Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c61: प्राक्कथनम्

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c61

Language
English

प्राक्कथनम्

v1.c61.1

विदितमेव तत्र भवतां यदहं किञ्चित्कालाद् भारतीय-विज्ञानस्य नवीनामेवैकाद्भुतामेवा-तिजटिलां कठिनाञ्चापि शाखां वास्तुशास्त्रमित्यभिधामधिकृत्यानुसन्धानकर्मणि प्रवृत्तः; तत्रापि प्रथितकीर्तेस्तत्रभवतः धाराधिपस्य भोजराजस्य समरांगण-सूत्रधारमधिकृत्य यः पी-एच० डी०-उपाधि-विषयकः प्रबन्धः प्रस्तुतस्तस्य च यः परमोत्तमः परीक्षकाणां स्तवः (विशेषतश्च कलकत्ता विश्वविद्यालयीय-प्राच्यभारतीयेतिहास-विभागाध्यक्षाणां प्रथितयशसां कला-शास्त्र-पारंगतानां डाक्टर जितेन्द्रनाथबैनर्जी-महोदयानाम् ) प्राप्तः; अथ च उत्तर-प्रदेश-राज्येनापि भृशं सम्मानितश्च (प्रकाशनसाहाय्य-दानेन पारितोषिकेण च ); अथ शिल्प-शास्त्रं चित्र-शास्त्रञ्चाधिकृत्य "फाउन्डेशंस एण्ड कैनन्स आफ हिन्दू आइकोनोग्राफी बोथ स्कल्पचरल एण्ड पिक्टोरियले" त्यमुं विषयमंगीकृत्य यश्च डि० लिट्०-विषयकः प्रबन्ध उद्भावितस्तस्यापि कीर्त्ति-जुषां महामहोपाध्यायानां वासुदेवविष्णुमिराशीमहोदयानामन्येषाम्चापि विद्वद्धरेण्यानां ततोऽपि वरिष्ठः कश्चन अप्रत्याशितस्संस्तवस्समधिगतः तेन सर्वेणोत्साहितोऽहं भारतीयवास्तुशास्त्रेति सामान्यविषयमुपजीव्य चतुर्दशग्रन्थानामेकां प्रकाशन-योजनां कल्पितवानस्मि । तस्यां ग्रन्थोऽयं प्रकाशने षष्ठः विषयक्रमे च द्वितीय आकलनीयः । सोऽथ विदुषां समक्षे समुपस्थाप्यते महता प्रश्रयेण हर्षनिभरेण च ।

v1.c61.2

सुरसरस्वतिप्रणयिनां नैतत्तिरोहितं यत्प्रतिमा-लक्षण-संग्रहे कश्चनापूर्वः पूर्वोऽपि प्रयास अभूत् परं वास्तु-लक्षण-संग्रहणे चित्रलक्षणोपमः त्वपूर्वोयं प्रयासः सर्वप्रथमः मामकीन एवात्र गुरूणां शुभाशिष एव कारणम् । एतेन मन्ये कला-शास्त्र-विषयकमेकं नवीनमाधुनिकपाश्चात्य-रीत्या वैज्ञानिकपद्धतिपुरस्सरकलाप्रबन्धग्रन्थनिनिबन्धनेन प्रस्थानं समुन्मिषितम् । संस्कृते कला-विषयकाणि प्राधान्येन त्रीण्येव शास्त्राणि वास्तु-शास्त्रं, शिल्पशास्त्रं चित्रशास्त्रञ्च सन्ति; यानि वास्तुशास्त्रमिति स्थापत्य-शास्त्रमिति वेति नाम्ना प्रथयन्ते । मानसार-मयमत-शिल्परत्नादिषु द्राविडेषु विश्वकर्म-वास्तु-शास्त्र-समरांगणसूत्रधार-वास्तु-शास्त्रापराजितपृच्छादिषु नागरेषु च वास्तु-शास्त्रीयग्रन्थेष्वयमेव विलासः । यद्यप्यासीदेकः कालः यदास्माकं देशे चतुष्षष्टिकलानामेकः प्रौढः सम्प्रदायःप्रभूततमश्च प्रोल्लासः जागर्तिस्म । वात्स्यायनकामशास्त्रस्यायमुन्मेषः लब्धप्रतिष्ठस्य तत्रभवतः यशोधरस्यापीयं मनीषा । शुक्राचार्यस्यापीदमेव समर्थनम् । तथापि कालक्रमेण परि-वर्त्तमानायामस्माकं संस्कृतौ इमान्येव शास्त्राणि प्राधान्येनाचार्यैः प्रतिपादितानि शास्त्रप्रबन्धैश्च दृढ़ीकृतानि ।

