वरम् । भृङ्गिरिटिं तथा कुर्यान्निमां सं नृत्यसंस्थितम् ।

v4.c36.s3.t2.29

सपरिवारोमामेश्वरः ।

v4.c36.s3.t2.30

वामे शैलसुता पुरस्तु वृषभः पश्चात्सुरेन्द्रादयो दैत्यारिश्च विधिश्च पार्श्वदलयोर्वाव्यादिकोणेषु च । भृङ्गी नारदबाणभैरवगजास्यस्कन्दवीरेश्वरा मध्ये शुभ्रसरोजकोमलरुचं शम्भुं भजे पाण्डुरम् ॥

v4.c36.s3.t2.31

(श्रीतत्वनिधौ)

v4.c36.s3.t2.32

संहारमूर्तयः ।

Cites (4)