Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c64.s2: चतुर्थः पटलः: दुर्गलक्षणं-दुर्गनिवेशश्च

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c64.s2

Language
English

चतुर्थः पटलः: दुर्गलक्षणं-दुर्गनिवेशश्च

v1.c64.s2.1

दुर्गलक्षणं-दुर्गनिवेशश्च।

v1.c64.s2.2

दुर्गाणां स्थापनं प्रायो भूपानामात्मरक्षकम्।
तस्माच्छिल्पिगणैः कार्यं न तत्र नगरादिकम्॥
क्वचिद्यदि कृते तस्य निर्माणं रचयेत्क्रमात्।
गिरिकाननभेदेन तद्द्वादशकमीरितम्॥

v1.c64.s2.3

गिरिसानौ गिरेर्मध्ये मूर्ध्नि वा यत्प्रकल्प्यते।
गिरिदुर्गमिति प्रोक्तं मुनिभिश्शास्त्रपारगैः॥
मध्यस्थदेवप्रासाददेवमन्दिरभूषितम्।
मन्त्र्यादिपरिवाराणां भवनाद्यैस्समन्वितम्॥
प्राचीमुखं प्रकर्तव्यमथवोत्तरदिङ्मुखम्।
भटैः खड्गधरैरन्यैस्समन्तात्संवृताङ्गणम्॥

v1.c64.s2.4

वनमध्यगतं दुर्गं वनदुर्गमुदीरितम्।
ऊर्ध्वस्थं भूमिभागस्थमन्तस्थं चेति तन्त्रिधा॥
ऊर्ध्वस्थं तुङ्गभूमिस्थं भूमिस्थं भूतलाश्रितम्।
सुरङ्गाश्रितमन्तस्थं बोध्यं शिल्पपरायणैः॥
शिलापरम्परातुङ्गभागस्थे दृढभित्तिके।
रक्षाकैर्यामिकैरन्यैः परीते च समन्ततः॥
दुर्गे प्रागानने स्थाप्यं भूमिपालस्य मन्दिरम्।
मन्त्र्यादिपरिवाराणां भवनानि प्रकल्पयेत्॥
सुरङ्गादुर्गके स्थाप्यं योधायुधधनादिकम्।
तलाश्चितं तु यद्दुर्गं तुङ्गप्राकारसंयुतम्॥
नलीकस्थानभाण्डेष्वन्तर्द्वारिाश्रितं तथा।
प्रस्तरोक्तप्रमाणेन कारयेदन्यकल्पनम्॥

v1.c64.s2.5

पारावारेण नद्या वा संवृतं स्थलमुत्तमम्।
कथितं शिल्पशास्त्रज्ञैर्नाम्ना सलिलदुर्गकम्॥
भूपालस्येच्छया कुर्यादन्तर्दुर्गप्रकल्पनम्।
दुर्गभित्तेरुभयतस्तूपकुड्यासमन्वितम्॥
मध्यस्थराजभवनममात्यादिस्थ्लोज्ज्वलम्।
स्थलानुकूलतः स्थाप्यमन्यवासादिकं पुनः॥
सेनावासं ससम्भारं स्थापयेच्च समन्ततः।
ससाल सार्हतं वीरैर्य्यामिकैस्तटरक्षकैः॥

v1.c64.s2.6

सलिलैस्तरुखण्डैश्च लताद्यैश्च विवर्जिते।
दुष्प्रवेश्ये स्थले तुङ्गे सोपानालिसमन्विते॥
निम्ने वाऽथ स्थले क्लृप्तमिरिणं दुर्गमिष्यते।

v1.c64.s2.7

पर्वतावृतं तन् मध्ये (च) पर्वतस्य समीपके ॥
पर्वताग्रप्रदेशे तु गिरिदुर्गमिति त्रिधा ।
तलपर्जन्यन्तरो (र) युक्तं गगनं च प्रवेशनम् ॥
एतत्तु वनदुर्गं स्याज्जलदुर्गमिहोच्यते ।
समुद्रैश्च नदीभिश्च संवृतं जलदुर्गकम् ॥
पर्वतं (त) कन्दरैर्युक्तं दुष्प्रवेशं च शत्रुभिः ।
दुर्गं तु कृत्वा नृपतिस्तिष्ठेत्तत्पङ्कदुर्गकम् ॥
वनाभावे जलाभावे सर्वशून्यादिदूषकम् ।
चोरैश्च सङ्कुलस्थानं निर्गमं रथदुर्गकम् ॥
ब्रह्मराक्षसवेतालं (ल) भूतप्रेतादिभैरवैः (वाः) ।
शिलावर्षं प्रवर्षन्तीरा (न्त्या) लोक्य वेशानिर्गमे !
मन्त्रतन्त्रादिसामर्थ्यैः कृतान्तं देवदुर्गकम् ।
अनेकपर्वतोपेतं नानावनसमिश्रकम् ॥
तत्रास्थितं तु तद्दुर्गं मिश्रदुर्गमिति स्मृतम् ।
सर्वेषामपि दुर्गेणां वप्रैश्च परिवै (खाभि) र्वृतम् ॥
प्रवेशनिर्गमस्थाने द्वारैरपि समन्वितम् ।
इष्टकादिकृतं वप्रं हस्तद्वादशकोच्छ्रितम् ॥
तदर्थं भित्तिमूले तु संचारैः सह विस्तृतम् ।
नगराणां तु सर्वेषां वक्ष्ये विन्यासलक्षणम् ॥
प्राक् प्रत्यग्गतमायामं दक्षिणोत्तरसमन्वि (संयु) तम् ।