v1.c61.3

अस्माकमेतन्महद्गौरवं सौभाग्यञ्चापि यदहं पारिभाषिके वैज्ञानिके चास्मिन् विषये अनुसन्धानार्थी प्रवृत्तः । शास्त्रमिदमतिकठिनम् । न कुत्रापि प्राचीनानि प्रस्थानानि न कोपि-प्राचीनः वास्तुकोषः न कापि परम्परागता सरणिः । शापदग्धविदग्धानां विश्वकर्मीयाणां घोरा गतिरेवात्र किं निदानं यद्वास्तुवैदुष्यं विलुप्तम् । तथाप्यग्रगामिनां रामराजप्रसन्नकुमाराचार्यद्वय-वास्तु-शास्त्र-संशोधकानां यः पूर्वः पन्थाः प्रवर्तितस्तेनास्माकं सोत्साहमत्र विषये प्रवृत्तिर्बभूव । समरांगणसूत्रधार-वास्तु-शास्त्रस्याध्ययनेन प्रथमं ग्रन्थस्यैकगरिमानं पुनश्चास्य शास्त्रस्य प्रायः समेषामेव ग्रन्थानां महिमानं पुराणागमतन्त्र-प्रतिष्ठापद्धतीनां नानाग्रन्थानां प्रथिमानं च दर्शं दर्शमुदरं-भरिः ब्राह्मण इव अशेषशास्त्रालोडनकृतमतिः वास्तुशास्त्रानुसन्धाने 'प्रवृत्त अभवम् । तदधिकृत्याहं ब्रवीमि—

v1.c61.4

'अप्रज्ञेयं दुरालोकं गूढार्थं बहुविस्तरम् प्रज्ञापोतं समारुह्य प्राज्ञो वास्तुनिधिं तरेत् ।''

v1.c61.5

इति समरांगणवचनानुसारेण प्रज्ञापोतं विनैव भगवत्याः सर्वमंगलायाः कृपाकणेनैव किमपि कर्तुं पारये । वास्तु-लक्षणमिदमेकं स्वतन्त्रमेव कला-शास्त्र-पुस्तकं सम्पन्नम् । अस्य संकलनायां ये नवोन्मेषाः निर्दिष्टाः यः नवीन एव एकः प्रबन्धः उद्भावितः या चाभिनवैवैका सरणिरासादिता तेन सर्वेणेदं कथयितुं प्रभुः ग्रन्थोऽयं शास्त्रस्यास्य विज्ञानां जिज्ञासूनाञ्च छात्राणां समेषामेव प्रमोदं वितरिष्यते उपकारञ्चापि करिष्यते । तेन धन्यो मे परिश्रमो भविष्यति ।

v1.c61.6

एतस्मिन्नवसरेऽनुसन्धान-ग्रन्थ-प्रकाशनसाहाय्यदानवतां तत्र उत्तर-प्रदेशराज्यस्य केन्द्रीय राज्यस्याचिरप्रतिश्रुतेश्चाथ केन्द्रीय-यूनिवर्सिटी-ग्रान्ट्सकमीशनेऽत्यभिधेयस्यायोगस्य मुहुर्मुहुर्यशो-गानं गीयते आशास्यते च तेषां संरक्षकत्वं चिरं यथा स्यात्तथोपलब्धं भविष्यतीति दिक् ।

v1.c61.7

शुक्लोपाह्व-द्विजेन्द्रनाथस्य

Cites (7)