Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c64.s2.7

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c64.s2.7

Language
English

v1.c64.s2.7

पर्वतावृतं तन् मध्ये (च) पर्वतस्य समीपके ॥
पर्वताग्रप्रदेशे तु गिरिदुर्गमिति त्रिधा ।
तलपर्जन्यन्तरो (र) युक्तं गगनं च प्रवेशनम् ॥
एतत्तु वनदुर्गं स्याज्जलदुर्गमिहोच्यते ।
समुद्रैश्च नदीभिश्च संवृतं जलदुर्गकम् ॥
पर्वतं (त) कन्दरैर्युक्तं दुष्प्रवेशं च शत्रुभिः ।
दुर्गं तु कृत्वा नृपतिस्तिष्ठेत्तत्पङ्कदुर्गकम् ॥
वनाभावे जलाभावे सर्वशून्यादिदूषकम् ।
चोरैश्च सङ्कुलस्थानं निर्गमं रथदुर्गकम् ॥
ब्रह्मराक्षसवेतालं (ल) भूतप्रेतादिभैरवैः (वाः) ।
शिलावर्षं प्रवर्षन्तीरा (न्त्या) लोक्य वेशानिर्गमे !
मन्त्रतन्त्रादिसामर्थ्यैः कृतान्तं देवदुर्गकम् ।
अनेकपर्वतोपेतं नानावनसमिश्रकम् ॥
तत्रास्थितं तु तद्दुर्गं मिश्रदुर्गमिति स्मृतम् ।
सर्वेषामपि दुर्गेणां वप्रैश्च परिवै (खाभि) र्वृतम् ॥
प्रवेशनिर्गमस्थाने द्वारैरपि समन्वितम् ।
इष्टकादिकृतं वप्रं हस्तद्वादशकोच्छ्रितम् ॥
तदर्थं भित्तिमूले तु संचारैः सह विस्तृतम् ।
नगराणां तु सर्वेषां वक्ष्ये विन्यासलक्षणम् ॥
प्राक् प्रत्यग्गतमायामं दक्षिणोत्तरसमन्वि (संयु) तम् ।