v1.c64.s2.8

गिरिवनजलपङ्करिणदेवत मिश्राणि सप्त दुर्गाणि ॥
गिरिमध्यं गिरिपाश्र्वं गिरिशिखरं पार्व्वतं दुर्गम् ।
अजलं तरुवनगहनं वनदुर्गं तदुभयं तु मिश्रं स्यात् ॥
दैवं तु सहजदुर्गं पङ्कयुतं पङ्कदुर्गं स्यात् ।
नद्यधिपरिवृतं यज्जलदुर्गं निर्ननोदर्मिरिणं स्यात् ॥
अक्षयजलान्नशस्त्रं ह्यतिविपुलोत्तुङ्गघनसालम् ।
सर्वं हि दुर्गजालं सप्राकारं त्वनेकरुखरणम् ॥
बहिरुदकं रहितवनं छन्नपथं दुष्प्रवेशं च ।
गोपुरमण्डपयुक्तं सोपानच्छन्नमच्छन्नम् ॥
द्विकवाटचतुष्परिघार्गलहस्तोन्नतेन्द्रकील युतम् ।
सस्थूणमध्यमालयमिष्ठकसहितं सगूढसोपानम् ॥
द्वाराणि मण्डपसभाशालाकाराणि कार्याणि ।
द्वादश सालाकाराश्चतुरं वृत्तं तदायतं च पुनः ॥
चक्रं वृत्तं कौक्कुटमिह कुम्भं नागवृत्तं च ।
भग्नचतुरं त्रिकोणमष्टाश्रं नेमिखण्डं च ॥

v1.c64.s2.9

प्राकाराश्चेष्टकया द्वादशहस्तोच्छ्रिताहीनाः ।
उत्सेधार्धविशाला मूले भित्तिः ससञ्चारा ॥
सर्वस्याभ्यन्तरतः पांसुचयोऽप्यनेक्यन्त्रयुतम् ।
परितः परिखोपेतं पांसुचये संहताट्टालम् ॥
परितः शिविरोपेतं नानाजनवाससङ्कीर्णम् ।
नृपभवनसभोपेतं हस्त्यश्वरथपदातिबहुमुख्यम् ॥
धान्यैस्तैलैः क्षारैः सलवणभैषज्यगन्धविषम् ।
लोहाङ्गारस्नायुविषाणवेण्विन्धनेर्युक्तम् ।
तृणचर्मकारयुक्तं सवल्कलं सारदारुयुतम् ।
दुर्गं दुर्गममुक्तं दुर्लङ्घ्यंदुरवगाहं च ॥
रक्षार्थं च जयार्थं ह्यरिभिरभेद्यं च दुर्गमिष्ट स्यात् ।
इन्द्रश्च वासुदेवो गुहो जयन्तश्च वैश्रवणः ॥
अश्विन्यौ श्रीमन्दिरे शिवश्च दुर्गा सरस्वती चेति ।
प्राकारान्तर्दिव्या दुर्गनिवेशे च विज्ञेयाः ॥
एवं दुर्गविधानं सम्यक् प्रोक्तं पुरातनैर्मुनिभिः ।
सर्वेषां विन्यास संक्षेपाद् वक्ष्यते क्रमशः ॥

