Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c74.s2.144

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c74.s2.144

Language
English

v2.c74.s2.144

पुरश्मशानग्रामाध्वह्रदचैत्याश्रमोद्भवान् ।
क्षेत्रोपवनसीमन्तविषमस्थलनिम्नजान् ॥
कट्वम्लतिक्तलवणास्ववनीषु तथोद्गतान् ।
श्वभ्रावृतान् स्थिरोर्वीषु संभूतांश्च त्यजेद् द्रुमान् ॥
सम्यक् संलक्ष्य वृक्षाणां वर्णस्नेहत्वगादिकम् ।
विजानीयाद् वयस्तेषां बालांन् वृद्धांश्च सन्त्यजेद् ॥
शतानि त्रीणि वर्षाणां सारद्रुमवयः स्मृतम् ।
गृह्णीयात् षोडशादूर्ध्वं सार्धवर्षशतावधेः ॥
वयसः परिणामेन निर्वीर्यत्वं यथा नृणाम् ।
प्रोक्तं तद्वद् द्रुमाणां च स्यात्तथा छिद्रपत्रता ॥
भङ्गुराः सुषिरास्ते स्युः सकोलाक्षाः खरत्वचः ।
तस्मादिमांस्त्यजेद् वृक्षांस्तथा चैवोर्ध्वशोषिणः ॥
वक्रान रूक्षानवप्लुष्टान् दुःस्थितानपि च द्रुमान् ।
वर्जयेद भग्नशाखांश्च द्वेकशाखान्वितांस्तथा ॥
अन्यैरधिष्ठितान् विद्युत्पातवातसरित्क्षतान् ।
ग्रन्थिनिर्यूक्तदांनांश्च भ्रमराह्निकृताश्रयान् ॥
संसृष्टानेकतौ भ्रष्टान् मधुभिर्बलिभिर्वृ तान् ।
मांसा मेध्याशनैस्तद्वद् दूषितानपि पक्षिभिः ॥
लूतातन्त्वावृतान् वन्यसत्वोद्घृष्टान् गजक्षतान् ।
वुध्नतोतिबृहत्स्कन्धांश्चिन्नभूतांस्तथाध्वनः ॥
अकाले पुष्पफलिन्नो रोगैरपि च पीडितान् ।
वासभूतानुकूलानां त्यजेदन्यान्यपीदृशान् ॥
खदिरो बीजकः सालो मधूकः शार्कशिंशपे ।
सर्जार्जुनार्जुननाशोकः कद्रो रोहिणीतरूः ॥
विक्रकंतो देवदारुः श्रीपर्णीपादपस्तथा ।
कुटुम्बिन्राममी प्रोक्ता पुष्टिदा जीवदास्तथा ॥