v1.c64.s2.10

पर्वते वा वने वाब्धौ दुर्गं स्याद्वा जलावृतम् ।
दुर्गं तु पार्वतं वन्यमौ (द) कं चौरगं तथा ।
दैवकं धावनं चैव कृतकं चेति सप्तधा ।
नृपभवनसमोपेतं हस्त्यश्वरथपदातिबहुलमुख्यम् ।
धान्यस्नेहक्षारलवणभैषज्यगन्धविषयुक्तम् ॥
लोहाङ्गारस्नायुविषाणवेण्विन्धनादिसर्वयुक्तम् ।
तृणचर्मशाकयुक्तं वल्लूरकसारदारुसंयुक्तम् ॥
दुर्गं दुर्गममुक्तं दुर्लङ्घ्य दुरवगाहमतिमात्रम् ।
रक्षार्थं च जयार्थं स्वरिभिरभेद्यं च दुर्गमिष्टं स्यात् ॥
गिरिमध्यं गिरिपाश्वं गिरिशिखरं पार्वतं दुर्गम् ।
निर्जल (तल?) तरुवनगहनं वनदुर्गं तदुभयमिश्रं स्यात् ॥
तदेव सह(ज)जलं चेज्जलदुर्गं पङ्कयुक्तं वा ।
नद्यब्ध्यावृतकं यज्जलदुर्गं निगदितं पूर्वैः ॥
अक्षयजलत(रु)विपुलैरण गहनसालमैरगं प्रोक्तम् ।
इन्द्रश्च वासुदेवो गुहो जयन्तश्च वैश्रवणः ॥
अश्विन्यौ श्रीमन्दिराशिवौ च दुर्गा सरस्वती चेति ।
प्राकारस्थास्त्वेते यस्मिंस्तद् दिव्यदुर्गं स्यात् ॥
धावनकृतकौ दुर्गौ विज्ञेयौ स्वस्वनामसदृशतरौ ।
एकोनविंशतिविधं दुर्गं प्रायेण कथितं स्यात् ॥

v1.c64.s2.11

अक्षयजलान्नभक्षम तिविपुलौथंगहनसालम् (?) ।
सर्वं हि दुर्गजातं सप्राकारं च मुखरक्षम् ॥
वहिरुदकरहितवनच्छन्नपथं दुष्प्रवेशं च ।
गोपुरमण्डपयुक्तं सोपानं छन्नमच्छन्नम् ॥
द्विकवाटचतुष्कुटिकाद्वयर्गलकं करमानद्विकीलम् ।
सस्थूणमध्यमालं त्विष्टकसहितं च सुदृढसोपानम् ॥
द्वाराणि मण्डपसभाशालागाराणि कार्याणि ।
पांसुचययुक्तमार्गं विधिवत् कार्यं हि सर्वत्र ।
परितः शिविरोपेतं नानाजनवाससङ्कीर्णम् ॥
द्वादशशालायुक्तं चतुरं वृत्तं तदायतं वापि ।
नन्द्यावर्तं कौक्कुटमिभकुम्भनागवृत्तं च ॥
नेमिघ्नं च त्रिकोणं षट्कोणाष्टाश्रनेमिखण्डं च ।
प्राकारं चेष्टकया द्वादशहस्तोच्छ्रयाद्धीनम् ॥
उत्सेधार्धविशालं कार्यं स्यात् सर्वदुर्गेषु ।

v1.c64.s2.12

ग्राम-नगर-शोभायाम्

v1.c64.s2.13

टि०—ग्राम-नगर-शोभायां प्राचीन-शिल्पग्रन्थेषु वहु निर्दिष्टमस्ति । तथाहि कुत्रचिन्न- द्वाराणां विलासः, कुत्रचिद्गोपुराणां प्रसारः, कुत्रचित्कासाराणां शोभा, कुत्रचिद्वापीतटाककान्तारा- दीनामभिख्या तु सुतरां तत्र तत्र दर्शनीया आसन्नेव परं ततोऽपि दर्शनीयतरआसीत् केन्द्र-विन्यास- वैभवः तथाहि चतुष्पथेषु सभाशाला-मण्डप-देवागाराणां सुनिवेशं मुहुर्मुहुर्कीर्त्यमानाः प्राचीनास्तन्त्रकारा न कदापि विरमन्तिस्म । ग्राम-शोभायाञ्च वाटिकारोपणन्तु बहुशःकीर्त्यमानं दृश्यते तथाहि बृहद्वास्तु- मालायाम्—

v1.c64.s2.14

वाटिका वा तडागो वा कूपो वा यदि निर्मितः ।
गृहात्पूर्वे कुवेर्यां च वारुणे शम्भुकोणके ॥
सदा सवित्री भविता सदा दानं प्रयच्छति ।
सदा यज्ञं स पूज्येत यो रोपयति पादपम् ॥
आम्राणां वाटिका चैव द्वितीयाश्वत्थवाटिका ।
तृतीया वटवृक्षाणां चतुर्थी प्लक्षवाटिका ॥
पञ्चमी निम्ब वृक्षाणां षष्ठी जम्बुकवाटिका ।
चिञ्चिणीवृक्षसम्भूता सप्तमी परिकीर्तिता ॥
एतासां वाटिकानाञ्च प्रशस्ता चाम्रवाटिका ।
फलदा पुण्यदा चैव पापं संहरते ध्रुवम् ॥
न तत्करोत्यग्निहोत्रं न पुत्रा योषितोद्भवाः ।
यत्करोति घनच्छायः पादपः पथि रोपितः ॥

Cites (1)